Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्त्वा तु गान्धारी कुरूणामाविकर्तनम् ।अपश्यत्तत्र तिष्ठन्ती सर्वं दिव्येन चक्षुषा ॥ १ ॥
पतिव्रता महाभागा समानव्रतचारिणी ।उग्रेण तपसा युक्ता सततं सत्यवादिनी ॥ २ ॥
वरदानेन कृष्णस्य महर्षेः पुण्यकर्मणः ।दिव्यज्ञानबलोपेता विविधं पर्यदेवयत् ॥ ३ ॥
ददर्श सा बुद्धिमती दूरादपि यथान्तिके ।रणाजिरं नृवीराणामद्भुतं लोमहर्षणम् ॥ ४ ॥
अस्थिकेशपरिस्तीर्णं शोणितौघपरिप्लुतम् ।शरीरैर्बहुसाहस्रैर्विनिकीर्णं समन्ततः ॥ ५ ॥
गजाश्वरथयोधानामावृतं रुधिराविलैः ।शरीरैरशिरस्कैश्च विदेहैश्च शिरोगणैः ॥ ६ ॥
गजाश्वनरवीराणां निःसत्त्वैरभिसंवृतम् ।सृगालबडकाकोलकङ्ककाकनिषेवितम् ॥ ७ ॥
रक्षसां पुरुषादानां मोदनं कुरराकुलम् ।अशिवाभिः शिवाभिश्च नादितं गृध्रसेवितम् ॥ ८ ॥
ततो व्यासाभ्यनुज्ञातो धृतराष्ट्रो महीपतिः ।पाण्डुपुत्राश्च ते सर्वे युधिष्ठिरपुरोगमाः ॥ ९ ॥
वासुदेवं पुरस्कृत्य हतबन्धुं च पार्थिवम् ।कुरुस्त्रियः समासाद्य जग्मुरायोधनं प्रति ॥ १० ॥
समासाद्य कुरुक्षेत्रं ताः स्त्रियो निहतेश्वराः ।अपश्यन्त हतांस्तत्र पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥ ११ ॥
क्रव्यादैर्भक्ष्यमाणान्वै गोमायुबडवायसैः ।भूतैः पिशाचै रक्षोभिर्विविधैश्च निशाचरैः ॥ १२ ॥
रुद्राक्रीडनिभं दृष्ट्वा तदा विशसनं स्त्रियः ।महार्हेभ्योऽथ यानेभ्यो विक्रोशन्त्यो निपेतिरे ॥ १३ ॥
अदृष्टपूर्वं पश्यन्त्यो दुःखार्ता भरतस्त्रियः ।शरीरेष्वस्खलन्नन्या न्यपतंश्चापरा भुवि ॥ १४ ॥
श्रान्तानां चाप्यनाथानां नासीत्काचन चेतना ।पाञ्चालकुरुयोषाणां कृपणं तदभून्महत् ॥ १५ ॥
दुःखोपहतचित्ताभिः समन्तादनुनादितम् ।दृष्ट्वायोधनमत्युग्रं धर्मज्ञा सुबलात्मजा ॥ १६ ॥
ततः सा पुण्डरीकाक्षमामन्त्र्य पुरुषोत्तमम् ।कुरूणां वैशसं दृष्ट्वा दुःखाद्वचनमब्रवीत् ॥ १७ ॥
पश्यैताः पुण्डरीकाक्ष स्नुषा मे निहतेश्वराः ।प्रकीर्णकेशाः क्रोशन्तीः कुररीरिव माधव ॥ १८ ॥
अमूस्त्वभिसमागम्य स्मरन्त्यो भरतर्षभान् ।पृथगेवाभ्यधावन्त पुत्रान्भ्रातॄन्पितॄन्पतीन् ॥ १९ ॥
वीरसूभिर्महाबाहो हतपुत्राभिरावृतम् ।क्वचिच्च वीरपत्नीभिर्हतवीराभिराकुलम् ॥ २० ॥
शोभितं पुरुषव्याघ्रैर्भीष्मकर्णाभिमन्युभिः ।द्रोणद्रुपदशल्यैश्च ज्वलद्भिरिव पावकैः ॥ २१ ॥
काञ्चनैः कवचैर्निष्कैर्मणिभिश्च महात्मनाम् ।अङ्गदैर्हस्तकेयूरैः स्रग्भिश्च समलंकृतम् ॥ २२ ॥
वीरबाहुविसृष्टाभिः शक्तिभिः परिघैरपि ।खड्गैश्च विमलैस्तीक्ष्णैः सशरैश्च शरासनैः ॥ २३ ॥
क्रव्यादसंघैर्मुदितैस्तिष्ठद्भिः सहितैः क्वचित् ।क्वचिदाक्रीडमानैश्च शयानैरपरैः क्वचित् ॥ २४ ॥
एतदेवंविधं वीर संपश्यायोधनं विभो ।पश्यमाना च दह्यामि शोकेनाहं जनार्दन ॥ २५ ॥
पाञ्चालानां कुरूणां च विनाशं मधुसूदन ।पञ्चानामिव भूतानां नाहं वधमचिन्तयम् ॥ २६ ॥
तान्सुपर्णाश्च गृध्राश्च निष्कर्षन्त्यसृगुक्षितान् ।निगृह्य कवचेषूग्रा भक्षयन्ति सहस्रशः ॥ २७ ॥
जयद्रथस्य कर्णस्य तथैव द्रोणभीष्मयोः ।अभिमन्योर्विनाशं च कश्चिन्तयितुमर्हति ॥ २८ ॥
अवध्यकल्पान्निहतान्दृष्ट्वाहं मधुसूदन ।गृध्रकङ्कबडश्येनश्वसृगालादनीकृतान् ॥ २९ ॥
अमर्षवशमापन्नान्दुर्योधनवशे स्थितान् ।पश्येमान्पुरुषव्याघ्रान्संशान्तान्पावकानिव ॥ ३० ॥
शयनान्युचिताः सर्वे मृदूनि विमलानि च ।विपन्नास्तेऽद्य वसुधां विवृतामधिशेरते ॥ ३१ ॥
बन्दिभिः सततं काले स्तुवद्भिरभिनन्दिताः ।शिवानामशिवा घोराः शृण्वन्ति विविधा गिरः ॥ ३२ ॥
ये पुरा शेरते वीराः शयनेषु यशस्विनः ।चन्दनागुरुदिग्धाङ्गास्तेऽद्य पांसुषु शेरते ॥ ३३ ॥
तेषामाभरणान्येते गृध्रगोमायुवायसाः ।आक्षिपन्त्यशिवा घोरा विनदन्तः पुनः पुनः ॥ ३४ ॥
चापानि विशिखान्पीतान्निस्त्रिंशान्विमला गदाः ।युद्धाभिमानिनः प्रीता जीवन्त इव बिभ्रति ॥ ३५ ॥
सुरूपवर्णा बहवः क्रव्यादैरवघट्टिताः ।ऋषभप्रतिरूपाक्षाः शेरते हरितस्रजः ॥ ३६ ॥
अपरे पुनरालिङ्ग्य गदाः परिघबाहवः ।शेरतेऽभिमुखाः शूरा दयिता इव योषितः ॥ ३७ ॥
बिभ्रतः कवचान्यन्ये विमलान्यायुधानि च ।न धर्षयन्ति क्रव्यादा जीवन्तीति जनार्दन ॥ ३८ ॥
क्रव्यादैः कृष्यमाणानामपरेषां महात्मनाम् ।शातकौम्भ्यः स्रजश्चित्रा विप्रकीर्णाः समन्ततः ॥ ३९ ॥
एते गोमायवो भीमा निहतानां यशस्विनाम् ।कण्ठान्तरगतान्हारानाक्षिपन्ति सहस्रशः ॥ ४० ॥
सर्वेष्वपररात्रेषु याननन्दन्त बन्दिनः ।स्तुतिभिश्च परार्ध्याभिरुपचारैश्च शिक्षिताः ॥ ४१ ॥
तानिमाः परिदेवन्ति दुःखार्ताः परमाङ्गनाः ।कृपणं वृष्णिशार्दूल दुःखशोकार्दिता भृशम् ॥ ४२ ॥
रक्तोत्पलवनानीव विभान्ति रुचिराणि वै ।मुखानि परमस्त्रीणां परिशुष्काणि केशव ॥ ४३ ॥
रुदितोपरता ह्येता ध्यायन्त्यः संपरिप्लुताः ।कुरुस्त्रियोऽभिगच्छन्ति तेन तेनैव दुःखिताः ॥ ४४ ॥
एतान्यादित्यवर्णानि तपनीयनिभानि च ।रोषरोदनताम्राणि वक्त्राणि कुरुयोषिताम् ॥ ४५ ॥
आसामपरिपूर्णार्थं निशम्य परिदेवितम् ।इतरेतरसंक्रन्दान्न विजानन्ति योषितः ॥ ४६ ॥
एता दीर्घमिवोच्छ्वस्य विक्रुश्य च विलप्य च ।विस्पन्दमाना दुःखेन वीरा जहति जीवितम् ॥ ४७ ॥
बह्व्यो दृष्ट्वा शरीराणि क्रोशन्ति विलपन्ति च ।पाणिभिश्चापरा घ्नन्ति शिरांसि मृदुपाणयः ॥ ४८ ॥
शिरोभिः पतितैर्हस्तैः सर्वाङ्गैर्यूथशः कृतैः ।इतरेतरसंपृक्तैराकीर्णा भाति मेदिनी ॥ ४९ ॥
विशिरस्कानथो कायान्दृष्ट्वा घोराभिनन्दिनः ।मुह्यन्त्यनुचिता नार्यो विदेहानि शिरांसि च ॥ ५० ॥
शिरः कायेन संधाय प्रेक्षमाणा विचेतसः ।अपश्यन्त्यो परं तत्र नेदमस्येति दुःखिताः ॥ ५१ ॥
बाहूरुचरणानन्यान्विशिखोन्मथितान्पृथक् ।संदधत्योऽसुखाविष्टा मूर्छन्त्येताः पुनः पुनः ॥ ५२ ॥
उत्कृत्तशिरसश्चान्यान्विजग्धान्मृगपक्षिभिः ।दृष्ट्वा काश्चिन्न जानन्ति भर्तॄन्भरतयोषितः ॥ ५३ ॥
पाणिभिश्चापरा घ्नन्ति शिरांसि मधुसूदन ।प्रेक्ष्य भ्रातॄन्पितॄन्पुत्रान्पतींश्च निहतान्परैः ॥ ५४ ॥
बाहुभिश्च सखड्गैश्च शिरोभिश्च सकुण्डलैः ।अगम्यकल्पा पृथिवी मांसशोणितकर्दमा ॥ ५५ ॥
न दुःखेषूचिताः पूर्वं दुःखं गाहन्त्यनिन्दिताः ।भ्रातृभिः पितृभिः पुत्रैरुपकीर्णां वसुंधराम् ॥ ५६ ॥
यूथानीव किशोरीणां सुकेशीनां जनार्दन ।स्नुषाणां धृतराष्ट्रस्य पश्य वृन्दान्यनेकशः ॥ ५७ ॥
अतो दुःखतरं किं नु केशव प्रतिभाति मे ।यदिमाः कुर्वते सर्वा रूपमुच्चावचं स्त्रियः ॥ ५८ ॥
नूनमाचरितं पापं मया पूर्वेषु जन्मसु ।या पश्यामि हतान्पुत्रान्पौत्रान्भ्रातॄंश्च केशव ।एवमार्ता विलपती ददर्श निहतं सुतम् ॥ ५९ ॥
« »