लक्ष्मीस्तोत्रम् Click on words to see what they mean. क्षमस्वभगवत्यंब क्षमाशीले परात्परे ।शुद्धसत्वस्वरूपे च कोपादिपरिवर्जिते ॥ १ ॥ उपमे सर्वसाध्वीनां देवीनां देवपूजिते ।त्वया विना जगत्सर्वे मृततुल्यं च निष्फलम् ॥ २ ॥ सर्वसंपत्स्वरूपा त्वं सर्वेषां सर्वरूपिणी ।रासेश्वर्यधिदेवी त्वं त्वत्कलाः सर्वयोषितः ॥ ३ ॥ कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यकास्वर्गे त्वं च महालक्ष्मीमर्त्यलक्ष्मीश्च भूतले ॥ ४ ॥ वैकुंठे च महालक्ष्मीर्देवदेवी सरस्वती ।गंगा च तुलसी त्वं च सावित्री ब्रह्मलोकतः ॥ ५ ॥ कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम्रासे रासेश्वरी त्वं च वृंदावनवने वने ॥ ६ ॥ कृष्णप्रियां त्वं भांडीरे चन्द्रा चन्दन कानने ।विरजा चंपकवने शतशृगे च सुन्दरी ॥ ७ ॥ पद्मावती पद्मवने मालती मालतीवने ।कुन्ददन्ती कुन्दवने सुशीला केतकीवने ॥ ८ ॥ कदंबमाला त्वं देवी कदंबकाननेऽपि च ।राजलक्ष्मी राजगृहे गृहलक्ष्मी गृहेगृहे ॥ ६ ॥ इत्युक्त्वा देवताः सर्वा मुनयोमनवस्तथा ।रुरुदुर्नम्रवदनाः शुष्ककंठोष्ठ तालुकाः ॥ १० ॥ इति लक्ष्मीस्तवं पुण्यं सर्वदेवैः कृतं शुभम् ।यः पठेत्प्रातरुत्थाय स वै सर्वं लभेद् ध्रुवम् ॥ ११ ॥ अभार्यो लभते भार्या विनीतां सुसृतां सतीम् ।सुशीलां सुन्दरीं रम्यामतिसुप्रियवादिनीम् ॥ १२ ॥ पुत्रपौत्रवतीं शुद्धां कुलजां कोमलांवराम् ।अपुत्रो लभते पुत्रं वैष्णवं चिरजीवनम् ॥ १३ ॥ परमैर्श्ययुक्तं च विद्यावंतं यशस्विनम् ।भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ १४ ॥ हतबन्धुर्लभेद्बन्धुं धनभ्रष्टो धनं लभेत् ।कीर्तिहीनो लभेत्कीर्ति प्रतिष्ठा च लभेद् धुवम् ॥ १५ ॥ सर्वमंगलदंस्तोत्रं शोकसंतापनाशनम् ।हर्षानंदकरंशश्वद्धर्ममोक्ष सुहृत्प्रदम् ॥ १६ ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha