Click on words to see what they mean.

सूत उवाच ।शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् ।किमिदं साहसं ब्रह्मन्कृतवानसि सांप्रतम् ॥ १ ॥
धर्मे प्रयतमानस्य सत्यं च वदतः समम् ।पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ॥ २ ॥
पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् ।स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ॥ ३ ॥
यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते ।सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ॥ ४ ॥
शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम ।जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ॥ ५ ॥
योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु ।अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ॥ ६ ॥
वेदोक्तेन विधानेन मयि यद्धूयते हविः ।देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ॥ ७ ॥
आपो देवगणाः सर्वे आपः पितृगणास्तथा ।दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ॥ ८ ॥
देवताः पितरस्तस्मात्पितरश्चापि देवताः ।एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ॥ ९ ॥
देवताः पितरश्चैव जुह्वते मयि यत्सदा ।त्रिदशानां पितॄणां च मुखमेवमहं स्मृतः ॥ १० ॥
अमावास्यां च पितरः पौर्णमास्यां च देवताः ।मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ।सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ॥ ११ ॥
चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः ।द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ॥ १२ ॥
निरोंकारवषट्काराः स्वधास्वाहाविवर्जिताः ।विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ॥ १३ ॥
अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः ।अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ।विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ॥ १४ ॥
अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु ।अग्नेरावेदयञ्शापं क्रियासंहारमेव च ॥ १५ ॥
भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे ।कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ।हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ॥ १६ ॥
श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् ।उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ॥ १७ ॥
लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च ।त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ।स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ॥ १८ ॥
कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः ।त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ॥ १९ ॥
न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि ।उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ॥ २० ॥
यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते ।तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ॥ २१ ॥
तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् ।स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ।देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ॥ २२ ॥
एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् ।जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ॥ २३ ॥
देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् ।ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ॥ २४ ॥
दिवि देवा मुमुदिरे भूतसंघाश्च लौकिकाः ।अग्निश्च परमां प्रीतिमवाप हतकल्मषः ॥ २५ ॥
एवमेष पुरावृत्त इतिहासोऽग्निशापजः ।पुलोमस्य विनाशश्च च्यवनस्य च संभवः ॥ २६ ॥
« »