Click on words to see what they mean.

वैशंपायन उवाच ।व्युषितायां रजन्यां तु धृतराष्ट्रोऽम्बिकासुतः ।विदुरं प्रेषयामास युधिष्ठिरनिवेशनम् ॥ १ ॥
स गत्वा राजवचनादुवाचाच्युतमीश्वरम् ।युधिष्ठिरं महातेजाः सर्वबुद्धिमतां वरः ॥ २ ॥
धृतराष्ट्रो महाराज वनवासाय दीक्षितः ।गमिष्यति वनं राजन्कार्त्तिकीमागतामिमाम् ॥ ३ ॥
स त्वा कुरुकुलश्रेष्ठ किंचिदर्थमभीप्सति ।श्राद्धमिच्छति दातुं स गाङ्गेयस्य महात्मनः ॥ ४ ॥
द्रोणस्य सोमदत्तस्य बाह्लीकस्य च धीमतः ।पुत्राणां चैव सर्वेषां ये चास्य सुहृदो हताः ।यदि चाभ्यनुजानीषे सैन्धवापसदस्य च ॥ ५ ॥
एतच्छ्रुत्वा तु वचनं विदुरस्य युधिष्ठिरः ।हृष्टः संपूजयामास गुडाकेशश्च पाण्डवः ॥ ६ ॥
न तु भीमो दृढक्रोधस्तद्वचो जगृहे तदा ।विदुरस्य महातेजा दुर्योधनकृतं स्मरन् ॥ ७ ॥
अभिप्रायं विदित्वा तु भीमसेनस्य फल्गुनः ।किरीटी किंचिदानम्य भीमं वचनमब्रवीत् ॥ ८ ॥
भीम राजा पिता वृद्धो वनवासाय दीक्षितः ।दातुमिच्छति सर्वेषां सुहृदामौर्ध्वदेहिकम् ॥ ९ ॥
भवता निर्जितं वित्तं दातुमिच्छति कौरवः ।भीष्मादीनां महाबाहो तदनुज्ञातुमर्हसि ॥ १० ॥
दिष्ट्या त्वद्य महाबाहो धृतराष्ट्रः प्रयाचति ।याचितो यः पुरास्माभिः पश्य कालस्य पर्ययम् ॥ ११ ॥
योऽसौ पृथिव्याः कृत्स्नाया भर्ता भूत्वा नराधिपः ।परैर्विनिहतापत्यो वनं गन्तुमभीप्सति ॥ १२ ॥
मा तेऽन्यत्पुरुषव्याघ्र दानाद्भवतु दर्शनम् ।अयशस्यमतोऽन्यत्स्यादधर्म्यं च महाभुज ॥ १३ ॥
राजानमुपतिष्ठस्व ज्येष्ठं भ्रातरमीश्वरम् ।अर्हस्त्वमसि दातुं वै नादातुं भरतर्षभ ।एवं ब्रुवाणं कौन्तेयं धर्मराजोऽभ्यपूजयत् ॥ १४ ॥
भीमसेनस्तु सक्रोधः प्रोवाचेदं वचस्तदा ।वयं भीष्मस्य कुर्मेह प्रेतकार्याणि फल्गुन ॥ १५ ॥
सोमदत्तस्य नृपतेर्भूरिश्रवस एव च ।बाह्लीकस्य च राजर्षेर्द्रोणस्य च महात्मनः ॥ १६ ॥
अन्येषां चैव सुहृदां कुन्ती कर्णाय दास्यति ।श्राद्धानि पुरुषव्याघ्र मादात्कौरवको नृपः ॥ १७ ॥
इति मे वर्तते बुद्धिर्मा वो नन्दन्तु शत्रवः ।कष्टात्कष्टतरं यान्तु सर्वे दुर्योधनादयः ।यैरियं पृथिवी सर्वा घातिता कुलपांसनैः ॥ १८ ॥
कुतस्त्वमद्य विस्मृत्य वैरं द्वादशवार्षिकम् ।अज्ञातवासगमनं द्रौपदीशोकवर्धनम् ।क्व तदा धृतराष्ट्रस्य स्नेहोऽस्मास्वभवत्तदा ॥ १९ ॥
कृष्णाजिनोपसंवीतो हृताभरणभूषणः ।सार्धं पाञ्चालपुत्र्या त्वं राजानमुपजग्मिवान् ।क्व तदा द्रोणभीष्मौ तौ सोमदत्तोऽपि वाभवत् ॥ २० ॥
यत्र त्रयोदश समा वने वन्येन जीवसि ।न तदा त्वा पिता ज्येष्ठः पितृत्वेनाभिवीक्षते ॥ २१ ॥
किं ते तद्विस्मृतं पार्थ यदेष कुलपांसनः ।दुर्वृत्तो विदुरं प्राह द्यूते किं जितमित्युत ॥ २२ ॥
तमेवंवादिनं राजा कुन्तीपुत्रो युधिष्ठिरः ।उवाच भ्रातरं धीमाञ्जोषमास्वेति भर्त्सयन् ॥ २३ ॥
« »