Click on words to see what they mean.

भरद्वाज उवाच ।एते ते धातवः पञ्च ब्रह्मा यानसृजत्पुरा ।आवृता यैरिमे लोका महाभूताभिसंज्ञितैः ॥ १ ॥
यदासृजत्सहस्राणि भूतानां स महामतिः ।पञ्चानामेव भूतत्वं कथं समुपपद्यते ॥ २ ॥
भृगुरुवाच ।अमितानां महाशब्दो यान्ति भूतानि संभवम् ।ततस्तेषां महाभूतशब्दोऽयमुपपद्यते ॥ ३ ॥
चेष्टा वायुः खमाकाशमूष्माग्निः सलिलं द्रवः ।पृथिवी चात्र संघातः शरीरं पाञ्चभौतिकम् ॥ ४ ॥
इत्येतैः पञ्चभिर्भूतैर्युक्तं स्थावरजङ्गमम् ।श्रोत्रं घ्राणं रसः स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिताः ॥ ५ ॥
भरद्वाज उवाच ।पञ्चभिर्यदि भूतैस्तु युक्ताः स्थावरजङ्गमाः ।स्थावराणां न दृश्यन्ते शरीरे पञ्च धातवः ॥ ६ ॥
अनूष्मणामचेष्टानां घनानां चैव तत्त्वतः ।वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातवः ॥ ७ ॥
न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिनः ।न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिकाः ॥ ८ ॥
अद्रवत्वादनग्नित्वादभौमत्वादवायुतः ।आकाशस्याप्रमेयत्वाद्वृक्षाणां नास्ति भौतिकम् ॥ ९ ॥
भृगुरुवाच ।घनानामपि वृक्षाणामाकाशोऽस्ति न संशयः ।तेषां पुष्पफले व्यक्तिर्नित्यं समुपलभ्यते ॥ १० ॥
ऊष्मतो ग्लानपर्णानां त्वक्फलं पुष्पमेव च ।म्लायते चैव शीते न स्पर्शस्तेनात्र विद्यते ॥ ११ ॥
वाय्वग्न्यशनिनिष्पेषैः फलपुष्पं विशीर्यते ।श्रोत्रेण गृह्यते शब्दस्तस्माच्छृण्वन्ति पादपाः ॥ १२ ॥
वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति ।न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात्पश्यन्ति पादपाः ॥ १३ ॥
पुण्यापुण्यैस्तथा गन्धैर्धूपैश्च विविधैरपि ।अरोगाः पुष्पिताः सन्ति तस्माज्जिघ्रन्ति पादपाः ॥ १४ ॥
पादैः सलिलपानं च व्याधीनामपि दर्शनम् ।व्याधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥ १५ ॥
वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् ।तथा पवनसंयुक्तः पादैः पिबति पादपः ॥ १६ ॥
ग्रहणात्सुखदुःखस्य छिन्नस्य च विरोहणात् ।जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥ १७ ॥
तेन तज्जलमादत्तं जरयत्यग्निमारुतौ ।आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते ॥ १८ ॥
जङ्गमानां च सर्वेषां शरीरे पञ्च धातवः ।प्रत्येकशः प्रभिद्यन्ते यैः शरीरं विचेष्टते ॥ १९ ॥
त्वक्च मांसं तथास्थीनि मज्जा स्नायु च पञ्चमम् ।इत्येतदिह संख्यातं शरीरे पृथिवीमयम् ॥ २० ॥
तेजोऽग्निश्च तथा क्रोधश्चक्षुरूष्मा तथैव च ।अग्निर्जरयते चापि पञ्चाग्नेयाः शरीरिणः ॥ २१ ॥
श्रोत्रं घ्राणमथास्यं च हृदयं कोष्ठमेव च ।आकाशात्प्राणिनामेते शरीरे पञ्च धातवः ॥ २२ ॥
श्लेष्मा पित्तमथ स्वेदो वसा शोणितमेव च ।इत्यापः पञ्चधा देहे भवन्ति प्राणिनां सदा ॥ २३ ॥
प्राणात्प्रणीयते प्राणी व्यानाद्व्यायच्छते तथा ।गच्छत्यपानोऽवाक्चैव समानो हृद्यवस्थितः ॥ २४ ॥
उदानादुच्छ्वसिति च प्रतिभेदाच्च भाषते ।इत्येते वायवः पञ्च चेष्टयन्तीह देहिनम् ॥ २५ ॥
भूमेर्गन्धगुणान्वेत्ति रसं चाद्भ्यः शरीरवान् ।ज्योतिः पश्यति चक्षुर्भ्यां स्पर्शं वेत्ति च वायुना ॥ २६ ॥
तस्य गन्धस्य वक्ष्यामि विस्तराभिहितान्गुणान् ।इष्टश्चानिष्टगन्धश्च मधुरः कटुरेव च ॥ २७ ॥
निर्हारी संहतः स्निग्धो रूक्षो विशद एव च ।एवं नवविधो ज्ञेयः पार्थिवो गन्धविस्तरः ॥ २८ ॥
शब्दः स्पर्शश्च रूपं च रसश्चापां गुणाः स्मृताः ।रसज्ञानं तु वक्ष्यामि तन्मे निगदतः शृणु ॥ २९ ॥
रसो बहुविधः प्रोक्तः सूरिभिः प्रथितात्मभिः ।मधुरो लवणस्तिक्तः कषायोऽम्लः कटुस्तथा ।एष षड्विधविस्तारो रसो वारिमयः स्मृतः ॥ ३० ॥
शब्दः स्पर्शश्च रूपं च त्रिगुणं ज्योतिरुच्यते ।ज्योतिः पश्यति रूपाणि रूपं च बहुधा स्मृतम् ॥ ३१ ॥
ह्रस्वो दीर्घस्तथा स्थूलश्चतुरस्रोऽणु वृत्तवान् ।शुक्लः कृष्णस्तथा रक्तो नीलः पीतोऽरुणस्तथा ।एवं द्वादशविस्तारो ज्योतीरूपगुणः स्मृतः ॥ ३२ ॥
शब्दस्पर्शौ तु विज्ञेयौ द्विगुणो वायुरुच्यते ।वायव्यस्तु गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः ॥ ३३ ॥
कठिनश्चिक्कणः श्लक्ष्णः पिच्छलो मृदुदारुणः ।उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ।एवं द्वादशविस्तारो वायव्यो गुण उच्यते ॥ ३४ ॥
तत्रैकगुणमाकाशं शब्द इत्येव तत्स्मृतम् ।तस्य शब्दस्य वक्ष्यामि विस्तरं विविधात्मकम् ॥ ३५ ॥
षड्ज ऋषभगान्धारौ मध्यमः पञ्चमस्तथा ।धैवतश्चापि विज्ञेयस्तथा चापि निषादकः ॥ ३६ ॥
एष सप्तविधः प्रोक्तो गुण आकाशलक्षणः ।त्रैस्वर्येण तु सर्वत्र स्थितोऽपि पटहादिषु ॥ ३७ ॥
आकाशजं शब्दमाहुरेभिर्वायुगुणैः सह ।अव्याहतैश्चेतयते न वेत्ति विषमागतैः ॥ ३८ ॥
आप्यायन्ते च ते नित्यं धातवस्तैस्तु धातुभिः ।आपोऽग्निर्मारुतश्चैव नित्यं जाग्रति देहिषु ॥ ३९ ॥
« »