अथ हैनमत्रिः पप्रच्छ ॥ याज्ञवल्क्य पृच्छामि त्वा याज्ञवल्क्य अयज्ञोपवीती कथं ब्राह्मण इति ॥ स होवाच याज्ञवल्क्य इदमेवास्य तद्यज्ञोपवीतं य आत्मा प्राश्याचम्यायं विधिः परिव्राजकानाम् ॥ वीराध्वाने वाडनाशके वाऽपांप्रवेशे वाऽग्निप्रवेशे वा महाप्रस्थाने वाऽथ परिब्राड् विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति ॥ यथातुरः स्यान्मनसा वाचा वा संन्यसेत् ॥ एष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्म विदित्येवमेवैष भगवन्निति वै याज्ञवल्क्यः ॥ ५ ॥
इति जाबालोपनिषत्सु पञ्चमः खण्डः ॥ ५ ॥

Settings