Click on words to see what they mean.

वैशंपायन उवाच ।विदुरस्य तु तद्वाक्यं निशम्य कुरुसत्तमः ।पुत्रशोकाभिसंतप्तः पपात भुवि मूर्छितः ॥ १ ॥
तं तथा पतितं भूमौ निःसंज्ञं प्रेक्ष्य बान्धवाः ।कृष्णद्वैपायनश्चैव क्षत्ता च विदुरस्तथा ॥ २ ॥
संजयः सुहृदश्चान्ये द्वाःस्था ये चास्य संमताः ।जलेन सुखशीतेन तालवृन्तैश्च भारत ॥ ३ ॥
पस्पृशुश्च करैर्गात्रं वीजमानाश्च यत्नतः ।अन्वासन्सुचिरं कालं धृतराष्ट्रं तथागतम् ॥ ४ ॥
अथ दीर्घस्य कालस्य लब्धसंज्ञो महीपतिः ।विललाप चिरं कालं पुत्राधिभिरभिप्लुतः ॥ ५ ॥
धिगस्तु खलु मानुष्यं मानुष्ये च परिग्रहम् ।यतोमूलानि दुःखानि संभवन्ति मुहुर्मुहुः ॥ ६ ॥
पुत्रनाशेऽर्थनाशे च ज्ञातिसंबन्धिनामपि ।प्राप्यते सुमहद्दुःखं विषाग्निप्रतिमं विभो ॥ ७ ॥
येन दह्यन्ति गात्राणि येन प्रज्ञा विनश्यति ।येनाभिभूतः पुरुषो मरणं बहु मन्यते ॥ ८ ॥
तदिदं व्यसनं प्राप्तं मया भाग्यविपर्ययात् ।तच्चैवाहं करिष्यामि अद्यैव द्विजसत्तम ॥ ९ ॥
इत्युक्त्वा तु महात्मानं पितरं ब्रह्मवित्तमम् ।धृतराष्ट्रोऽभवन्मूढः शोकं च परमं गतः ।अभूच्च तूष्णीं राजासौ ध्यायमानो महीपते ॥ १० ॥
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनः प्रभुः ।पुत्रशोकाभिसंतप्तं पुत्रं वचनमब्रवीत् ॥ ११ ॥
धृतराष्ट्र महाबाहो यत्त्वां वक्ष्यामि तच्छृणु ।श्रुतवानसि मेधावी धर्मार्थकुशलस्तथा ॥ १२ ॥
न तेऽस्त्यविदितं किंचिद्वेदितव्यं परंतप ।अनित्यतां हि मर्त्यानां विजानासि न संशयः ॥ १३ ॥
अध्रुवे जीवलोके च स्थाने वाशाश्वते सति ।जीविते मरणान्ते च कस्माच्छोचसि भारत ॥ १४ ॥
प्रत्यक्षं तव राजेन्द्र वैरस्यास्य समुद्भवः ।पुत्रं ते कारणं कृत्वा कालयोगेन कारितः ॥ १५ ॥
अवश्यं भवितव्ये च कुरूणां वैशसे नृप ।कस्माच्छोचसि ताञ्शूरान्गतान्परमिकां गतिम् ॥ १६ ॥
जानता च महाबाहो विदुरेण महात्मना ।यतितं सर्वयत्नेन शमं प्रति जनेश्वर ॥ १७ ॥
न च दैवकृतो मार्गः शक्यो भूतेन केनचित् ।घटतापि चिरं कालं नियन्तुमिति मे मतिः ॥ १८ ॥
देवतानां हि यत्कार्यं मया प्रत्यक्षतः श्रुतम् ।तत्तेऽहं संप्रवक्ष्यामि कथं स्थैर्यं भवेत्तव ॥ १९ ॥
पुराहं त्वरितो यातः सभामैन्द्रीं जितक्लमः ।अपश्यं तत्र च तदा समवेतान्दिवौकसः ।नारदप्रमुखांश्चापि सर्वान्देवऋषींस्तथा ॥ २० ॥
तत्र चापि मया दृष्टा पृथिवी पृथिवीपते ।कार्यार्थमुपसंप्राप्ता देवतानां समीपतः ॥ २१ ॥
उपगम्य तदा धात्री देवानाह समागतान् ।यत्कार्यं मम युष्माभिर्ब्रह्मणः सदने तदा ।प्रतिज्ञातं महाभागास्तच्छीघ्रं संविधीयताम् ॥ २२ ॥
तस्यास्तद्वचनं श्रुत्वा विष्णुर्लोकनमस्कृतः ।उवाच प्रहसन्वाक्यं पृथिवीं देवसंसदि ॥ २३ ॥
धृतराष्ट्रस्य पुत्राणां यस्तु ज्येष्ठः शतस्य वै ।दुर्योधन इति ख्यातः स ते कार्यं करिष्यति ।तं च प्राप्य महीपालं कृतकृत्या भविष्यसि ॥ २४ ॥
तस्यार्थे पृथिवीपालाः कुरुक्षेत्रे समागताः ।अन्योन्यं घातयिष्यन्ति दृढैः शस्त्रैः प्रहारिणः ॥ २५ ॥
ततस्ते भविता देवि भारस्य युधि नाशनम् ।गच्छ शीघ्रं स्वकं स्थानं लोकान्धारय शोभने ॥ २६ ॥
स एष ते सुतो राजँल्लोकसंहारकारणात् ।कलेरंशः समुत्पन्नो गान्धार्या जठरे नृप ॥ २७ ॥
अमर्षी चपलश्चापि क्रोधनो दुष्प्रसाधनः ।दैवयोगात्समुत्पन्ना भ्रातरश्चास्य तादृशाः ॥ २८ ॥
शकुनिर्मातुलश्चैव कर्णश्च परमः सखा ।समुत्पन्ना विनाशार्थं पृथिव्यां सहिता नृपाः ।एतमर्थं महाबाहो नारदो वेद तत्त्वतः ॥ २९ ॥
आत्मापराधात्पुत्रास्ते विनष्टाः पृथिवीपते ।मा ताञ्शोचस्व राजेन्द्र न हि शोकेऽस्ति कारणम् ॥ ३० ॥
न हि ते पाण्डवाः स्वल्पमपराध्यन्ति भारत ।पुत्रास्तव दुरात्मानो यैरियं घातिता मही ॥ ३१ ॥
नारदेन च भद्रं ते पूर्वमेव न संशयः ।युधिष्ठिरस्य समितौ राजसूये निवेदितम् ॥ ३२ ॥
पाण्डवाः कौरवाश्चैव समासाद्य परस्परम् ।न भविष्यन्ति कौन्तेय यत्ते कृत्यं तदाचर ॥ ३३ ॥
नारदस्य वचः श्रुत्वा तदाशोचन्त पाण्डवाः ।एतत्ते सर्वमाख्यातं देवगुह्यं सनातनम् ॥ ३४ ॥
कथं ते शोकनाशः स्यात्प्राणेषु च दया प्रभो ।स्नेहश्च पाण्डुपुत्रेषु ज्ञात्वा दैवकृतं विधिम् ॥ ३५ ॥
एष चार्थो महाबाहो पूर्वमेव मया श्रुतः ।कथितो धर्मराजस्य राजसूये क्रतूत्तमे ॥ ३६ ॥
यतितं धर्मपुत्रेण मया गुह्ये निवेदिते ।अविग्रहे कौरवाणां दैवं तु बलवत्तरम् ॥ ३७ ॥
अनतिक्रमणीयो हि विधी राजन्कथंचन ।कृतान्तस्य हि भूतेन स्थावरेण त्रसेन च ॥ ३८ ॥
भवान्धर्मपरो यत्र बुद्धिश्रेष्ठश्च भारत ।मुह्यते प्राणिनां ज्ञात्वा गतिं चागतिमेव च ॥ ३९ ॥
त्वां तु शोकेन संतप्तं मुह्यमानं मुहुर्मुहुः ।ज्ञात्वा युधिष्ठिरो राजा प्राणानपि परित्यजेत् ॥ ४० ॥
कृपालुर्नित्यशो वीरस्तिर्यग्योनिगतेष्वपि ।स कथं त्वयि राजेन्द्र कृपां वै न करिष्यति ॥ ४१ ॥
मम चैव नियोगेन विधेश्चाप्यनिवर्तनात् ।पाण्डवानां च कारुण्यात्प्राणान्धारय भारत ॥ ४२ ॥
एवं ते वर्तमानस्य लोके कीर्तिर्भविष्यति ।धर्मश्च सुमहांस्तात तप्तं स्याच्च तपश्चिरात् ॥ ४३ ॥
पुत्रशोकसमुत्पन्नं हुताशं ज्वलितं यथा ।प्रज्ञाम्भसा महाराज निर्वापय सदा सदा ॥ ४४ ॥
एतच्छ्रुत्वा तु वचनं व्यासस्यामिततेजसः ।मुहूर्तं समनुध्याय धृतराष्ट्रोऽभ्यभाषत ॥ ४५ ॥
महता शोकजालेन प्रणुन्नोऽस्मि द्विजोत्तम ।नात्मानमवबुध्यामि मुह्यमानो मुहुर्मुहुः ॥ ४६ ॥
इदं तु वचनं श्रुत्वा तव दैवनियोगजम् ।धारयिष्याम्यहं प्राणान्यतिष्ये च नशोचितुम् ॥ ४७ ॥
एतच्छ्रुत्वा तु वचनं व्यासः सत्यवतीसुतः ।धृतराष्ट्रस्य राजेन्द्र तत्रैवान्तरधीयत ॥ ४८ ॥
« »