लघुवाक्यवृत्तिः

स्थूलो मांसमयो देहोसूक्ष्मः स्याद्वासनामयः ।ज्ञानकर्मेन्द्रियैः सार्धंधीप्राणौ तच्छरीरगौ ॥ १ ॥
अज्ञानं कारणं साक्षीबोधस्तेषां विभासकः ।बोधाभासो बुद्धिगतःकर्ता स्यात्पुण्यपापयोः ॥ २ ॥
स एव संसरेत्कर्म-वशाल्लोकद्वये सदा ।बोधाभासाच्छुद्धबोधंविविच्यादतियत्नतः ॥ ३ ॥
जागरस्वप्नयोरेवबोधाभासविडम्बना ।सुप्तौ तु तल्लये बोधःशुद्धो जाड्यं प्रकाशयेत् ॥ ४ ॥
जागरेऽपि धियस्तूष्णीं-भावः शुद्धेन भास्यते ।धीव्यापाराश्च चिद्भास्या-श्चिदाभासेन संयुताः ॥ ५ ॥
वह्नितप्तजलं ताप-युक्तं देहस्य तापकम् ।चिद्भास्या धीस्तदाभास-युक्तान्यं भासयेत्तथा ॥ ६ ॥
रूपादौ गुणदोषादि-विकल्प्रा बुद्धिगाः क्रियाः ।ताः क्रिया विषयैः सार्धंभासयन्ती चितिर्मता ॥ ७ ॥
रूपाच्च गुणदोषाभ्यांविविक्ता केवला चितिः ।सैवानुवर्तते रूप-रसादीनां विकल्पने ॥ ८ ॥
क्षणे क्षणेऽन्यथाभूताधीविकल्पाश्चितिर्न तु ।मुक्तासु सूत्रवद्बुद्धि-विकल्पेषु चितिस्तथा ॥ ९ ॥
मुक्ताभिरावृतं सूत्रंमुक्तयोर्मध्य ईक्ष्यते ।तथा वृत्तिविकल्पैश्चि-त्स्पष्टा मध्ये विकल्पयोः ॥ १० ॥
नष्टे पूर्वविकल्पे तुयावदन्यस्य नोदयः ।निर्विकल्पकचैतन्यंस्पष्टं तावद्विभासते ॥ ११ ॥
एकद्वित्रिक्षणेष्वेवंविकल्पस्य निरोधनम् ।क्रमेणाभ्यस्यतां यत्ना-द्ब्रह्मानुभवकाङ्क्षिभिः ॥ १२ ॥
सविकल्पकजीवोऽयंब्रह्म तन्निर्विकल्पकम् ।अहं ब्रह्मेति वाक्येनसोऽयमर्थोऽभिधीयते ॥ १३ ॥
सविकल्पकचिद्योऽहंब्रह्मैकं निर्विकल्पकम् ।स्वतःसिद्धा विकल्पास्तेनिरोद्धव्याः प्रयत्नतः ॥ १४ ॥
शक्यः सर्वनिरोधेनसमाधिर्योगिनां प्रियः ।तदशक्तौ क्षणं रुद्ध्वाश्रद्धालुर्ब्रह्मतात्मनः ॥ १५ ॥
श्रद्धालुर्ब्रह्मतां स्वस्यचिन्तयेद्बुद्धिवृत्तिभिः ।वाक्यवृत्त्या यथाशक्तिज्ञात्वाद्धाभ्यम्यतां सदा ॥ १६ ॥
तच्चिन्तनं तत्कथन-मन्योन्यं तत्प्रबोधनम् ।एतदेकपरत्वं चब्रह्माभ्यासं विदुर्बुधाः ॥ १७ ॥
देहात्मधीवद्ब्रह्मात्म-धदार्ढ्ये कृतकृत्यता ।यदा तदायं म्रियतांमुक्तोऽसौ नात्र संशयः ॥ १८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छकरभगवतः कृतौ लघुवाक्यवृत्तिः संपूर्णा ॥

Settings