Click on words to see what they mean.

वैशंपायन उवाच ।कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम ।व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सहितानघाः ॥ १ ॥
ततः शब्दो महानासीत्सर्वेषामेव भारत ।अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथागताम् ॥ २ ॥
प्रदक्षिणमथावृत्य राजानं पाण्डवास्तदा ।अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥ ३ ॥
ततोऽब्रवीन्महाराजो धृतराष्ट्रोऽम्बिकासुतः ।गान्धारीं विदुरं चैव समाभाष्य निगृह्य च ॥ ४ ॥
युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् ।यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥ ५ ॥
पुत्रैश्वर्यं महदिदमपास्य च महाफलम् ।का नु गच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥ ६ ॥
राज्यस्थया तपस्तप्तं दानं दत्तं व्रतं कृतम् ।अनया शक्यमद्येह श्रूयतां च वचो मम ॥ ७ ॥
गान्धारि परितुष्टोऽस्मि वध्वाः शुश्रूषणेन वै ।तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥ ८ ॥
इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह ।तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥ ९ ॥
न च सा वनवासाय देवीं कृतमतिं तदा ।शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥ १० ॥
तस्यास्तु तं स्थिरं ज्ञात्वा व्यवसायं कुरुस्त्रियः ।निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥ ११ ॥
उपावृत्तेषु पार्थेषु सर्वेष्वन्तःपुरेषु च ।ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥ १२ ॥
पाण्डवा अपि दीनास्ते दुःखशोकपरायणाः ।यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥ १३ ॥
तदहृष्टमिवाकूजं गतोत्सवमिवाभवत् ।नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥ १४ ॥
सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः ।कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥ १५ ॥
धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् ।ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥ १६ ॥
प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः ।व्यराजन्त द्विजश्रेष्ठैस्तत्र तत्र तपोधनैः ।प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥ १७ ॥
स राजाग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा ।संध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥ १८ ॥
विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः ।चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥ १९ ॥
गान्धार्याः संनिकर्षे तु निषसाद कुशेष्वथ ।युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥ २० ॥
तेषां संश्रवणे चापि निषेदुर्विदुरादयः ।याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥ २१ ॥
प्राधीतद्विजमुख्या सा संप्रज्वालितपावका ।बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धनी ॥ २२ ॥
ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः ।हुत्वाग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम् ।उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥ २३ ॥
स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि ।शोचतां शोच्यमानानां पौरजानपदैर्जनैः ॥ २४ ॥
« »