ललितापञ्चरत्नम्

प्रातः स्मरामि ललितावदनारविन्दंबिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।आकर्णदीर्घनयनं मणिकुण्डलाढ्यंमन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥ १ ॥
प्रातर्भजामि ललिताभुजकल्पवल्लींरक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।माणिक्यहेमवलयाङ्गदशोभमानांपुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥ २ ॥
प्रातर्नमामि ललिताचरणारविन्दंभक्तेष्टदाननिरतं भवसिन्धुपोतम् ।पद्मासनादिसुरनायकपूजनीयंपद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥ ३ ॥
प्रातः स्तुवे परशिवां ललितां भवानींत्रय्यन्तवेद्यविभवां करुणानवद्याम् ।विश्वस्य सृष्टिविलयस्थितिहेतुभूतांविद्येश्वरीं निगमवाङ्मनसातिदूराम् ॥ ४ ॥
प्रातर्वदामि ललिते तव पुण्यनामकामेश्वरीति कमलेति महेश्वरीति ।श्रीशाम्भवीति जगतां जननी परेतिवाग्देवतेति वचसा त्रिपुरेश्वरीति ॥ ५ ॥
यः श्लोकपञ्चकमिदं ललिताम्बिकायाःसौभाग्यदं सुललितं पठति प्रभाते ।तस्मै ददाति ललिता झटिति प्रसन्नाविद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥ ६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ ललितापञ्चरत्नं संपूर्णम् ॥

Settings