Click on words to see what they mean.

वैशंपायन उवाच ।काम्यकं प्राप्य कौन्तेया युधिष्ठिरपुरोगमाः ।कृतातिथ्या मुनिगणैर्निषेदुः सह कृष्णया ॥ १ ॥
ततस्तान्परिविश्वस्तान्वसतः पाण्डुनन्दनान् ।ब्राह्मणा बहवस्तत्र समन्तात्पर्यवारयन् ॥ २ ॥
अथाब्रवीद्द्विजः कश्चिदर्जुनस्य प्रियः सखा ।एष्यतीह महाबाहुर्वशी शौरिरुदारधीः ॥ ३ ॥
विदिता हि हरेर्यूयमिहायाताः कुरूद्वहाः ।सदा हि दर्शनाकाङ्क्षी श्रेयोऽन्वेषी च वो हरिः ॥ ४ ॥
बहुवत्सरजीवी च मार्कण्डेयो महातपाः ।स्वाध्यायतपसा युक्तः क्षिप्रं युष्मान्समेष्यति ॥ ५ ॥
तथैव तस्य ब्रुवतः प्रत्यदृश्यत केशवः ।सैन्यसुग्रीवयुक्तेन रथेन रथिनां वरः ॥ ६ ॥
मघवानिव पौलोम्या सहितः सत्यभामया ।उपायाद्देवकीपुत्रो दिदृक्षुः कुरुसत्तमान् ॥ ७ ॥
अवतीर्य रथात्कृष्णो धर्मराजं यथाविधि ।ववन्दे मुदितो धीमान्भीमं च बलिनां वरम् ॥ ८ ॥
पूजयामास धौम्यं च यमाभ्यामभिवादितः ।परिष्वज्य गुडाकेशं द्रौपदीं पर्यसान्त्वयत् ॥ ९ ॥
स दृष्ट्वा फल्गुनं वीरं चिरस्य प्रियमागतम् ।पर्यष्वजत दाशार्हः पुनः पुनररिंदमम् ॥ १० ॥
तथैव सत्यभामापि द्रौपदीं परिषस्वजे ।पाण्डवानां प्रियां भार्यां कृष्णस्य महिषी प्रिया ॥ ११ ॥
ततस्ते पाण्डवाः सर्वे सभार्याः सपुरोहिताः ।आनर्चुः पुण्डरीकाक्षं परिवव्रुश्च सर्वशः ॥ १२ ॥
कृष्णस्तु पार्थेन समेत्य विद्वान्धनंजयेनासुरतर्जनेन ।बभौ यथा भूतपतिर्महात्मा समेत्य साक्षाद्भगवान्गुहेन ॥ १३ ॥
ततः समस्तानि किरीटमाली वनेषु वृत्तानि गदाग्रजाय ।उक्त्वा यथावत्पुनरन्वपृच्छत्कथं सुभद्रा च तथाभिमन्युः ॥ १४ ॥
स पूजयित्वा मधुहा यथावत्पार्थांश्च कृष्णां च पुरोहितं च ।उवाच राजानमभिप्रशंसन्युधिष्ठिरं तत्र सहोपविश्य ॥ १५ ॥
धर्मः परः पाण्डव राज्यलाभात्तस्यार्थमाहुस्तप एव राजन् ।सत्यार्जवाभ्यां चरता स्वधर्मं जितस्तवायं च परश्च लोकः ॥ १६ ॥
अधीतमग्रे चरता व्रतानि सम्यग्धनुर्वेदमवाप्य कृत्स्नम् ।क्षात्रेण धर्मेण वसूनि लब्ध्वा सर्वे ह्यवाप्ताः क्रतवः पुराणाः ॥ १७ ॥
न ग्राम्यधर्मेषु रतिस्तवास्ति कामान्न किंचित्कुरुषे नरेन्द्र ।न चार्थलोभात्प्रजहासि धर्मं तस्मात्स्वभावादसि धर्मराजः ॥ १८ ॥
दानं च सत्यं च तपश्च राजञ्श्रद्धा च शान्तिश्च धृतिः क्षमा च ।अवाप्य राष्ट्राणि वसूनि भोगानेषा परा पार्थ सदा रतिस्ते ॥ १९ ॥
यदा जनौघः कुरुजाङ्गलानां कृष्णां सभायामवशामपश्यत् ।अपेतधर्मव्यवहारवृत्तं सहेत तत्पाण्डव कस्त्वदन्यः ॥ २० ॥
असंशयं सर्वसमृद्धकामः क्षिप्रं प्रजाः पालयितासि सम्यक् ।इमे वयं निग्रहणे कुरूणां यदि प्रतिज्ञा भवतः समाप्ता ॥ २१ ॥
धौम्यं च कृष्णां च युधिष्ठिरं च यमौ च भीमं च दशार्हसिंहः ।उवाच दिष्ट्या भवतां शिवेन प्राप्तः किरीटी मुदितः कृतास्त्रः ॥ २२ ॥
प्रोवाच कृष्णामपि याज्ञसेनीं दशार्हभर्ता सहितः सुहृद्भिः ।कृष्णे धनुर्वेदरतिप्रधानाः सत्यव्रतास्ते शिशवः सुशीलाः ।सद्भिः सदैवाचरितं समाधिं चरन्ति पुत्रास्तव याज्ञसेनि ॥ २३ ॥
राज्येन राष्ट्रैश्च निमन्त्र्यमाणाः पित्रा च कृष्णे तव सोदरैश्च ।न यज्ञसेनस्य न मातुलानां गृहेषु बाला रतिमाप्नुवन्ति ॥ २४ ॥
आनर्तमेवाभिमुखाः शिवेन गत्वा धनुर्वेदरतिप्रधानाः ।तवात्मजा वृष्णिपुरं प्रविश्य न दैवतेभ्यः स्पृहयन्ति कृष्णे ॥ २५ ॥
यथा त्वमेवार्हसि तेषु वृत्तिं प्रयोक्तुमार्या च यथैव कुन्ती ।तेष्वप्रमादेन सदा करोति तथा च भूयश्च तथा सुभद्रा ॥ २६ ॥
यथानिरुद्धस्य यथाभिमन्योर्यथा सुनीथस्य यथैव भानोः ।तथा विनेता च गतिश्च कृष्णे तवात्मजानामपि रौक्मिणेयः ॥ २७ ॥
गदासिचर्मग्रहणेषु शूरानस्त्रेषु शिक्षासु रथाश्वयाने ।सम्यग्विनेता विनयत्यतन्द्रीस्तांश्चाभिमन्युः सततं कुमारः ॥ २८ ॥
स चापि सम्यक्प्रणिधाय शिक्षामस्त्राणि चैषां गुरुवत्प्रदाय ।तवात्मजानां च तथाभिमन्योः पराक्रमैस्तुष्यति रौक्मिणेयः ॥ २९ ॥
यदा विहारं प्रसमीक्षमाणाः प्रयान्ति पुत्रास्तव याज्ञसेनि ।एकैकमेषामनुयान्ति तत्र रथाश्च यानानि च दन्तिनश्च ॥ ३० ॥
अथाब्रवीद्धर्मराजं तु कृष्णो दशार्हयोधाः कुकुरान्धकाश्च ।एते निदेशं तव पालयन्ति तिष्ठन्ति यत्रेच्छसि तत्र राजन् ॥ ३१ ॥
आवर्ततां कार्मुकवेगवाता हलायुधप्रग्रहणा मधूनाम् ।सेना तवार्थेषु नरेन्द्र यत्ता ससादिपत्त्यश्वरथा सनागा ॥ ३२ ॥
प्रस्थाप्यतां पाण्डव धार्तराष्ट्रः सुयोधनः पापकृतां वरिष्ठः ।स सानुबन्धः ससुहृद्गणश्च सौभस्य सौभाधिपतेश्च मार्गम् ॥ ३३ ॥
कामं तथा तिष्ठ नरेन्द्र तस्मिन्यथा कृतस्ते समयः सभायाम् ।दाशार्हयोधैस्तु ससादियोधं प्रतीक्षतां नागपुरं भवन्तम् ॥ ३४ ॥
व्यपेतमन्युर्व्यपनीतपाप्मा विहृत्य यत्रेच्छसि तत्र कामम् ।ततः समृद्धं प्रथमं विशोकः प्रपत्स्यसे नागपुरं सराष्ट्रम् ॥ ३५ ॥
ततस्तदाज्ञाय मतं महात्मा यथावदुक्तं पुरुषोत्तमेन ।प्रशस्य विप्रेक्ष्य च धर्मराजः कृताञ्जलिः केशवमित्युवाच ॥ ३६ ॥
असंशयं केशव पाण्डवानां भवान्गतिस्त्वच्छरणा हि पार्थाः ।कालोदये तच्च ततश्च भूयः कर्ता भवान्कर्म न संशयोऽस्ति ॥ ३७ ॥
यथाप्रतिज्ञं विहृतश्च कालः सर्वाः समा द्वादश निर्जनेषु ।अज्ञातचर्यां विधिवत्समाप्य भवद्गताः केशव पाण्डवेयाः ॥ ३८ ॥
वैशंपायन उवाच ।तथा वदति वार्ष्णेये धर्मराजे च भारत ।अथ पश्चात्तपोवृद्धो बहुवर्षसहस्रधृक् ।प्रत्यदृश्यत धर्मात्मा मार्कण्डेयो महातपाः ॥ ३९ ॥
तमागतमृषिं वृद्धं बहुवर्षसहस्रिणम् ।आनर्चुर्ब्राह्मणाः सर्वे कृष्णश्च सह पाण्डवैः ॥ ४० ॥
तमर्चितं सुविश्वस्तमासीनमृषिसत्तमम् ।ब्राह्मणानां मतेनाह पाण्डवानां च केशवः ॥ ४१ ॥
शुश्रूषवः पाण्डवास्ते ब्राह्मणाश्च समागताः ।द्रौपदी सत्यभामा च तथाहं परमं वचः ॥ ४२ ॥
पुरावृत्ताः कथाः पुण्याः सदाचाराः सनातनाः ।राज्ञां स्त्रीणामृषीणां च मार्कण्डेय विचक्ष्व नः ॥ ४३ ॥
तेषु तत्रोपविष्टेषु देवर्षिरपि नारदः ।आजगाम विशुद्धात्मा पाण्डवानवलोककः ॥ ४४ ॥
तमप्यथ महात्मानं सर्वे तु पुरुषर्षभाः ।पाद्यार्घ्याभ्यां यथान्यायमुपतस्थुर्मनीषिणम् ॥ ४५ ॥
नारदस्त्वथ देवर्षिर्ज्ञात्वा तांस्तु कृतक्षणान् ।मार्कण्डेयस्य वदतस्तां कथामन्वमोदत ॥ ४६ ॥
उवाच चैनं कालज्ञः स्मयन्निव स नारदः ।ब्रह्मर्षे कथ्यतां यत्ते पाण्डवेषु विवक्षितम् ॥ ४७ ॥
एवमुक्तः प्रत्युवाच मार्कण्डेयो महातपाः ।क्षणं कुरुध्वं विपुलमाख्यातव्यं भविष्यति ॥ ४८ ॥
एवमुक्ताः क्षणं चक्रुः पाण्डवाः सह तैर्द्विजैः ।मध्यंदिने यथादित्यं प्रेक्षन्तस्तं महामुनिम् ॥ ४९ ॥
« »