Click on words to see what they mean.

गुरुरुवाच ।न स वेद परं धर्मं यो न वेद चतुष्टयम् ।व्यक्ताव्यक्ते च यत्तत्त्वं संप्राप्तं परमर्षिणा ॥ १ ॥
व्यक्तं मृत्युमुखं विद्यादव्यक्तममृतं पदम् ।प्रवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ॥ २ ॥
अत्रैवावस्थितं सर्वं त्रैलोक्यं सचराचरम् ।निवृत्तिलक्षणं धर्ममव्यक्तं ब्रह्म शाश्वतम् ॥ ३ ॥
प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् ।प्रवृत्तिः पुनरावृत्तिर्निवृत्तिः परमा गतिः ॥ ४ ॥
तां गतिं परमामेति निवृत्तिपरमो मुनिः ।ज्ञानतत्त्वपरो नित्यं शुभाशुभनिदर्शकः ॥ ५ ॥
तदेवमेतौ विज्ञेयावव्यक्तपुरुषावुभौ ।अव्यक्तपुरुषाभ्यां तु यत्स्यादन्यन्महत्तरम् ॥ ६ ॥
तं विशेषमवेक्षेत विशेषेण विचक्षणः ।अनाद्यन्तावुभावेतावलिङ्गौ चाप्युभावपि ॥ ७ ॥
उभौ नित्यौ सूक्ष्मतरौ महद्भ्यश्च महत्तरौ ।सामान्यमेतदुभयोरेवं ह्यन्यद्विशेषणम् ॥ ८ ॥
प्रकृत्या सर्गधर्मिण्या तथा त्रिविधसत्त्वया ।विपरीतमतो विद्यात्क्षेत्रज्ञस्य च लक्षणम् ॥ ९ ॥
प्रकृतेश्च विकाराणां द्रष्टारमगुणान्वितम् ।अग्राह्यौ पुरुषावेतावलिङ्गत्वादसंहितौ ॥ १० ॥
संयोगलक्षणोत्पत्तिः कर्मजा गृह्यते यया ।करणैः कर्मनिर्वृत्तैः कर्ता यद्यद्विचेष्टते ।कीर्त्यते शब्दसंज्ञाभिः कोऽहमेषोऽप्यसाविति ॥ ११ ॥
उष्णीषवान्यथा वस्त्रैस्त्रिभिर्भवति संवृतः ।संवृतोऽयं तथा देही सत्त्वराजसतामसैः ॥ १२ ॥
तस्माच्चतुष्टयं वेद्यमेतैर्हेतुभिराचितम् ।यथासंज्ञो ह्ययं सम्यगन्तकाले न मुह्यति ॥ १३ ॥
श्रियं दिव्यामभिप्रेप्सुर्ब्रह्म वाङ्मनसा शुचिः ।शारीरैर्नियमैरुग्रैश्चरेन्निष्कल्मषं तपः ॥ १४ ॥
त्रैलोक्यं तपसा व्याप्तमन्तर्भूतेन भास्वता ।सूर्यश्च चन्द्रमाश्चैव भासतस्तपसा दिवि ॥ १५ ॥
प्रतापस्तपसो ज्ञानं लोके संशब्दितं तपः ।रजस्तमोघ्नं यत्कर्म तपसस्तत्स्वलक्षणम् ॥ १६ ॥
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ।वाङ्मनोनियमः साम्यं मानसं तप उच्यते ॥ १७ ॥
विधिज्ञेभ्यो द्विजातिभ्यो ग्राह्यमन्नं विशिष्यते ।आहारनियमेनास्य पाप्मा नश्यति राजसः ॥ १८ ॥
वैमनस्यं च विषये यान्त्यस्य करणानि च ।तस्मात्तन्मात्रमादद्याद्यावदत्र प्रयोजनम् ॥ १९ ॥
अन्तकाले वयोत्कर्षाच्छनैः कुर्यादनातुरः ।एवं युक्तेन मनसा ज्ञानं तदुपपद्यते ॥ २० ॥
रजसा चाप्ययं देही देहवाञ्शब्दवच्चरेत् ।कार्यैरव्याहतमतिर्वैराग्यात्प्रकृतौ स्थितः ।आ देहादप्रमादाच्च देहान्ताद्विप्रमुच्यते ॥ २१ ॥
हेतुयुक्तः सदोत्सर्गो भूतानां प्रलयस्तथा ।परप्रत्ययसर्गे तु नियतं नातिवर्तते ॥ २२ ॥
भवान्तप्रभवप्रज्ञा आसते ये विपर्ययम् ।धृत्या देहान्धारयन्तो बुद्धिसंक्षिप्तमानसाः ।स्थानेभ्यो ध्वंसमानाश्च सूक्ष्मत्वात्तानुपासते ॥ २३ ॥
यथागमं च तत्सर्वं बुद्ध्या तन्नैव बुध्यते ।देहान्तं कश्चिदन्वास्ते भावितात्मा निराश्रयः ।युक्तो धारणया कश्चित्सत्तां केचिदुपासते ॥ २४ ॥
अभ्यस्यन्ति परं देवं विद्युत्संशब्दिताक्षरम् ।अन्तकाले ह्युपासन्नास्तपसा दग्धकिल्बिषाः ॥ २५ ॥
सर्व एते महात्मानो गच्छन्ति परमां गतिम् ।सूक्ष्मं विशेषणं तेषामवेक्षेच्छास्त्रचक्षुषा ॥ २६ ॥
देहं तु परमं विद्याद्विमुक्तमपरिग्रहम् ।अन्तरिक्षादन्यतरं धारणासक्तमानसम् ॥ २७ ॥
मर्त्यलोकाद्विमुच्यन्ते विद्यासंयुक्तमानसाः ।ब्रह्मभूता विरजसस्ततो यान्ति परां गतिम् ॥ २८ ॥
कषायवर्जितं ज्ञानं येषामुत्पद्यतेऽचलम् ।ते यान्ति परमाँल्लोकान्विशुध्यन्तो यथाबलम् ॥ २९ ॥
भगवन्तमजं दिव्यं विष्णुमव्यक्तसंज्ञितम् ।भावेन यान्ति शुद्धा ये ज्ञानतृप्ता निराशिषः ॥ ३० ॥
ज्ञात्वात्मस्थं हरिं चैव निवर्तन्ते न तेऽव्ययाः ।प्राप्य तत्परमं स्थानं मोदन्तेऽक्षरमव्ययम् ॥ ३१ ॥
एतावदेतद्विज्ञानमेतदस्ति च नास्ति च ।तृष्णाबद्धं जगत्सर्वं चक्रवत्परिवर्तते ॥ ३२ ॥
बिसतन्तुर्यथैवायमन्तःस्थः सर्वतो बिसे ।तृष्णातन्तुरनाद्यन्तस्तथा देहगतः सदा ॥ ३३ ॥
सूच्या सूत्रं यथा वस्त्रे संसारयति वायकः ।तद्वत्संसारसूत्रं हि तृष्णासूच्या निबध्यते ॥ ३४ ॥
विकारं प्रकृतिं चैव पुरुषं च सनातनम् ।यो यथावद्विजानाति स वितृष्णो विमुच्यते ॥ ३५ ॥
प्रकाशं भगवानेतदृषिर्नारायणोऽमृतम् ।भूतानामनुकम्पार्थं जगाद जगतो हितम् ॥ ३६ ॥
« »