काशीपञ्चकम्

मनो निवृत्तिः परमोपशान्तिःसा तीर्थवर्या मणिकर्णिका च ।ज्ञानप्रवाहा विमलादिगङ्गासा काशिकाहं निजबोधरूपा ॥ १ ॥
यस्यामिदं कल्पितमिन्द्रजालंचराचरं भाति मनोविलासम् ।सच्चित्सुखैका परमात्मरूपासा काशिकाहं निजबोधरूपा ॥ २ ॥
कोशेषु पञ्चस्वधिराजमानाबुद्धिर्भवानी प्रतिदेहगेहम् ।साक्षी शिवः सर्वगतोऽन्तरात्मासा काशिकाहं निजबोधरूपा ॥ ३ ॥
काश्यां हि काशते काशीकाशी सर्वप्रकाशिका ।सा काशी विदिता येनतेन प्राप्ता हि काशिका ॥ ४ ॥
काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगङ्गाभक्तिः श्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः ।विश्वेशोऽयं तुरीयं सकलजनमनः साक्षिभूतोऽन्तरात्मादेहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ काशीपञ्चकं संपूर्णम् ॥

Settings