Click on words to see what they mean.

याज्ञवल्क्य उवाच ।अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप ।परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥ १ ॥
यथार्षेणेह विधिना चरतावमतेन ह ।मयादित्यादवाप्तानि यजूंषि मिथिलाधिप ॥ २ ॥
महता तपसा देवस्तपिष्ठः सेवितो मया ।प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ ॥ ३ ॥
वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् ।तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥ ४ ॥
ततः प्रणम्य शिरसा मयोक्तस्तपतां वरः ।यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥ ५ ॥
ततो मां भगवानाह वितरिष्यामि ते द्विज ।सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥ ६ ॥
ततो मामाह भगवानास्यं स्वं विवृतं कुरु ।विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥ ७ ॥
ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ ।अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥ ८ ॥
ततो विदह्यमानं मामुवाच भगवान्रविः ।मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि ॥ ९ ॥
शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः ।प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज ॥ १० ॥
कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ ।तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ॥ ११ ॥
प्राप्स्यसे च यदिष्टं तत्सांख्ययोगेप्सितं पदम् ।एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥ १२ ॥
ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ ।गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥ १३ ॥
ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता ।ओंकारमादितः कृत्वा मम देवी सरस्वती ॥ १४ ॥
ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् ।तपतां च वरिष्ठाय निषण्णस्तत्परायणः ॥ १५ ॥
ततः शतपथं कृत्स्नं सरहस्यं ससंग्रहम् ।चक्रे सपरिशेषं च हर्षेण परमेण ह ॥ १६ ॥
कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् ।विप्रियार्थं सशिष्यस्य मातुलस्य महात्मनः ॥ १७ ॥
ततः सशिष्येण मया सूर्येणेव गभस्तिभिः ।व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः ॥ १८ ॥
मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् ।स्ववेददक्षिणायाथ विमर्दे मातुलेन ह ॥ १९ ॥
सुमन्तुनाथ पैलेन तथा जैमिनिना च वै ।पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥ २० ॥
दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ ।तथैव लोमहर्षाच्च पुराणमवधारितम् ॥ २१ ॥
बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् ।सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥ २२ ॥
कर्तुं शतपथं वेदमपूर्वं कारितं च मे ।यथाभिलषितं मार्गं तथा तच्चोपपादितम् ॥ २३ ॥
शिष्याणामखिलं कृत्स्नमनुज्ञातं ससंग्रहम् ।सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥ २४ ॥
शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः ।प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् ॥ २५ ॥
किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् ।चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत ॥ २६ ॥
विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः ।चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव ।पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा ॥ २७ ॥
विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च ।ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अतपास्तथा ।सूर्यादः सूर्य इति च विद्याविद्ये तथैव च ॥ २८ ॥
वेद्यावेद्यं तथा राजन्नचलं चलमेव च ।अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् ॥ २९ ॥
अथोक्तश्च मया राजन्राजा गन्धर्वसत्तमः ।पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् ॥ ३० ॥
मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये ।बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः ॥ ३१ ॥
ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् ।मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् ॥ ३२ ॥
तत्रोपनिषदं चैव परिशेषं च पार्थिव ।मथ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥ ३३ ॥
चतुर्थी राजशार्दूल विद्यैषा सांपरायिकी ।उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता ॥ ३४ ॥
अथोक्तस्तु मया राजन्राजा विश्वावसुस्तदा ।श्रूयतां यद्भवानस्मान्प्रश्नं संपृष्टवानिह ॥ ३५ ॥
विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि ।विश्वाव्यक्तं परं विद्याद्भूतभव्यभयंकरम् ॥ ३६ ॥
त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा ।अश्वस्तथैव मिथुनमेवमेवानुदृश्यते ॥ ३७ ॥
अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् ।तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥ ३८ ॥
ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च ।अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते ॥ ३९ ॥
कस्तपा अतपाः प्रोक्तः कोऽसौ पुरुष उच्यते ।तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः ॥ ४० ॥
तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते ।चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥ ४१ ॥
चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः ।अक्षेपसर्गयोःकर्ता निश्चलः पुरुषः स्मृतः ॥ ४२ ॥
अजावुभावप्रजौ च अक्षयौ चाप्युभावपि ।अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ॥ ४३ ॥
अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् ।अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥ ४४ ॥
गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः ।एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी सांपरायिकी ॥ ४५ ॥
विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि ।एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥ ४६ ॥
जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः ।वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम ॥ ४७ ॥
साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते ।वेदवेद्यं न जानीते वेदभारवहो हि सः ॥ ४८ ॥
यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम ।विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् ॥ ४९ ॥
तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति ।स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः ॥ ५० ॥
द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना ।यथास्य जन्मनिधने न भवेतां पुनः पुनः ॥ ५१ ॥
अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् ।परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥ ५२ ॥
यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप ।तदा स केवलीभूतः षड्विंशमनुपश्यति ॥ ५३ ॥
अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः ।तस्य द्वावनुपश्येत तमेकमिति साधवः ॥ ५४ ॥
तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् ।जन्ममृत्युभयाद्योगाः सांख्याश्च परमैषिणः ॥ ५५ ॥
विश्वावसुरुवाच ।पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम ।तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति ॥ ५६ ॥
जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् ।पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥ ५७ ॥
भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च ।गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ॥ ५८ ॥
नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः ।सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥ ५९ ॥
कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् ।तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥ ६० ॥
दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः ।प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥ ६१ ॥
तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण ।भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥ ६२ ॥
न तवाविदितं किंचिद्भवाञ्श्रुतिनिधिः स्मृतः ।कथ्यते देवलोके च पितृलोके च ब्राह्मण ॥ ६३ ॥
ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः ।पतिश्च तपतां शश्वदादित्यस्तव भाषते ॥ ६४ ॥
सांख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च ।तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः ॥ ६५ ॥
निःसंदिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् ।श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ॥ ६६ ॥
याज्ञवल्क्य उवाच ।कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम ।जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम् ॥ ६७ ॥
अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः ।न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ॥ ६८ ॥
अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् ।सांख्ययोगाश्च तत्त्वज्ञा यथाश्रुतिनिदर्शनात् ॥ ६९ ॥
पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ ।षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति ।न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ॥ ७० ॥
पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम ।न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः ॥ ७१ ॥
मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् ।यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते ।सस्नेहः सहवासाच्च साभिमानश्च नित्यशः ॥ ७२ ॥
स निमज्जति कालस्य यदैकत्वं न बुध्यते ।उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः ॥ ७३ ॥
यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः ।तदा स केवलीभूतः षड्विंशमनुपश्यति ॥ ७४ ॥
अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः ।तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥ ७५ ॥
तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् ।जन्ममृत्युभयाद्भीता योगाः सांख्याश्च काश्यप ।षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः ॥ ७६ ॥
यदा स केवलीभूतः षड्विंशमनुपश्यति ।तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥ ७७ ॥
एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ ।बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् ॥ ७८ ॥
पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप ।केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् ॥ ७९ ॥
विश्वावसुरुवाच ।तथ्यं शुभं चैतदुक्तं त्वया भोः सम्यक्क्षेम्यं देवताद्यं यथावत् ।स्वस्त्यक्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुद्धियुक्तं नमस्ते ॥ ८० ॥
याज्ञवल्क्य उवाच ।एवमुक्त्वा संप्रयातो दिवं स विभ्राजन्वै श्रीमता दर्शनेन ।तुष्टश्च तुष्ट्या परयाभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा ॥ ८१ ॥
ब्रह्मादीनां खेचराणां क्षितौ च ये चाधस्तात्संवसन्ते नरेन्द्र ।तत्रैव तद्दर्शनं दर्शयन्वै सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥ ८२ ॥
सांख्याः सर्वे सांख्यधर्मे रताश्च तद्वद्योगा योगधर्मे रताश्च ।ये चाप्यन्ये मोक्षकामा मनुष्यास्तेषामेतद्दर्शनं ज्ञानदृष्टम् ॥ ८३ ॥
ज्ञानान्मोक्षो जायते पूरुषाणां नास्त्यज्ञानादेवमाहुर्नरेन्द्र ।तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः ॥ ८४ ॥
प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छूद्रादपि नीचादभीक्ष्णम् ।श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम् ॥ ८५ ॥
सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च सर्वे नित्यं व्याहरन्ते च ब्रह्म ।तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥ ८६ ॥
ब्रह्मास्यतो ब्राह्मणाः संप्रसूता बाहुभ्यां वै क्षत्रियाः संप्रसूताः ।नाभ्यां वैश्याः पादतश्चापि शूद्राः सर्वे वर्णा नान्यथा वेदितव्याः ॥ ८७ ॥
अज्ञानतः कर्मयोनिं भजन्ते तां तां राजंस्ते यथा यान्त्यभावम् ।तथा वर्णा ज्ञानहीनाः पतन्ते घोरादज्ञानात्प्राकृतं योनिजालम् ॥ ८८ ॥
तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थं चैतदुक्तं मया ते ।तस्थौ ब्रह्मा तस्थिवांश्चापरो यस्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः ॥ ८९ ॥
यत्ते पृष्टं तन्मया चोपदिष्टं याथातथ्यं तद्विशोको भवस्व ।राजन्गच्छस्वैतदर्थस्य पारं सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् ॥ ९० ॥
भीष्म उवाच ।स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता ।प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥ ९१ ॥
गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे ।दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥ ९२ ॥
गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च ।रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा ॥ ९३ ॥
विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै ।यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः ॥ ९४ ॥
सांख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः ।धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् ॥ ९५ ॥
अनन्तमिति कृत्वा स नित्यं केवलमेव च ।धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥ ९६ ॥
जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् ।ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥ ९७ ॥
पश्यन्ति योगाः सांख्याश्च स्वशास्त्रकृतलक्षणाः ।इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम् ।नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव ॥ ९८ ॥
दीयते यच्च लभते दत्तं यच्चानुमन्यते ।ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह ।ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै ॥ ९९ ॥
आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् ।एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥ १०० ॥
यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः ।तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता ॥ १०१ ॥
न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन ।लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते ॥ १०२ ॥
तथैव महतः स्थानमाहंकारिकमेव च ।अहंकारात्परं चापि स्थानानि समवाप्नुयात् ॥ १०३ ॥
ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः ।जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् ॥ १०४ ॥
एतन्मयाप्तं जनकात्पुरस्तात्तेनापि चाप्तं नृप याज्ञवल्क्यात् ।ज्ञानं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्गं तरते न यज्ञैः ॥ १०५ ॥
दुर्गं जन्म निधनं चापि राजन्न भूतिकं ज्ञानविदो वदन्ति ।यज्ञैस्तपोभिर्नियमैर्व्रतैश्च दिवं समासाद्य पतन्ति भूमौ ॥ १०६ ॥
तस्मादुपासस्व परं महच्छुचि शिवं विमोक्षं विमलं पवित्रम् ।क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञमुपास्य वै तत्त्वमृषिर्भविष्यसि ॥ १०७ ॥
उपनिषदमुपाकरोत्तदा वै जनकनृपस्य पुरा हि याज्ञवल्क्यः ।यदुपगणितशाश्वताव्ययं तच्छुभममृतत्वमशोकमृच्छतीति ॥ १०८ ॥
« »