गुह्यषोढान्यासोपनिषत्

अथ गुह्यां न्यमेत् । शिवो भवेत् । शक्तिरूपो भवेत् । विद्याराज्ञीन्यासमेवं चरेत् । न जपो न पूजा न साधनं न कालनियमो न दिवा न रात्रिः । सर्वकालं न्यमेत् । शक्तियुक्तो भवेत् । यथाधिकारवान् न्यसेत् । पूर्णदीक्षां लभेत् । षोढारूपो भवेत् । चिन्तामणिर्भवेत् । क्रीं मातृस्थाने न्यसेत् । परात् परतरो भवेत् । शिवो भवेदित्येकः । अथ ताराद्वयपुटितां मातृकां मातृकापुटितां तां मातृकास्थाने न्यसेत । परातीतारूपो भवेदिति द्वितीयः । अथ शक्तिकाद्वयपुटितां मातृकां मातृकापुटितां तां न्यसेत् । तुर्यारूपो भवेत् । तृतीयकलारूपो भवेत् । कालसंकलनात् काली । सहेलं सलीलं वा स्मरणाद्वरदानेषु चतुरा । तेनेयं दक्षिणा । संबोधनद्वयपुटितां मातृकां मातृकापुटितं नामद्वयं लिपिस्थाने न्यसेत् । तुर्यात् परारूपो भवेत् । चतुर्थीकलारूपो भवेत् । लोकपालसंवादिनी चतुर्थी । अथ पञ्चमीं कलां न्यसेत् । पञ्चमीकलारूपो भवेत् । सुभगात्रयं कूर्चवह्निललनां वह्नेस्त्रिकोणदैवतस्यलालनाच्छ्रीकण्ठरूपस्तुर्या परातीता । एतत्पुटितमातृकापुटितमेतन्मन्त्रं मातृकास्थाने न्यसेदिति पञ्चमी । शिवत्वं गच्छति । स सर्वरूपो भवेत् । अथ षष्ठीं कलां न्यसेत् । पूर्णां विद्याराज्ञीं लिपिस्थाने न्यसेद्व्यापयेत् । स शिवो भवेत् । स सर्वज्ञत्वं गच्छति । स कविर्भवेत् । स सन्यासी भवेत् । देवो ह वै भवेत् । विश्वरूपो भवेत् । अयुतं न्यसेत् । ऋषिच्छन्दादि पूर्ववद्भवेत् । ब्रह्माण्डगोलकेऽपि या जगतीतले तां सर्वां भुनक्ति । यस्याः स्मरणात् सिद्धो निदेशवर्ती च भवेत् तां न्यसेत् । न्यसनं न्यासः । सम्यक् न्यासः संन्यासः । न तु मुण्डितमुण्ड: । तस्य देवादयो नमस्यन्तीति प्रोतं वेद । ॐ शिवम् ॥
इत्याथर्वणे सौभाग्यकाण्डे गुह्यषोढान्यासोपनिषत् समाप्ता

Settings