Click on words to see what they mean.

ब्राह्मण उवाच ।गङ्गाद्वारं प्रति महान्बभूवर्षिर्महातपाः ।भरद्वाजो महाप्राज्ञः सततं संशितव्रतः ॥ १ ॥
सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम् ।ददर्शाप्सरसं तत्र घृताचीमाप्लुतामृषिः ॥ २ ॥
तस्या वायुर्नदीतीरे वसनं व्यहरत्तदा ।अपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः ॥ ३ ॥
तस्यां संसक्तमनसः कौमारब्रह्मचारिणः ।हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ॥ ४ ॥
ततः समभवद्द्रोणः कुमारस्तस्य धीमतः ।अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ॥ ५ ॥
भरद्वाजस्य तु सखा पृषतो नाम पार्थिवः ।तस्यापि द्रुपदो नाम तदा समभवत्सुतः ॥ ६ ॥
स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः ।चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ॥ ७ ॥
ततस्तु पृषतेऽतीते स राजा द्रुपदोऽभवत् ।द्रोणोऽपि रामं शुश्राव दित्सन्तं वसु सर्वशः ॥ ८ ॥
वनं तु प्रस्थितं रामं भरद्वाजसुतोऽब्रवीत् ।आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभ ॥ ९ ॥
राम उवाच ।शरीरमात्रमेवाद्य मयेदमवशेषितम् ।अस्त्राणि वा शरीरं वा ब्रह्मन्नन्यतरं वृणु ॥ १० ॥
द्रोण उवाच ।अस्त्राणि चैव सर्वाणि तेषां संहारमेव च ।प्रयोगं चैव सर्वेषां दातुमर्हति मे भवान् ॥ ११ ॥
ब्राह्मण उवाच ।तथेत्युक्त्वा ततस्तस्मै प्रददौ भृगुनन्दनः ।प्रतिगृह्य ततो द्रोणः कृतकृत्योऽभवत्तदा ॥ १२ ॥
संप्रहृष्टमनाश्चापि रामात्परमसंमतम् ।ब्रह्मास्त्रं समनुप्राप्य नरेष्वभ्यधिकोऽभवत् ॥ १३ ॥
ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् ।अब्रवीत्पुरुषव्याघ्रः सखायं विद्धि मामिति ॥ १४ ॥
द्रुपद उवाच ।नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा ।नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ॥ १५ ॥
ब्राह्मण उवाच ।स विनिश्चित्य मनसा पाञ्चाल्यं प्रति बुद्धिमान् ।जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ॥ १६ ॥
तस्मै पौत्रान्समादाय वसूनि विविधानि च ।प्राप्ताय प्रददौ भीष्मः शिष्यान्द्रोणाय धीमते ॥ १७ ॥
द्रोणः शिष्यांस्ततः सर्वानिदं वचनमब्रवीत् ।समानीय तदा विद्वान्द्रुपदस्यासुखाय वै ॥ १८ ॥
आचार्यवेतनं किंचिद्धृदि संपरिवर्तते ।कृतास्त्रैस्तत्प्रदेयं स्यात्तदृतं वदतानघाः ॥ १९ ॥
यदा च पाण्डवाः सर्वे कृतास्त्राः कृतनिश्रमाः ।ततो द्रोणोऽब्रवीद्भूयो वेतनार्थमिदं वचः ॥ २० ॥
पार्षतो द्रुपदो नाम छत्रवत्यां नरेश्वरः ।तस्यापकृष्य तद्राज्यं मम शीघ्रं प्रदीयताम् ॥ २१ ॥
ततः पाण्डुसुताः पञ्च निर्जित्य द्रुपदं युधि ।द्रोणाय दर्शयामासुर्बद्ध्वा ससचिवं तदा ॥ २२ ॥
द्रोण उवाच ।प्रार्थयामि त्वया सख्यं पुनरेव नराधिप ।अराजा किल नो राज्ञः सखा भवितुमर्हति ॥ २३ ॥
अतः प्रयतितं राज्ये यज्ञसेन मया तव ।राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे ॥ २४ ॥
ब्राह्मण उवाच ।असत्कारः स सुमहान्मुहूर्तमपि तस्य तु ।न व्येति हृदयाद्राज्ञो दुर्मनाः स कृशोऽभवत् ॥ २५ ॥
« »