Click on words to see what they mean.

युधिष्ठिर उवाच ।स्वाध्यायकृतयत्नस्य ब्राह्मणस्य पितामह ।धर्मकामस्य धर्मात्मन्किं नु श्रेय इहोच्यते ॥ १ ॥
बहुधादर्शने लोके श्रेयो यदिह मन्यसे ।अस्मिँल्लोके परे चैव तन्मे ब्रूहि पितामह ॥ २ ॥
महानयं धर्मपथो बहुशाखश्च भारत ।किं स्विदेवेह धर्माणामनुष्ठेयतमं मतम् ॥ ३ ॥
धर्मस्य महतो राजन्बहुशाखस्य तत्त्वतः ।यन्मूलं परमं तात तत्सर्वं ब्रूह्यतन्द्रितः ॥ ४ ॥
भीष्म उवाच ।हन्त ते कथयिष्यामि येन श्रेयः प्रपत्स्यसे ।पीत्वामृतमिव प्राज्ञो ज्ञानतृप्तो भविष्यसि ॥ ५ ॥
धर्मस्य विधयो नैके ते ते प्रोक्ता महर्षिभिः ।स्वं स्वं विज्ञानमाश्रित्य दमस्तेषां परायणम् ॥ ६ ॥
दमं निःश्रेयसं प्राहुर्वृद्धा निश्चयदर्शिनः ।ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥ ७ ॥
नादान्तस्य क्रियासिद्धिर्यथावदुपलभ्यते ।दमो दानं तथा यज्ञानधीतं चातिवर्तते ॥ ८ ॥
दमस्तेजो वर्धयति पवित्रं च दमः परम् ।विपाप्मा तेजसा युक्तः पुरुषो विन्दते महत् ॥ ९ ॥
दमेन सदृशं धर्मं नान्यं लोकेषु शुश्रुम ।दमो हि परमो लोके प्रशस्तः सर्वधर्मिणाम् ॥ १० ॥
प्रेत्य चापि मनुष्येन्द्र परमं विन्दते सुखम् ।दमेन हि समायुक्तो महान्तं धर्ममश्नुते ॥ ११ ॥
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।सुखं पर्येति लोकांश्च मनश्चास्य प्रसीदति ॥ १२ ॥
अदान्तः पुरुषः क्लेशमभीक्ष्णं प्रतिपद्यते ।अनर्थांश्च बहूनन्यान्प्रसृजत्यात्मदोषजान् ॥ १३ ॥
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् ।तस्य लिङ्गानि वक्ष्यामि येषां समुदयो दमः ॥ १४ ॥
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् ।इन्द्रियावजयो दाक्ष्यं मार्दवं ह्रीरचापलम् ॥ १५ ॥
अकार्पण्यमसंरम्भः संतोषः प्रियवादिता ।अविवित्सानसूया चाप्येषां समुदयो दमः ॥ १६ ॥
गुरुपूजा च कौरव्य दया भूतेष्वपैशुनम् ।जनवादोऽमृषावादः स्तुतिनिन्दाविवर्जनम् ॥ १७ ॥
कामः क्रोधश्च लोभश्च दर्पः स्तम्भो विकत्थनम् ।मोह ईर्ष्यावमानश्चेत्येतद्दान्तो न सेवते ॥ १८ ॥
अनिन्दितो ह्यकामात्माथाल्पेच्छोऽथानसूयकः ।समुद्रकल्पः स नरो न कदाचन पूर्यते ॥ १९ ॥
अहं त्वयि मम त्वं च मयि ते तेषु चाप्यहम् ।पूर्वसंबन्धिसंयोगान्नैतद्दान्तो निषेवते ॥ २० ॥
सर्वा ग्राम्यास्तथारण्या याश्च लोके प्रवृत्तयः ।निन्दां चैव प्रशंसां च यो नाश्रयति मुच्यते ॥ २१ ॥
मैत्रोऽथ शीलसंपन्नः सुसहायपरश्च यः ।मुक्तश्च विविधैः सङ्गैस्तस्य प्रेत्य महत्फलम् ॥ २२ ॥
सुवृत्तः शीलसंपन्नः प्रसन्नात्मात्मविद्बुधः ।प्राप्येह लोके सत्कारं सुगतिं प्रतिपद्यते ॥ २३ ॥
कर्म यच्छुभमेवेह सद्भिराचरितं च यत् ।तदेव ज्ञानयुक्तस्य मुनेर्धर्मो न हीयते ॥ २४ ॥
निष्क्रम्य वनमास्थाय ज्ञानयुक्तो जितेन्द्रियः ।कालाकाङ्क्षी चरन्नेवं ब्रह्मभूयाय कल्पते ॥ २५ ॥
अभयं यस्य भूतेभ्यो भूतानामभयं यतः ।तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन ॥ २६ ॥
अवाचिनोति कर्माणि न च संप्रचिनोति ह ।समः सर्वेषु भूतेषु मैत्रायणगतिश्चरेत् ॥ २७ ॥
शकुनीनामिवाकाशे जले वारिचरस्य वा ।यथा गतिर्न दृश्येत तथा तस्य न संशयः ॥ २८ ॥
गृहानुत्सृज्य यो राजन्मोक्षमेवाभिपद्यते ।लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वतीः समाः ॥ २९ ॥
संन्यस्य सर्वकर्माणि संन्यस्य विधिवत्तपः ।संन्यस्य विविधा विद्याः सर्वं संन्यस्य चैव ह ॥ ३० ॥
कामेषु चाप्यनावृत्तः प्रसन्नात्मात्मविच्छुचिः ।प्राप्येह लोके सत्कारं स्वर्गं समभिपद्यते ॥ ३१ ॥
यच्च पैतामहं स्थानं ब्रह्मराशिसमुद्भवम् ।गुहायां पिहितं नित्यं तद्दमेनाभिपद्यते ॥ ३२ ॥
ज्ञानारामस्य बुद्धस्य सर्वभूताविरोधिनः ।नावृत्तिभयमस्तीह परलोके भयं कुतः ॥ ३३ ॥
एक एव दमे दोषो द्वितीयो नोपपद्यते ।यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ३४ ॥
एतस्य तु महाप्राज्ञ दोषस्य सुमहान्गुणः ।क्षमायां विपुला लोकाः सुलभा हि सहिष्णुना ॥ ३५ ॥
दान्तस्य किमरण्येन तथादान्तस्य भारत ।यत्रैव हि वसेद्दान्तस्तदरण्यं स आश्रमः ॥ ३६ ॥
वैशंपायन उवाच ।एतद्भीष्मस्य वचनं श्रुत्वा राजा युधिष्ठिरः ।अमृतेनेव संतृप्तः प्रहृष्टः समपद्यत ॥ ३७ ॥
पुनश्च परिपप्रच्छ भीष्मं धर्मभृतां वरम् ।तपः प्रति स चोवाच तस्मै सर्वं कुरूद्वह ॥ ३८ ॥
« »