Click on words to see what they mean.

ब्राह्मण उवाच ।विवस्वतो गच्छति पर्ययेण वोढुं भवांस्तं रथमेकचक्रम् ।आश्चर्यभूतं यदि तत्र किंचिद्दृष्टं त्वया शंसितुमर्हसि त्वम् ॥ १ ॥
नाग उवाच ।यस्य रश्मिसहस्रेषु शाखास्विव विहंगमाः ।वसन्त्याश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ २ ॥
यतो वायुर्विनिःसृत्य सूर्यरश्म्याश्रितो महान् ।विजृम्भत्यम्बरे विप्र किमाश्चर्यतरं ततः ॥ ३ ॥
शुक्रो नामासितः पादो यस्य वारिधरोऽम्बरे ।तोयं सृजति वर्षासु किमाश्चर्यमतः परम् ॥ ४ ॥
योऽष्टमासांस्तु शुचिना किरणेनोज्झितं पयः ।पर्यादत्ते पुनः काले किमाश्चर्यमतः परम् ॥ ५ ॥
यस्य तेजोविशेषेषु नित्यमात्मा प्रतिष्ठितः ।यतो बीजं मही चेयं धार्यते सचराचरम् ॥ ६ ॥
यत्र देवो महाबाहुः शाश्वतः परमोऽक्षरः ।अनादिनिधनो विप्र किमाश्चर्यमतः परम् ॥ ७ ॥
आश्चर्याणामिवाश्चर्यमिदमेकं तु मे शृणु ।विमले यन्मया दृष्टमम्बरे सूर्यसंश्रयात् ॥ ८ ॥
पुरा मध्याह्नसमये लोकांस्तपति भास्करे ।प्रत्यादित्यप्रतीकाशः सर्वतः प्रत्यदृश्यत ॥ ९ ॥
स लोकांस्तेजसा सर्वान्स्वभासा निर्विभासयन् ।आदित्याभिमुखोऽभ्येति गगनं पाटयन्निव ॥ १० ॥
हुताहुतिरिव ज्योतिर्व्याप्य तेजोमरीचिभिः ।अनिर्देश्येन रूपेण द्वितीय इव भास्करः ॥ ११ ॥
तस्याभिगमनप्राप्तौ हस्तो दत्तो विवस्वता ।तेनापि दक्षिणो हस्तो दत्तः प्रत्यर्चनार्थिना ॥ १२ ॥
ततो भित्त्वैव गगनं प्रविष्टो रविमण्डलम् ।एकीभूतं च तत्तेजः क्षणेनादित्यतां गतम् ॥ १३ ॥
तत्र नः संशयो जातस्तयोस्तेजःसमागमे ।अनयोः को भवेत्सूर्यो रथस्थो योऽयमागतः ॥ १४ ॥
ते वयं जातसंदेहाः पर्यपृच्छामहे रविम् ।क एष दिवमाक्रम्य गतः सूर्य इवापरः ॥ १५ ॥
« »