Click on words to see what they mean.

वैशंपायन उवाच ।अथाब्रवीद्द्रौपदी राजपुत्री पृष्टा शिबीनां प्रवरेण तेन ।अवेक्ष्य मन्दं प्रविमुच्य शाखां संगृह्णती कौशिकमुत्तरीयम् ॥ १ ॥
बुद्ध्याभिजानामि नरेन्द्रपुत्र न मादृशी त्वामभिभाष्टुमर्हा ।न त्वेह वक्तास्ति तवेह वाक्यमन्यो नरो वाप्यथ वापि नारी ॥ २ ॥
एका ह्यहं संप्रति तेन वाचं ददानि वै भद्र निबोध चेदम् ।अहं ह्यरण्ये कथमेकमेका त्वामालपेयं निरता स्वधर्मे ॥ ३ ॥
जानामि च त्वां सुरथस्य पुत्रं यं कोटिकाश्येति विदुर्मनुष्याः ।तस्मादहं शैब्य तथैव तुभ्यमाख्यामि बन्धून्प्रति तन्निबोध ॥ ४ ॥
अपत्यमस्मि द्रुपदस्य राज्ञः कृष्णेति मां शैब्य विदुर्मनुष्याः ।साहं वृणे पञ्च जनान्पतित्वे ये खाण्डवप्रस्थगताः श्रुतास्ते ॥ ५ ॥
युधिष्ठिरो भीमसेनार्जुनौ च माद्र्याश्च पुत्रौ पुरुषप्रवीरौ ।ते मां निवेश्येह दिशश्चतस्रो विभज्य पार्था मृगयां प्रयाताः ॥ ६ ॥
प्राचीं राजा दक्षिणां भीमसेनो जयः प्रतीचीं यमजावुदीचीम् ।मन्ये तु तेषां रथसत्तमानां कालोऽभितः प्राप्त इहोपयातुम् ॥ ७ ॥
संमानिता यास्यथ तैर्यथेष्टं विमुच्य वाहानवगाहयध्वम् ।प्रियातिथिर्धर्मसुतो महात्मा प्रीतो भविष्यत्यभिवीक्ष्य युष्मान् ॥ ८ ॥
एतावदुक्त्वा द्रुपदात्मजा सा शैब्यात्मजं चन्द्रमुखी प्रतीता ।विवेश तां पर्णकुटीं प्रशस्तां संचिन्त्य तेषामतिथिस्वधर्मम् ॥ ९ ॥
« »