मच्चिताख्यद्विपनियमनालानयोर्द्वन्द्वमूर्वोः श्रोणीभारादलसमधुना जायते खिन्नखिन्नम् आरब्धानां हर हर मया यत्र संवाहनानां नित्यं जाता निरवधिरसाः के ऽपि के ऽप्यन्तरायाः ॥
एवंप्राया न हि न विरहे जीवितुं सन्त्युपायाः सत्यं तैस्तैः कृतधृतिरहं प्राणिमि प्राणनाथे निश्चित्यैवं निरुपमगुणे साहसेभ्यो निवृत्ता त्वं च स्नानादिषु सवयसां प्रार्थनां मा निषेधीः ॥