जीवन्मुक्तानन्दलहरी

पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमया-न्सुवेषान्स्वर्णालंकरणकलितांश्चित्रसदृशान् ।स्वयं साक्षाद्दृष्टेत्यपि च कलयंस्तैः सह रम-न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १ ।
वने वृक्षान्पश्यन्दलफलभरान्नम्रसुशिखा-न्घनच्छायाच्छन्नान्बहुलकलकूजद्द्विजगणान् ।भजन्घस्रोरात्रादवनितलकल्पैकशयनोमुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ २ ॥
कदाचित्प्रासादे क्वचिदपि च सौधेषु धनिनांकदा काले शैले क्वचिदपि च कूलेषु सरिताम् ।कुटीरे दान्तानां मुनिजनवराणामपि वस-न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ३ ॥
क्वचिद्बालैः सार्धं करतलगतालैः सहसितैःक्वचित्तारुण्यालंकृतनरवधूभिः सह रमन् ।क्वचिद्वृद्धैश्चिन्ताकुलितहृदयैश्चापि विलप-न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ४ ॥
कदाचिद्विद्वद्भिर्विविदिषुभिरत्यन्तनिरतैःकदाचित्काव्यालंकृतिरसरसालैः कविवरैःकदाचित्सत्तर्कैरनुमितिपरैस्तार्किकवरै-र्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ५ ॥
कदा ध्यानाभ्यासैः क्वचिदपि सपर्यां विकसितैःसुगन्धैः सत्पुष्पैः क्वचिदपि दलैरेव विमलः ।प्रकुर्वन्देवस्य प्रमुदितमनाः संनतिपरोमुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ६ ॥
शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदागणाध्यक्षस्यापि प्रकटितवरस्यापि च कदा ।पठन्वै नामालिं नयनरचितानन्दसरितोमुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ७ ॥
कदा गङ्गाम्भोभिः क्वचिदपि च कूपोत्थसलिलैःक्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः ।भजन्स्नानं भूत्या क्वचिदपि च कर्पूरनिभयामुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ८ ॥
कदाचिज्जागर्त्यां विषयकरणैः सव्यवहर-न्कदाचित्स्वप्नस्थानपि च विषयानेव च भजन् ।कदाचित्सौषुप्तं सुखमनुभवन्नेव सततंमुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ९ ॥
कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरःक्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे ।मनस्वी निःसङ्गः सुजनहृदयानन्दजनकोमुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२ ॥
कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तिसुगत-स्तमोवृत्तिः क्वापि त्रितयरहितः क्वापि च पुनः ।कदाचित्संसारी श्रुतिपथविहारी क्वचिदहोमुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ ११ ॥
कदाचिन्मौनस्थः क्वचिदपि च वाग्वादनिरतःकदाचित्सानन्दं हसितरभसस्त्यक्तवचनः ।कदाचिल्लोकानां व्यवहृतिसमालोकनपरोमुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १२ ॥
कदाचिच्छक्तीनां विकचमुखपद्मेषु कमलंक्षिपंस्तासां क्वापि स्वयमपि च गृह्णन्स्वमुखतः ।तदद्वैतं रूपं निजपरविहीनं प्रकटय-न्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १३ ॥
क्वचिच्छेवैः सार्थं क्वचिदपि च शाक्तैः सह वस-न्कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन् ।कदा गाणापत्यैर्गतसकलभेदोऽद्वयतयामुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १४ ॥
निराकारं क्वापि क्वचिदपि च साकारममलंनिजं शैवं रूपं विविधगुणभेदेन बहुधा ।कदाश्चर्यं पश्यन्किमिदमिति हृष्यन्नपि कदामुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १५ ॥
कदाद्वैतं पश्यन्नखिलमपि सत्यं शिवमयंमहावाक्यार्थानामवगतिसमभ्यासवशतः ।गतद्वैताभासः शिव शिव शिवेत्येव विलपन्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमाः ॥ १६ ॥
इमां मुक्तावस्थां परमशिवसंस्थां गुरुकृपा-सुधापाङ्गव्याप्यां सहजसुखवाप्यामनुदिनम् ।मुहुर्मज्जन्मज्जन्भजति सुकृतैश्चेन्नरवरःसदा त्यागी योगी कविरिति वदन्तीह कवयः ॥ १७ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगव- त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ जीवन्मुक्तानन्दलहरी संपूर्णा ॥

Settings