Click on words to see what they mean.

वैशंपायन उवाच ।याते त्रिगर्तं मत्स्ये तु पशूंस्तान्स्वान्परीप्सति ।दुर्योधनः सहामात्यो विराटमुपयादथ ॥ १ ॥
भीष्मो द्रोणश्च कर्णश्च कृपश्च परमास्त्रवित् ।द्रौणिश्च सौबलश्चैव तथा दुःशासनः प्रभुः ॥ २ ॥
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् ।दुर्मुखो दुःसहश्चैव ये चैवान्ये महारथाः ॥ ३ ॥
एते मत्स्यानुपागम्य विराटस्य महीपतेः ।घोषान्विद्राव्य तरसा गोधनं जह्रुरोजसा ॥ ४ ॥
षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते ।महता रथवंशेन परिवार्य समन्ततः ॥ ५ ॥
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः ।आरावः सुमहानासीत्संप्रहारे भयंकरे ॥ ६ ॥
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः ।जगाम नगरायैव परिक्रोशंस्तदार्तवत् ॥ ७ ॥
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः ।अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ॥ ८ ॥
दृष्ट्वा भूमिंजयं नाम पुत्रं मत्स्यस्य मानिनम् ।तस्मै तत्सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ॥ ९ ॥
षष्टिं गवां सहस्राणि कुरवः कालयन्ति ते ।तद्विजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धनम् ॥ १० ॥
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् ।त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ॥ ११ ॥
त्वया परिषदो मध्ये श्लाघते स नराधिपः ।पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ॥ १२ ॥
इष्वस्त्रे निपुणो योधः सदा वीरश्च मे सुतः ।तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् ॥ १३ ॥
आवर्तय कुरूञ्जित्वा पशून्पशुमतां वर ।निर्दहैषामनीकानि भीमेन शरतेजसा ॥ १४ ॥
धनुश्च्युतै रुक्मपुङ्खैः शरैः संनतपर्वभिः ।द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ॥ १५ ॥
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् ।शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ॥ १६ ॥
श्वेता रजतसंकाशा रथे युज्यन्तु ते हयाः ।ध्वजं च सिंहं सौवर्णमुच्छ्रयन्तु तवाभिभोः ॥ १७ ॥
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया ।छादयन्तु शराः सूर्यं राज्ञामायुर्निरोधिनः ॥ १८ ॥
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् ।यशो महदवाप्य त्वं प्रविशेदं पुरं पुनः ॥ १९ ॥
त्वं हि राष्ट्रस्य परमा गतिर्मत्स्यपतेः सुतः ।गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ॥ २० ॥
स्त्रीमध्य उक्तस्तेनासौ तद्वाक्यमभयंकरम् ।अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ॥ २१ ॥
« »