कृष्णाष्टकम्

श्रियाश्लिष्टो विष्णुः स्थिरचरगुरुर्वेदविषयोधियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः ।गदी शङ्खी चक्री विमलवनमाली स्थिररुचिःशरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥
यतः सर्वं जातं वियदनिलमुख्यं जगदिदंस्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा ।लये सर्वं स्वस्मिन्हरति कलया यस्तु स विभुःशरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ २ ॥
असूनायम्यादौ यमनियममुख्यैः सुकरणै-र्निरुद्ध्येदं चित्तं हृदि विलयमानीय सकलम् ।यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौशरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥
पृथिव्यां तिष्ठन्यो यमयति महीं वेद न धरायमित्यादौ वेदो वदति जगतामीशममलम् ।नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौशरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥
महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतोन कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।बलारातेर्गर्वं परिहरति योऽसौ विजयिनःशरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥
विना यस्य ध्यानं व्रजति पशुतां सूकरमुखांविना यस्य ज्ञानं जनिमृतिभयं याति जनता ।विना यस्य स्मृत्या कृमिशतजनिं याति स विभुःशरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ६ ॥
नरातङ्कोट्टङ्कः शरणशरणो भ्रान्तिहरणोघनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः ।स्वयंभूर्भूतानां जनक उचिताचारसुखदःशरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ७ ॥
यदा धर्मग्लानिर्भवति जगतां क्षोभकरणीतदा लोकस्वामी प्रकटितवपुः सेतुधृदजः ।सतां धाता स्वच्छो निगमगणगीतो व्रजपतिःशरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कृष्णाष्टकं संपूर्णम् ॥

Settings