गोविन्दाष्टकम्

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशंगोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।मायाकल्पितनानाकारमनाकारं भुवनाकारंक्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ १ ॥
मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासंव्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकंलोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ २ ॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नंकैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासंशैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ ३ ॥
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालंगोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानंगोधीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥ ४ ॥
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभंशश्वद्गोखुरनिर्धूतोद्गतधूलीधूसरसौभाग्यम् ।श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावंचिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारुढंव्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः ।निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तःस्थंसत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ ६ ॥
कान्तं कारणकारणमादिमनादिं कालघनाभासंकालिन्दीगतकालियशिरसि सुनृत्यन्तं मुहुरत्यन्तम् ।कालं कालकलातीतं कलिताशेषं कलिदोषघ्नंकालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ ७ ॥
वृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्द्यायाकुन्दाभामलमन्दस्मेरसुधानन्दं सुमहानन्दम् ।वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वंनन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ ८ ॥
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता योगोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघोगोविन्दं परमानन्दामृतमन्तस्थं स तमभ्येति ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गोविन्दाष्टकं संपूर्णम् ॥

Settings