वृद्धः —ब्राह्मणि ! न भेतव्यं, न भेतव्यम् । मनस्विजननिवासयोग्यमिति श्रुत्वा विगत इव मे संत्रासः । शङ्के नातिदूरेण पाण्डवाश्रमेण भवितव्यं । पाण्डवास्तु,युद्धप्रियाश्च शरणागतवत्सलाचदीनेषु पक्षपतिताः कृतसाहसाश्च ।एवंविधप्रतिभयाकृतिचेष्टितानांदण्डं यथार्हमिह धारयितुं समर्थाः ॥ ११ ॥