Click on words to see what they mean.

भृगुरुवाच ।सत्यं ब्रह्म तपः सत्यं सत्यं सृजति च प्रजाः ।सत्येन धार्यते लोकः स्वर्गं सत्येन गच्छति ॥ १ ॥
अनृतं तमसो रूपं तमसा नीयते ह्यधः ।तमोग्रस्ता न पश्यन्ति प्रकाशं तमसावृतम् ॥ २ ॥
स्वर्गः प्रकाश इत्याहुर्नरकं तम एव च ।सत्यानृतात्तदुभयं प्राप्यते जगतीचरैः ॥ ३ ॥
तत्र त्वेवंविधा वृत्तिर्लोके सत्यानृता भवेत् ।धर्माधर्मौ प्रकाशश्च तमो दुःखं सुखं तथा ॥ ४ ॥
तत्र यत्सत्यं स धर्मो यो धर्मः स प्रकाशो यः प्रकाशस्तत्सुखमिति ।तत्र यदनृतं सोऽधर्मो योऽधर्मस्तत्तमो यत्तमस्तद्दुःखमिति ॥ ५ ॥
अत्रोच्यते ।शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः ।लोकसृष्टिं प्रपश्यन्तो न मुह्यन्ति विचक्षणाः ॥ ६ ॥
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः ।सुखं ह्यनित्यं भूतानामिह लोके परत्र च ॥ ७ ॥
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते ।तथा तमोभिभूतानां भूतानां भ्रश्यते सुखम् ॥ ८ ॥
तत्खलु द्विविधं सुखमुच्यते शारीरं मानसं च ।इह खल्वमुष्मिंश्च लोके सर्वारम्भप्रवृत्तयः सुखार्था अभिधीयन्ते ।न ह्यतस्त्रिवर्गफलं विशिष्टतरमस्ति ।स एष काम्यो गुणविशेषो धर्मार्थयोरारम्भस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजना ॥ ९ ॥
भरद्वाज उवाच ।यदेतद्भवताभिहितं सुखानां परमाः स्त्रिय इति तन्न गृह्णीमः ।न ह्येषामृषीणां महति स्थितानामप्राप्य एष गुणविशेषो न चैनमभिलषन्ति ।श्रूयते च भगवांस्त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्ठति ।ब्रह्मचारी न कामसुखेष्वात्मानमवदधाति ।अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनङ्गत्वेन शममनयत् ।तस्माद्ब्रूमो न महात्मभिरयं प्रतिगृहीतो न त्वेष तावद्विशिष्टो गुण इति नैतद्भगवतः प्रत्येमि ।भगवता तूक्तं सुखानां परमाः स्त्रिय इति ।लोकप्रवादोऽपि च भवति द्विविधः फलोदयः सुकृतात्सुखमवाप्यते दुष्कृताद्दुःखमिति ।अत्रोच्यताम् ॥ १० ॥
भृगुरुवाच ।अनृतात्खलु तमः प्रादुर्भूतं तमोग्रस्ता अधर्ममेवानुवर्तन्ते न धर्मम् ।क्रोधलोभमोहमानानृतादिभिरवच्छन्ना न खल्वस्मिँल्लोके न चामुत्र सुखमाप्नुवन्ति ।विविधव्याधिगणोपतापैरवकीर्यन्ते ।वधबन्धरोगपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यन्ते ।चण्डवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यन्ते ।बन्धुधनविनाशविप्रयोगकृतैश्च मानसैः शोकैरभिभूयन्ते जरामृत्युकृतैश्चान्यैरिति ॥ ११ ॥
यस्त्वेतैः शारीरैर्मानसैर्दुःखैर्न स्पृश्यते स सुखं वेद ।न चैते दोषाः स्वर्गे प्रादुर्भवन्ति ।तत्र भवति खलु ॥ १२ ॥
सुसुखः पवनः स्वर्गे गन्धश्च सुरभिस्तथा ।क्षुत्पिपासाश्रमो नास्ति न जरा न च पापकम् ॥ १३ ॥
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् ।नरके दुःखमेवाहुः समं तु परमं पदम् ॥ १४ ॥
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः ।पुमान्प्रजापतिस्तत्र शुक्रं तेजोमयं विदुः ॥ १५ ॥
इत्येतल्लोकनिर्माणं ब्रह्मणा विहितं पुरा ।प्रजा विपरिवर्तन्ते स्वैः स्वैः कर्मभिरावृताः ॥ १६ ॥
« »