मध्यमव्यायोगः

Click on words to see what they mean.

( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
सूत्रधारः —पायात्स वोऽसुरवधूहृदयावसादःपादो हरेः कुवलयामलखड्गनीलः ।यः प्रोद्यतस्त्रिभुवनक्रमणे रराजवैडूर्यसंक्रम इवाम्बरसागरस्य ॥ १ ॥एवमार्यमिश्रान्त्रिज्ञापयामि । अये किंनु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग पश्यामि ।
( नेपथ्ये )
भोस्तात ! कोनु खल्वेषः ।
सूत्रधारः —भवतु, विज्ञातम् ।भोः शब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः ।त्रास्यते निर्विशङ्केन केनचित्पापचेतसा ॥ २ ॥
( पुनर्नेपथ्ये )
भोस्तात ! कोनुखल्वेषः ।
सूत्रधारः —हन्त दृढं विज्ञातं । एष खलु पाण्डवमध्यमस्यात्मजो हिडिम्बारणिसंभूतो राक्षसाभिरकृतवैरं ब्राह्मणजनं वित्रासयति । भोः कष्टम् । अत्रहिभ्रान्तैः सुतैः परिवृतस्तरुणैः सदारैःवृद्धो द्विजो निशिचरानुचरः सएषः ।व्याघ्रानुसारचकितो वृषभः सधेनुःसन्त्रस्तवत्सक इवाकुलतामुपैति ॥ ३ ॥
( निष्क्रान्ताः । )
स्थापना ।
( ततः प्रविशति तत्रयकलत्रपरिवृतो ब्राह्मणः पृष्ठतो घटोत्कचश्च । )
ब्राह्मणः —भोः कोनु खल्वेषः ।तरुणरविकरप्रकीर्णकेशो भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः ।सतडिदिव घनः सकण्ठसूत्रो युगनिधने प्रतिमाकृतिर्हरस्य ॥ ४ ॥
प्रथमः —भोस्तात ! कोनु खल्वेषः ।ग्रहयुगलनिभाक्षः पीनविस्तीर्णवक्षाःकनककपिलकेशः पीतकौशेयवासाः ।तिमिरनिवहवर्ण: पाण्डरोद्वृत्तदंष्ट्रोनव इव जलगर्भो लीयमानेन्दुलेखः ॥ ५ ॥
द्वितीय: —क एष भोः !कलभदशनदंष्ट्रो लाङ्गलाकारनासःकरिवरकरबाहुर्नीलजीमूतवर्णः ।हुतहुतवहदीप्तो यः स्थितो भाति भीम-स्त्रिपुरपुरनिहन्तुः शङ्करस्येव रोषः ॥ ६ ॥
तृतीयः —भोरतात ! कोनुखल्वयमस्मान्पीडयति ।वज्रपातोऽचलेन्द्राणां श्येनः सर्वपतत्रिणाम् ।मृगेन्द्रो मृगसंघानां मृत्युः पुरुषविग्रहः ॥ ७ ॥
ब्राह्मणी —अय्य को एसो अम्हाअं सन्दावेइ ।आर्य ! क एषोऽस्मान् सन्तापयति ।
घटोत्कचः —भो ब्राह्मण ! तिष्ठ तिष्ठ ।किं यासि मद्भयविनाशितधैर्यसारोवित्रस्तदारसुतरक्षणहीनशक्ते ! ।तार्क्ष्याग्र्यपक्षपवनोद्धतरोषवह्नि-तीव्रः कलत्रसहितो भुजगो यथार्तः ॥ ८ ॥भो ब्राह्मण ! न गन्तव्यं न गन्तव्यम् ।
वृद्ध: —ब्राह्मणि ! न भेतव्यम् । पुत्रकाः न भेतव्यम् । सविमर्शा ह्यस्य वाणी ।
घटोत्कचः —भोः ! कष्टम् ।जानामि सर्वत्र सदा च नाम द्विजोत्तमाः पूज्यतमाः पृथिव्याम् ।अकार्यमेतश्च मयाद्य कार्यं मातुर्नियोगादपनीयशङ्काम् ॥ ९ ॥
वृद्धः —ब्राह्मणि ! किं न स्मरसि तत्रभवता जलक्लिन्नेन मुनिनोक्तं-अनपेतराक्षसमिदं वनमप्रमादेन गन्तव्यमिति । तदेवोत्पन्नं भयम् ।
ब्राह्मणी —किं दाणि अय्यो मज्झत्थवण्णो विअ दिस्सदि ।किमिदानीमार्यो मध्यस्थवर्ण इव दृश्यते ।
वृद्धः —किं करिष्यामि मन्दभाग्यः ।
ब्राह्मणी —णं विक्कोसामो ।ननु विक्रोशामः ।
प्रथमः —भवति कस्य वयं विक्रोशामः ।इदं हि शून्यं तिमिरोत्करप्रभैर्नगप्रकारैरवरुद्धदिक्पथम् ।खगैर्मृगैश्चापि समाकुलान्तरं वनं निवासाभिमतं मनस्विनाम् ॥ १० ॥
वृद्धः —ब्राह्मणि ! न भेतव्यं, न भेतव्यम् । मनस्विजननिवासयोग्यमिति श्रुत्वा विगत इव मे संत्रासः । शङ्के नातिदूरेण पाण्डवाश्रमेण भवितव्यं । पाण्डवास्तु,युद्धप्रियाश्च शरणागतवत्सलाचदीनेषु पक्षपतिताः कृतसाहसाश्च ।एवंविधप्रतिभयाकृतिचेष्टितानांदण्डं यथार्हमिह धारयितुं समर्थाः ॥ ११ ॥
प्रथमः —भोस्तात ! न तत्र पाण्डवा इति मन्ये ।
वृद्ध: —कथं त्वं जानीषे ।
प्रथमः —श्रुतं मया तस्मादागच्छता केनचिद्ब्राह्मणेन शतकुम्भं नाम यज्ञमनुभवितुं महर्षेर्धौम्यस्याश्रमं गता इति ।
वृद्ध: —हन्त हताः स्मः ।
थमः —तात ! न तु सर्व एव । आश्रमपरिपालनार्थमिह स्थापितः किल मध्यमः ।
वृद्धः —यद्येवं सन्निहिताः सर्वे पाण्डवाः ।
प्रथमः —स चाप्यस्यां वेलायां व्यायामपरिचयार्थं विप्रकृष्टदेशस्थ इति श्रूयते ।
वृद्धः —हन्त निराशाः स्मः । भवतु पुत्र व्यपाश्रयिष्ये तावदेनम् ।
प्रथमः —अलमलं परिश्रमेण ।
वृद्धः —पुत्र ! निर्वेदप्रत्यार्थिनी खलु प्रार्थना । भवतु पश्यामस्तावत् । भो भोः पुरुष ! अस्त्यस्माकं मोक्षः ।
घटोत्कचः —मोक्षोऽस्ति समयतः ।
वृद्धः —कः समयः ।
घटोत्कचः —अस्ति मे तत्रभवती जननी । तयाहमाज्ञप्तः । पुत्र ! ममोपवासनिसर्गार्थमस्मिन्वनप्रदेशे कश्चिन्मानुषः प्रतिगृह्यानेतव्य इति । ततो मयासादितो भवान् ।पन्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि ।बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥ १२ ॥
वृद्ध : —हं भो राक्षसापसद ! किमहमब्राह्मणः ।ब्राह्मणः श्रुतवान्वृद्धः पुत्रं शीलगुणान्वितम् ।पुरुषादस्य दत्वाहं कथं निर्वृतिमाप्नुयाम् ॥ १३ ॥
घटोत्कच: —यद्यर्थितो द्विजश्रेष्ठ ! पुत्रमेकं न मुञ्चसि ।सकुटुम्बः क्षणेनैव विनाशमुपयास्यसि ॥ १४ ॥
वृद्ध: —एष एव मे निश्चयः ।कृतकृत्यं शरीरं मे परिणामेन जर्जरम् ।राक्षसाग्नौ सुतापेक्षी होण्यामि विधिसंस्कृतम् ॥ १५ ॥
ब्राह्मणी —अय्य! मा मा एवं । पदिमत्तधम्मिणी पदिव्वदत्ति णाम । गहीदफळेण एदिणा सरीरेण अय्यं कुळं च रक्खिदुमिच्छामि !आर्य, मा मैवम् । पतिमात्रधर्मिणी पतिव्रतेति नाम । गृहीतफलेनैतेन शरीरेणार्यं कुलं च रक्षितुमिच्छामि ।
घटोत्कचः —भवति ! न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या ? ।
वृद्धः —अनुगमिष्यामि भवन्तम् ।
घटोत्कचः —आः वृद्धस्त्वमपसर ।
प्रथमः —भोस्तात ! ब्रवीमि खलु तावत्किंचित् ।
वृद्धः —ब्रूहि ब्रूहि शीघ्रम् ।
प्रथमः —मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम् ।रक्षणार्थं कुलस्यास्य मोक्तुमर्हति मां भवान् ॥ १६ ॥
द्वितीयः —आर्य ! मा मैवम् ।ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसंप्रियः ।ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मरन् ॥ १७ ॥
तृतीयः —आर्यौ ! मा मैवम् ।ज्येष्ठो भ्राता पितृसमः कथितो ब्रह्मवादिभिः।ततोऽहं कर्तुमस्म्यर्हो गुरूणां प्राणरक्षणम् ॥ १८ ॥
प्रथमः —वत्स ! मा मैवम् ।आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण तार्यते ।ततोऽहमेव यास्यामि गुरूणां प्राणरक्षणात् ॥ १९ ॥
वृद्धः —ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम् ।
ब्राह्मणी —जह अय्यो ज्येष्ठमिच्छदि तह अहं पि कणिट्ठमिच्छामि ।यथार्यो ज्येष्ठमिच्छति तथाहमपि कनिष्ठमिच्छामि ।
द्वितीयः —पित्रोरनिष्टः कस्येदानीं प्रियः ।
घटोत्कचः —अहं प्रीतोऽस्मि । शीघ्रमागच्छ ।
द्वितीयः —धन्योऽस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः ।बन्धुस्नेहाद्धि महतः कायस्नेहस्तु दुर्लभः ॥ २० ॥
घटोत्कचः —अहो स्वजनवात्सल्यमस्य ब्राह्मणबटोः ।
द्वितीयः —भोस्तात ! अभिवादये ।
वृद्धः —एह्येहि पुत्रविनिमाय गुरुप्राणान् स्वैः प्राणैर्गुरुवत्सल ।अकृतात्मदुरावापं ब्रह्मलोकमवाप्नुहि ॥ २१ ॥
द्वितीयः —अनुगृहीतोऽस्मि । अम्ब ! अभिवादये ।ब्राह्मणी - जाद ! चिरं जीव । जात ! चिरं जीव ।
द्वितीयः —अनुगृहीतोऽस्मि । आर्य ! अभिवादये ।
प्रथमः —एह्येहि वत्स ।परिष्वजस्य गाढं मां परिष्वक्तः शुभैर्गुणैः ।कीर्त्या तव परिष्वक्ता भविष्यति वसुन्धरा ॥ २२ ॥
द्वितीयः —अनुगृहीतोऽस्मि ।
तृतीयः —आर्य ! अभिवादये ।
द्वितीय: —स्वस्ति ।
तृतीय: —अनुगृहीतोऽस्मि ।
द्वितीयः —भोः पुरुष ! किंचिद्ब्रवीमि ।
घटोत्कचः —ब्रूहि ब्रूहि शीघ्रम् ।
द्वितीयः —एतस्मिन्वनान्तरे जलाशय इव दृश्यते । तत्र मे प्रकल्पितपरलोकस्य पिपासाप्रतीकारं करिष्यामि ।
घटोत्कचः —दृढव्यवसायिन् ! गम्यताम् । अतिक्रामति मातुराहारकालः । शीघ्रमागच्छ ।
द्वितीयः —भोस्तात ! एष गच्छामि ।( निष्क्रान्तः । )
वृद्ध: —हा हा परिमुषिताः स्मो भोः ! परिमुषिताः स्मः ।यस्त्रिशृंगो मम त्वासीन्मनोज्ञो वंशपर्वतः ।स मध्यशृंगभङ्गेन मनस्तपति मे भृशम् ॥ २३ ॥हा पुत्रक ! कथं गत एव । तरुण ! तरुणानुरूपकान्ते !नियमपराध्ययनप्रसक्तबुद्धे ! ।कथमिव गजराजदन्तभग्न-स्तरुरिव यास्यसि पुष्पितो विनाशम् ॥ २४ ॥
घटोत्कचः —चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहारकालः । किंनु खलु करिष्ये । भवतु दृष्टम् । भो ब्राह्मण ! आहूयतां तव पुत्रः ।
वृद्ध: —आः अतिराक्षसं खलु ते वचनम् ।
घटोत्कचः —कथं रुष्यति । मर्षयतु भवान्मर्षयतु । अयं मे प्रकृतिदोषः । अथ किंनामा तव पुत्रः ।
वृद्ध: —एतदपि न शक्यं श्रोतुम् ।
घटोत्कचः —युक्तं भोः ! । ब्राह्मणकुमार ! किंनामा ते भ्राता ।
प्रथमः —तपस्वी मध्यमः ।
घटोत्कचः —मध्यम इति सदृशमस्य । अहमेवाह्वयामि । भो मध्यम ! मध्यम ! शीघ्रमागच्छ ।
( ततः प्रविति भीमसेनः । )
भीमः कस्यायं स्वरः ।
खगशतविरुते विरौति तारंद्रुमगहने दृढसंकटे वनेऽस्मिन् ।जनयति च मनोज्वरं स्वरोऽयंबहुसदृशो हि धनंजयस्वरस्य॥ २५ ॥
घटोत्कचः —चिरायते खलु ब्राह्मणबटुः । अतिक्रामति मातुराहार कालः । किं नु खलु करिष्ये । भवतु दृष्टम् । उच्चैः शब्दापयामि । भो मध्यम ! शीघ्रमागच्छ ।
भीमः —भोः ! कोनु खल्वेतस्मिन्वनान्तरे मम व्यायामविघ्नमुत्पाद्य मध्यम इति मां शब्दापयति । भवतु पश्यामस्तावत् ।( परिक्रम्यावलोक्य सविस्मयं ) अहो दर्शनीयोऽयं पुरुषः । अयं हि,सिंहास्यः सिंहदंष्ट्रो मधुनिभनयनः स्निग्धगम्भीरकण्ठोबभ्रुभ्रुः श्येननासो द्विरदपतिहनुर्दीप्तविश्लिष्टिकेशः ।व्यूढोरा वज्रमध्यो गजवृषभगतिर्लंबपीनांसबाहुःसुव्यक्तं राक्षसीजो विपुलबलयुतो लोकवीरस्य पुत्रः ॥२६॥
घटोत्कचः —चिरायते खलु ब्राह्मणबटुः । उच्चैः शब्दापयामि । भो भो मध्यम ! शीघ्रमागच्छ ।
भीमः —भोः ! प्राप्तोऽस्मि ।
घटोत्कचः —न खल्वयं ब्राह्मणबटुः । अहो दर्शनीयोऽयं पुरुषः । य एषः-सिंहाकृतिः कनकतालसमानबाहुःमध्ये तनुर्गरुडपक्षविलिप्तपक्षः ।विष्णुर्भवेद्विकसिताम्बुजपत्रनेत्रोनेत्रे ममाहरति बन्धुरिवागतोऽयम् ॥ २७ ॥भो मध्यम ! त्वां खल्वहं शब्दपयामि ।
भीमः —अतः खल्वहं प्राप्तः ।
घटोत्कचः —किं भवानपि मध्यमः ।
भीमः —न तावदपरः ।मध्यमो ऽहमवध्यानामुत्सिक्तानां च मध्यमः ।मध्यमोऽहं क्षितौ भद्र भ्रातॄणामपि मध्यमः ॥ २८ ॥
घटोत्कचः —भवितव्यम् ।
भीम: —अपिच,मध्यमः पञ्चभूतानां पार्थिवानां च मध्यमः ।भये च मध्यमो लोके सर्वकार्येषु मध्यमः ॥ २९ ॥
वृद्धः —मध्यमस्त्विति संप्रोक्ते नूनं पाण्डवमध्यमः ।अस्मान्मोक्तुमिहायातो दर्पान्मृत्योरिवोत्थितः ॥ ३० ॥
( प्रविश्य )
मध्यमः —अभ्यामाचम्य पद्मिन्यां परलोकेषु दुर्लभम् ।आत्मनैवात्मनो दत्तं पद्मपत्रोज्ज्वलं जलम् ॥ ३१ ॥( उपगम्य ) भोः पुरुष ! प्राप्तोऽस्मि ।
घटोत्कचः —भवानिदानिं खल्वसि मध्यमः । मध्यम ! इत इतः ।
वृद्धः —( भीमसेनमुपगम्य ) भो मध्यम ! परित्रायस्व ब्राह्मणकुलम् ।
भीमः —न भेतव्यम् न भेतव्यम् । मध्यमोऽहमभिवादये ।
वृद्ध: —वायुरिव दीर्घायुर्भव ।
भीमः —अनुगृहीतोऽस्मि । कुतो भयमार्यस्य ।
वृद्धः —श्रूयताम् । अहं खलु कुरुराजेन युधिष्ठिरेणाधिष्ठितपूर्वे कुरुजाङ्गले यूपग्रामवास्तव्यो माठरसगोत्रश्च कल्पशाखाध्वर्युः केशवदासो नाम ब्राह्मणः । तस्य ममोत्तरस्यां दिशि उद्यामकग्रामवासी मातुलः कौशिकसगोत्रो यज्ञबन्धुर्नामास्ति । तस्य पुत्रोपनयनार्थं सकलोऽस्मि प्रस्थितः ।
भीमः —अरिष्टोऽस्तु पन्थाः । ततस्ततः ।
वृद्धः —ततो मामेष हि-सजलजलदगात्रः पद्मपत्रायताक्षोमृगपतिगतिलीलो राक्षसः प्रोग्रदंष्ट्रः ।जगति विगतशङ्कस्त्वद्विधानां समक्षंससुतपरिजनं भो ! हन्तुकामोऽभ्युपैति ॥ ३२ ॥
भीमः —एवम् । अनेन ब्राह्मणजनस्य मार्गविघ्नः कृतः । भवतु निग्रहिष्यामि तावदेनम् । भोः पुरुष ! तिष्ठ तिष्ठ ।
घटोत्कचः —एष स्थितोऽस्मि ।
भीमः —किमर्थं ब्राह्मणजनम१पराध्यसि ।पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च ।वृद्धस्य विप्रचन्द्रस्य भवान् राहुरिवोत्थितः ॥ ३३ ॥
घटोत्कचः —अथ किम् । राहुरेव ।
भीमः —आः,निवृत्तव्यवहारोऽयं सदारस्तनयैः सह ।सर्वापराधेऽवध्यत्वान्मुच्यतां द्विजसत्तमः ॥ ३४ ॥
घटोत्कचः —न मुच्यते ।
भीमः —( आत्मगतम् ) भोः ! कस्य पुत्रेणानेन भवितव्यम् ।भ्रातॄणां मम सर्वेषां कोऽयं भोः ! गुणतस्करः ।दृष्ट्वैतद्बालशौण्डीर्यं सौभद्रस्य स्मराम्यहम् ॥ ३५ ॥( प्रकाशम् ) भोः पुरुष ! मुच्यताम् ।
घटोत्कचः —न मुच्यते ।मुच्यतामिति विस्रब्धं ब्रवीति यदि मे पिता ।न मुच्यते तथा ह्येष गृहीतो मातुराज्ञया ॥ ३६ ॥
भीमः —( आत्मगतम् ) कथं मातुराज्ञेति । अहो गुरुशुश्रूषः खल्वयं तपस्वी ।माता किल मनुष्याणां दैवतानां च दैवतम् ।मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः ॥ ३७ ॥( प्रकाशम् ) भो: पुरुप ! प्रष्टव्यं खलु तावदस्ति
घटोत्कचः —ब्रूहि ब्रूहि, शीघ्रम् ।
भीमः —का नाम भवतो माता ।
घटोत्कचः —श्रूयतां, हिडिम्बा नाम राक्षसी,कौरव्यकुलदीपेन पाण्डवेन महात्मना ।सनाथा या महाभागा पूर्णेन द्यौरिवेन्दुना ॥ ३८ ॥
भीमः —( सहर्षमात्मगतम् ) एवं हिडिम्बायाः पुत्रोऽयम् । सदृशो ह्यस्य गर्वः ।रूपं सत्त्वं बलं चैव पितृभिः सदृशं बहु ।प्रजासु वीतकारुण्यं मनश्चैवास्य कीदृशम् ॥ ३९ ॥( प्रकाशम् ) भोः पुरुष ! गुच्यताम् ।
घटोत्कचः —न मुच्यते ।
भीमः —भो ब्राह्मण ! गृह्यतां तव पुत्रः । वयमेनमनुगमिष्यामः ।
द्वितीय: —मा मा भवानेवम् ।त्यक्ताः प्रागेव मे प्राणाः गुरुप्राणेष्वपेक्षया ।युवा रूपगुणोपेतो भवांस्तिष्ठतु भूतले ॥ ४० ॥
भीमः —आर्य ! मा मैवम् । क्षत्रियकुलोत्पन्नोऽहम् । पूज्यतमाः खलु ब्राह्मणाः । तस्माच्छरीरेण ब्राह्मणशरीरं विनिमातुमिच्छामि ।
घटोत्कचः —एवं क्षत्रियोऽयं, तेनास्य दर्पः । भवतु, इममेव हत्वा नेष्यामि । अथ केनायं वारितः ।
भीमः —मया ।
९घटोत्कचः —किं त्वया ।
भीमः —अथ किम् ।
घटोत्कचः —तेन हि भवानेवागच्छतु ।
भीमः —एवमतिबलवीर्यान्नानुगच्छामि । यदि ते शक्तिरस्ति बलात्कारेण मां नय ।
घटोत्कचः —किं मां प्रत्यभिजानीते भवान् ।
भीम: —मत्पुत्र इति जाने ।
घटोत्कचः —कथं कथं तव पुत्रोऽहम् ।
भीमः —कथं रुष्यति । मर्पयतु भवान् । सर्वाः प्रजाः क्षत्रियाणां पुत्रशब्देनाभिधीयन्ते । अत एवं मयाभिहितम् ।
घटोत्कचः —भीतानामायुधं गृहीतम् ।
भीम: —शपामि सत्येन भयं न जाने ज्ञातुं तदिच्छामि भवत्समीपे ।किं रूपमेतद्वद भद्र तस्य गुणागुणज्ञः सदृशं प्रपत्स्ये ॥ ४१ ॥
घटोत्कचः —एष ते भयमुपदिशामि । गृह्यतामायुधम् ।
भीम: —आयुधमिति, गृहीतमेतत् ।
घटोत्कचः —कथमिव ।
भीम: —काञ्चनस्तम्भसदृशो रिपूणां निग्रहे रतः ।अयं तु दक्षिणो बाहुरायुधं सहजं मम ॥ ४२ ॥
घटोत्कचः —इदमुपपन्नं पितुर्मे भीमसेनस्य ।
भीमः —अथ कोऽयं भीमो नाम ।विश्वकर्ता शिवः कृष्णः शक्रः शक्तिधरो यमः ।एतेषु कथ्यतां भद्र केन ते सदृशः पिता ॥ ४३ ॥
घटोत्कचः —सर्वैः ।
भीमः —धिगनृतमेतत् ।
घटोत्कचः —कथं कथमनृतमित्याह । क्षिपसि मे गुरुम् । भवत्विमं स्थूलं वृक्षमुत्पाट्य प्रहरामि ।( उत्पाट्य प्रहरति । ) कथमनेनापि न शक्यते हन्तुम् । किं नु खलु करिष्ये । भवतु, दृष्टम् । एतद्द्विरिकूटमुत्पाट्य प्रहरामि ।शैलकूटं मयाक्षिप्तं प्राणानादाय यास्यति ।
भीम: —रुष्टोऽपि कुञ्जरो वन्यो न व्याघ्रं धर्षयेद्वने ॥ ४४ ॥
घटोत्कचः —( प्रहृत्य ) कथमनेनापि न शक्यते हन्तुम् । किंनु खलु करिष्ये । भवतु दृष्टम् ।नन्वहं भीमसेनस्य पुत्रः पौत्रो नभस्वतः ।तिष्ठेदानीं सुसन्नद्धो नियुद्धे नास्ति मत्समः ॥ ४५ ॥
( इत्युभौ नियुद्धं कुरुत: । )
घटोत्कचः —( भीमसेनं बद्धा )व्रजसि कथमिह त्वं वीर्यमुल्लङ्घ्य बाह्वो-र्गज इव दृढपाशैः पीडितो मद्भुजाभ्याम् ।
भीम: —( आत्मगतम् ) कथं गृहीतोऽस्म्यनेन । भोः सुयोधन! वर्धते ते शत्रुपक्षः । कृतरक्षो भव । ( प्रकाशम् ) भोः पुरुष ! अवहितो भव ।
घटोत्कचः —अवहितोऽस्मि ।
भीम: —( नियुद्धबन्धमवधूय )व्यपनय बलदर्पं दृष्टसारोऽसि वीर !नहि मम परिखेदो विद्यते बाहुयुद्धे ॥ ४६ ॥
घटोत्कचः —कथमनेनापि न शक्यते हन्तुम् । किं नु खलु करिष्ये । भवतु, दृष्टम् । अस्ति मातृप्रसादलब्धो मायापाशः । तेन बध्वैनं नेष्यामि । कुतः खल्वापः । भो गिरे ! आपस्तावत् । हन्त स्रवति ।( आचम्य मन्त्रं जपति । ) भोः पुरुष !मायापाशेन बद्धस्त्वं विवशोऽनुगमिष्यसि ।राजसे रज्ज्जुभिर्बद्धः शक्रध्वज इवोत्सवे ॥ ४७ ॥
( इति मायया बध्नाति । )
भीमः —कथं मायापाशेन बद्धोऽस्मि । किमिदानीं करिष्ये । भवतु दृष्टम् । अस्ति मे महेश्वरप्रसादालब्धो मायापाशमोक्षो मन्त्रः । तं जपामि । कुतः खल्वापः । भो ब्राह्मणकुमार ! आनय कमण्डलुगता आपः ।
वृद्धः —इमा आपः ।
( भीमः आदायाचम्य मन्त्रं जप्त्वा मायामपनयति । )
घटोत्कचः —अये पतितः पाशः । किमिदानीं करिष्ये । भवतु, दृष्टम् । भोः पुरुष ! पूर्वसमयं स्मर ।
भीमः —समयमिति । एष स्मरामि । गच्छाग्रतः ।( उभौ परिक्रामतः । )
वृद्धः —पुत्रकाः किं कुर्मः । अयं गच्छति वृकोदरः ।आक्रम्य राक्षसमिमं ज्वलदुग्ररूप-मुग्रेण बाहुबलवीर्यगुणेन युक्तम् ।एष प्रयाति शनकैरवधूय शीघ्र-मासारवर्षमिव गोवृषभस्सलीलम् ॥ ४८ ॥
घटोत्कचः —इह तिष्ठ । त्वदागमनमम्बायै निवेदयामि ।
भीम: —बाढम् । गच्छ ।
घटोत्कचः —( उपसृत्य ) अम्ब! अयमभिवादये । चिराभिलषितो भवत्या आहारार्थमानीतो मानुषः ।
( प्रविश्य )
हिडिम्बा —जाद ! चिरं जीव ।जात ! चिरं जीव ।
घटोत्कचः —अनुगृहीतोऽस्मि ।
हिडिम्बा —जाद ! कीदिसो माणुसो आणीदो ।जात, कीदृशो मानुप आनीत: ।
घटोत्कचः —भवति रूपमात्रेण मानुषः । न वीर्येण ।
हिडिम्बा —किं बम्हणो ।किं ब्राह्मणः ।
घटोत्कचः —न ब्राह्मणः ।
हिडिम्बा —आदु थेरो ।अथवा स्थविर: ।
घटोत्कचः —न वृद्धः ।
हिडिम्बा —किं वाळो ।किं बालः ।
घटोत्कचः —न बालः ।
हिडिम्बा —जइ एव्वं पेक्खामि दाव णं ।( उभौ परिक्रामतः । ) यद्येवं पश्यामि तावदेनम् ।
हिडिम्बा —किं एसो माणुसो आणीदो ।किमेष मानुप आनीतः ।
घटोत्कचः —अम्ब ! कोऽयम् ।
हिडिम्बा —उम्मत्तअ दव्वदं खु अम्हाअं ।उन्मत्तक दैवतं खल्वस्माकम् ।
घटोत्कचः —आः कस्य दैवतम् ।
हिडिम्बा —तव अ, मम अ ।तव च मम च ।
घटोत्कचः —कः प्रत्ययः ।
हिडिम्बा —अअं पञ्चओ । जेदु अय्यउत्तो । [ अयं प्रत्ययः । २७ जयत्वार्यपुत्रः । ]
भीमः —( विलोक्य ) का पुनरियम् । अये देवी हिडिम्बा ।अस्माकं भ्रष्टराज्यानां भ्रमतां गहने वने ।जातकारुण्यया देवि ! संतापो नाशितस्त्वया॥ ४९ ॥हिडिम्बे ! किमिदम् ।
हिडिम्बा —( कर्णे ) अय्यउत्त ! ईदिसं विअ । आर्यपुत्र ! ईदृशमिव ।
भीम: —जात्या राक्षसी, न समुदाचारेण ।
हिडिम्बा —उम्मत्तअ ! अभिवादेहि पिढरं ।उन्मत्तक ! अभिवादय पितरम् ।
घटोत्कचः —भोस्तात !अज्ञानात्तु मया पूर्वं यद्भवान्नाभिवादितः ।अस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ॥ ५० ॥अहं स धार्तराष्ट्रवनदवाग्निर्घटोत्कचोऽभिवादये । पुत्रचापलं क्षन्तुमर्हास ।
भीमः —एह्येहि पुत्र व्यतिक्रमकृतं श्रान्तमेव ।( इति परिष्वज्य ) अयं स धार्तराष्ट्रवनवाग्निः । पुत्रापेक्षीणि खलु पितृहृदयानि । पुत्र, अतिबलपराक्रमो भव ।
घटोत्कचः —अनुगृहीतोऽस्मि ।
वृद्धः —एवं भीमसेनपुत्रोऽयं घटोत्कचः ।
भीम: —पुत्र ! अभिवादयात्रभवन्तं केशवदासम् ।
घटोत्कचः —भगवन्नभिवादये ।
वृद्धः —पितृसदृशगुणकीर्तिर्भव ।
घटोत्कचः —अनुगृहीतोऽस्मि ।
वृद्धः —भो वृकोदर ! रक्षितमस्मत्कुलं, स्वकुलमुद्धृतं च । गच्छामस्तावत् ।
भीमः —अनुग्रहात्तु भवतः सर्वमासीदिदं शुभम् ।आश्रमोऽदूरतोऽस्माकं तत्र विश्रम्य गम्यताम् ॥ ५१ ॥
वृद्धः —कृतमातिथ्यमनेन जीवितप्रदानेन । तस्माद्गच्छामस्तावत् ।
वृद्धः —बाढम् । प्रथमः कल्पः ।( सपुत्रत्रयकलत्रो निष्क्रान्तः केशवदासः। )
भीमः —हिडिम्बे ! इतस्तावत् । वत्स घटोत्कच ! इतस्तावत् । तत्रभवन्तं केशवदासं आश्रमपदद्वारमात्रमपि संभावयिष्यामः ।यथा नदीनां प्रभवः समुद्रोयथाहुतीनां प्रभवो हुताशनः ।यथेन्द्रियाणां प्रभवं मनोऽपितथा प्रभुर्नो भगवानुपेन्द्रः ॥ ५२ ॥
( निष्क्रान्ताः सर्वे । )
॥ मध्यमव्यायोगं नाम नाटकं समाप्तम् ॥
« »