Click on words to see what they mean.

वैशंपायन उवाच ।ततो युधिष्ठिरो राजा ज्ञातीनां ये हता मृधे ।श्राद्धानि कारयामास तेषां पृथगुदारधीः ॥ १ ॥
धृतराष्ट्रो ददौ राजा पुत्राणामौर्ध्वदेहिकम् ।सर्वकामगुणोपेतमन्नं गाश्च धनानि च ।रत्नानि च विचित्राणि महार्हाणि महायशाः ॥ २ ॥
युधिष्ठिरस्तु कर्णस्य द्रोणस्य च महात्मनः ।धृष्टद्युम्नाभिमन्युभ्यां हैडिम्बस्य च रक्षसः ॥ ३ ॥
विराटप्रभृतीनां च सुहृदामुपकारिणाम् ।द्रुपदद्रौपदेयानां द्रौपद्या सहितो ददौ ॥ ४ ॥
ब्राह्मणानां सहस्राणि पृथगेकैकमुद्दिशन् ।धनैश्च वस्त्रै रत्नैश्च गोभिश्च समतर्पयत् ॥ ५ ॥
ये चान्ये पृथिवीपाला येषां नास्ति सुहृज्जनः ।उद्दिश्योद्दिश्य तेषां च चक्रे राजौर्ध्वदैहिकम् ॥ ६ ॥
सभाः प्रपाश्च विविधास्तडागानि च पाण्डवः ।सुहृदां कारयामास सर्वेषामौर्ध्वदैहिकम् ॥ ७ ॥
स तेषामनृणो भूत्वा गत्वा लोकेष्ववाच्यताम् ।कृतकृत्योऽभवद्राजा प्रजा धर्मेण पालयन् ॥ ८ ॥
धृतराष्ट्रं यथापूर्वं गान्धारीं विदुरं तथा ।सर्वांश्च कौरवामात्यान्भृत्यांश्च समपूजयत् ॥ ९ ॥
याश्च तत्र स्त्रियः काश्चिद्धतवीरा हतात्मजाः ।सर्वास्ताः कौरवो राजा संपूज्यापालयद्घृणी ॥ १० ॥
दीनान्धकृपणानां च गृहाच्छादनभोजनैः ।आनृशंस्यपरो राजा चकारानुग्रहं प्रभुः ॥ ११ ॥
स विजित्य महीं कृत्स्नामानृण्यं प्राप्य वैरिषु ।निःसपत्नः सुखी राजा विजहार युधिष्ठिरः ॥ १२ ॥
« »