जगन्नाथाष्टकम्

कदाचित्कालिन्दीतटविपिनसंगीतकवरोमुदा गोपीनारीवदनकमलास्वादमधुपः ।रमाशंभुब्रह्मामरपतिगणेशार्चितपदोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ १ ॥
भुजे सव्ये वेणुं शिरसि शिखिपिञ्छं कटितटेदुकूलं नेत्रान्ते सहचरकटाक्षं विदधते सदा श्रीमद्वृन्दावनवसतिलीलापरिचयोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ २ ॥
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरेवसन्प्रासादान्तः सहजबलभद्रेण बलिना ।सुभद्रामध्यस्थः सकलसुरसेवावसरदोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ३ ॥
कृपापारावारः सजलजलदश्रेणिरुचिरोरमावाणीसोमस्फुरदमलपद्मोद्भवमुखैः ।सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ४ ॥
रथारूढो गच्छन्पथि मिलितभूदेवपटलैःस्तुतिप्रादुर्भावं प्रतिपदमुपाकर्ण्य सदयः ।दयासिन्धुर्बन्धुः सकलजगतां सिन्धुसुतयाजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ५ ॥
परब्रह्मापीडः कुवलयदलोत्फुल्लनयनोनिवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि ।रसानन्दो राधासरसवपुरालिङ्गनसुखोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ६ ॥
न वै प्रार्थ्यं राज्यं न च कनकता भोगविभवेन याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् ।सदा काले काले प्रमथपतिना गीतचरितोजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ७ ॥
हर त्वं संसारं द्रुततरमसारं सुरपतेहर त्वं पापानां विततिमपरां यादवपते ।अहो दीनानाथं निहितमचलं पातुमनिशंजगन्नाथः स्वामी नयनपथगामी भवतु मे ॥ ८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ जगन्नाथाष्टकं संपूर्णम् ॥

Settings