कल्याणवृष्टिस्तवः

कल्याणवृष्टिभिरिवामृतपूरिताभि-र्लक्ष्मीस्वयंवरणमङ्गलदीपिकाभिः ।सेवाभिरम्ब तव पादसरोजमूलेनाकारि किं मनसि भाग्यवतां जनानाम् ॥ १ ॥
एतावदेव जननि स्पृहणीयमास्तेत्वद्वन्दनेषु सलिलस्थगिते च नेत्रे ।सांनिध्यमुद्यदरुणायुतसोदरस्यत्वद्विग्रहस्य परया सुधयाप्लुतस्य ॥ २ ॥
ईशत्वनामकलुषाः कति वा न सन्तिब्रह्मादयः प्रतिभवं प्रलयाभिभूताः ।एकः स एव जननि स्थिरसिद्धिरास्तेयः पादयोस्तव सकृत्प्रणतिं करोति ॥ ३ ॥
लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनंकारुण्यकन्दलितकान्तिभरं कटाक्षम् ।कंदर्पकोटिसुभगास्त्वयि भक्तिभाजःसंमोहयन्ति तरुणीर्भुवनत्रयेऽपि ॥ ४ ॥
ह्रींकारमेव तव नाम गृणन्ति वेदामातस्त्रिकोणनिलये त्रिपुरे त्रिनेत्रे ।त्वत्संस्मृतौ यमभटाभिभवं विहायदीव्यन्ति नन्दनवने सह लोकपालैः ॥ ५ ॥
हन्तुः पुरामधिगलं परिपीयमानःक्रूरः कथं न भविता गरलस्य वेगः ।नाश्वासनाय यदि मातरिदं तवार्धंदेहस्य शश्वदमृताप्लुतशीतलस्य ॥ ६ ॥
सर्वज्ञतां सदसि वाक्पटुतां प्रसूतेदेवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः ।किं च स्फुरन्मकुटमुज्ज्वलमातपत्रंद्वे चामरे च महतीं वसुधां ददाति ॥ ७ ॥
कल्पद्रुमैरभिमतप्रतिपादनेषुकारुण्यवारिधिभिरम्ब भवत्कटाक्षैः ।आलोकय त्रिपुरसुन्दरि मामनाथंत्वय्येव भक्तिभरितं त्वयि बद्धतृष्णम् ॥ ८ ॥
हन्तेतरेष्वपि मनांसि निधाय चान्येभक्तिं वहन्ति किल पामरदैवतेषु ।त्वामेव देवि मनसा समनुस्मरामित्वामेव नौमि शरणं जननि त्वमेव ॥ ९ ॥
लक्ष्येषु सत्स्वपि कटाक्षनिरीक्षणाना-मालोकय त्रिपुरसुन्दरि मां कदाचित् ।नूनं मया तु सदृशः करुणैकपात्रंजातो जनिष्यति जनो न च जायते वा ॥ १० ॥
ह्रींहीमिति प्रतिदिनं जपतां तवाख्यांकिं नाम दुर्लभमिह त्रिपुराधिवासे ।मालाकिरीटमदवारणमाननीयातान्सेवते वसुमती स्वयमेव लक्ष्मीः ॥ ११ ॥
संपत्कराणि सकलेन्द्रियनन्दनानिसाम्राज्यदाननिरतानि सरोरुहाक्षि ।त्वद्वन्दनानि दुरिताहरणोद्यतानिमामेव मातरनिशं कलयन्तु नान्यम् ॥ १२ ॥
कल्पोपसंहृतिषु कल्पितताण्डवस्यदेवस्य खण्डपरशोः परभैरवस्य ।पाशाङ्कुशैक्षवशरासनपुष्पबाणासा साक्षिणी विजयते तव मूर्तिरेका ॥ १३ ॥
लग्नं सदा भवतु मातरिदं तवार्धंतेजः परं बहुलकुङ्कुमपङ्कशोणम् ।भास्वत्किरीटममृतांशुकलावतंसंमध्ये त्रिकोणनिलयं परमामृतार्द्रम् ॥ १४ ॥
ह्रींकारमेव तव नाम तदेव रूपंत्वन्नाम दुर्लभमिह त्रिपुरे गृणन्ति ।त्वत्तेजसा परिणतं वियदादिभूतंसौख्यं तनोति सरसीरुहसंभवादेः ॥ १५ ॥
ह्रींकारत्रयसंपुटेन महता मन्त्रेण संदीपितंस्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपेन्मन्त्रवित् ।तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनीवाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः ॥ १६ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ कल्याणवृष्टिस्तवः संपूर्णः ॥

Settings