इन्द्रविंशतिः

Click on words to see what they mean.

प्रथमो वर्गः

अखिलनायकं मखभुजां वरम् ।अरिविदारणं हरिहयं भजे ॥ १ ॥
मधुमुचामृचां परिचयी वृषा ।रसकिरां गिरां भवतु लोकिता ॥ २ ॥
अमरराज मे त्रिमलवारणे ।भजनमेव ते भवतु भेषजम् ॥ ३ ॥
प्रतिभये गदे प्रतिभटे पटौ ।वरद तारणं तव निषेवणम् ॥ ४ ॥
अयमिहाश्रितो भयहरेन्द्र ते ।मधुरपद्यभृन्नधुरि खिद्यतु ॥ ५ ॥

द्वितीयो वर्गः

वृत्रमयि भृन्दन्नुत्सृजसि नीरम् ।उत्सवसमेतो गर्जसि गभीरम् ॥ ६ ॥
उग्रतरनादं दीप्ततरभासम् ।अप्सु विहरन्तं देवविभुमीडे ॥ ७ ॥
वज्रधरकीली भाति भुवि पाता ।भूरि बलशाली त्वं नभसि नेता ॥ ८ ॥
मन्थनत आसीदेष इह यज्ञे ।घर्षणविशेषाद्व्योमनि स जज्ञे ॥ ९ ॥
भूरिमहिमाढ्यं सन्मुनिभिरीड्यम् ।त्रातसुरचक्रं सन्नमतशक्रम् ॥ १० ॥

तृतीयो वर्गः

असुरधिपिण्डं तटिदधिभूतम् ।अयममराणां पतिरधिदैवम् ॥ ११ ॥
जगदयमेतत्प्रभवति भर्तुम् ।जगदरिदर्याक्षयमपि कर्तुम् ॥ १२ ॥
अयमधिनाथो भवति बलस्य ।अत उचितोऽस्य प्रभुरखिलस्य ॥ १३ ॥
नरसुरदैत्यान्वितमपि नूनम् ।बलविभवेऽस्मात्त्रिभुवनमूनम् ॥ १४ ॥
अयमतिमत्तैः करिभिरजय्यम् ।घटयति सिंहं मृगशिशुजय्यम् ॥ १५ ॥

चतुर्थो वर्गः

राकाशशिकीर्तिं पाकासुरशत्रुम् ।आकाशमहीशं शोकापहमीडे ॥ १६ ॥
निर्जित्य समस्तान् भावानपि जिष्णो ।सम्राड् भुवनानां आसीः प्रभविष्णो ॥ १७ ॥
जानामि मरुत्त्वन् गानाय यशस्ते ।ध्यानाय न रूपं ज्ञानाय न तत्त्वम् ॥ १८ ॥
लोके स्थितिभाजां यत्ते घनमूर्तिः ।धात्री निखिलानां सेयं तव कीर्तिः ॥ १९ ॥
तुष्टिं बहुवित्तां स्वाराडनियत्ताम् ।आनन्दितचित्तां भक्तस्य विधत्ताम् ॥ २० ॥
॥ इन्द्रविंशतिः समाप्ता ॥
« »