गोविन्ददामोदरस्तोत्रम् Click on words to see what they mean. अग्रे कुरूणामथ पाण्डवानांदुःशासनेनाहृतवस्त्रकेशा ।कृष्णा तदाक्रोशदनन्यनाथागोविन्द दामोदर माधवेति ॥ श्रीकृष्ण विष्णो मधुकैटभारेभक्तानुकम्पिन् भगवन् मुरारे ।त्रायस्व मां केशव लोकनाथगोविन्द दामोदर माधवेति ॥ विक्रेतुकामाखिलगोपकन्यामुरारिपादार्पितचित्तवृत्तिः ।दध्यादिकं मोहवशादवोचद्गोविन्द दामोदर: माधवेति ॥ उलूखले सम्भृततण्डुलांश्चसंघट्टयन्त्यो मुशलैः प्रमुग्धाः ।गायन्ति गोप्यो जनितानुरागागोविन्द दामोदर माधवेति ॥ काचित्कराम्भोजपुटे निषण्णंक्रीडाशुकं किंशुकरक्ततुण्डम् ।अध्यापयामास सरोरुहाक्षीगोविन्द दामोदर माधवेति ॥ गृहे गृहे गोपवधूसमूहःप्रतिक्षणं पिञ्जरसारिकाणाम् ।स्खलद्गिरं बाचयितुं प्रवृत्तोगोविन्द दामोदर माधवेति ॥ पर्थ्यङ्किकाभाजमलं कुमारंप्रस्वापयन्त्योऽखिलगोपकन्याः ।जगुः प्रबन्धं स्वरतालबन्धंगोविन्द दामोदर माधवेति ॥ रामानुजं वीक्षणकेलिलोलंगोपी गृहीत्वा नवनीतगोलम् ।आबालकं बालकमाजुहावगोविन्द दामोदर माधवेति ॥ विचित्रवर्णाभरणाभिरामे-ऽभिधेहि वक्त्राम्बुजराजहंसि ।सदा मदीये रसनेऽग्ररङ्गेगोविन्द दामोदर माघवेति ॥ अङ्काधिरूढं शिशुगोपगूढंस्तनं धयन्तं कमलैककान्तम् ।सम्बोधयामास मुदा यशोदागोविन्द दामोदर माधवेति ॥ क्रीडन्तमन्तर्व्रजमात्मजं स्वंसमं वयस्यैः पशुपालबालैः ।प्रेम्णा यशोदा प्रजुहाव कृष्णंगोबिन्द दामोदर माधवेति ॥ यशोदया गाढमुलूखलेनगोकण्ठपाशेन निबध्यमानः ।रुरोद मन्दं नवनीतभोजीगोविन्द दामोदर माधवेति ॥ निजाङ्गने कङ्कणकेलिलोलंगोपी गृहीत्वा नवनीतगोलम् ।आमर्दयत्पाणितलेन नेत्रेगोविन्द दामोदर माधवेति ॥ गृहे गृहे गोपवधूकदम्बा:सर्वे मिलित्वा समवाययोगे ।पुण्यानि नामानि पठन्ति नित्यंगोविन्द दामोदर माधवेति ॥ मन्दारमूले वदनाभिरामंविम्बाघरे पूरितवेणुनादम् ।गोगोपगोपीजनमध्यसंस्थंगोविन्द दामोदर माधवेति ॥ उत्थाय गोप्योऽपररात्रभागेस्मृत्वा यशोदासुतबालकेलिम् ।गायन्ति प्रोच्चैर्दधि मन्थयन्त्योगोविन्द दामोदर माधवेति ॥ जग्धोऽथ दत्तो नवनीतपिण्डोगृहे यशोदा विचिकित्सयन्ती ।उवाच सत्यं वद हे मुरारेगोविन्द दामोदर माधवेति ॥ अभ्यर्च्य गेहं युवतिः प्रवृद्ध-प्रेमप्रवाहा दधि निर्ममन्थ ।गायन्ति गोप्योऽथ सखीसमेतागोविन्द दामोदर माधवेति ॥ क्वचित् प्रभाते दधिपूर्णपात्रेनिक्षिप्य मन्थं युवती मुकुन्दम् ।आलोक्य गानं विविधं करोतिगोविन्द दामोदर माधवेति ॥ क्रीडापरं भोजनमजनार्थहितैषिणी स्त्री तनुजं यशोदा ।आजूहवत् प्रेमपरिप्लुताक्षीगोविन्द दामोदर माधवेति ॥ सुखं शयानं निलये च विष्णुंदेवर्षिमुख्या मुनयः प्रपन्नाः ।तेनाच्युते तन्मयतां व्रजन्तिगोविन्द दामोदर माधवेति ॥ विहाय निद्रामरुणोदये चविधाय कृत्यानि च विप्रमुख्याः ।वेदावसाने प्रपठन्ति नित्यंगोविन्द दामोदर माधवेति ॥ वृन्दावने गोपगणाश्च गोप्योविलोक्य गोविन्दवियोगखिन्नाम् ।राधां जगुः साश्रुविलोचनाभ्यांगोविन्द दामोदर माधवेति ॥ प्रभातसञ्चारगता नु गाव-स्तद्ररक्षणार्थं तनयं यशोदा ।प्राबोधयत् पाणितलेन मन्दंगोविन्द दामोदर माधवेति ॥ प्रबालशोभा इव दीर्घकेशावाताम्बुपर्णाशनपूतदेहाः ।मूले तरूणां मुनयः पठन्तिगोविन्द दामोदर माधवेति ॥ एवं ब्रुवाणा विरहातुरा भृशंव्रजस्त्रियः कृष्णविषक्तमानसाः ।विसृज्य लज्जां रुरुदुः स्म सुस्वरंगोविन्द दामोदर माधवेति ॥ गोपी कदाचिन्मणिपिञ्जरस्थंशुकं वचो वाचयितुं प्रवृत्ता ।आनन्दकन्द व्रजचन्द्र कृष्णगोविन्द दामोदर माधवेति ॥ गोवत्सबालैः शिशुकाकपक्षंबध्नन्तमम्भोजदलायताक्षम् ।उवाच माता चिबुकं गृहीत्वागोविन्द दामोदर माधवेति ॥ प्रभातकाले वरवल्लवौघागोरक्षणार्थं धृतवेत्रदण्डाः ।आकारयामासुरनन्तमाद्यंगोविन्द दामोदर माधवेति ॥ जलाशये कालियमर्दनाययदा कदम्बादपतन्मुरारिः ।गोपाङ्गनाश्चुक्रुशुरेत्य गोपागोविन्द दामोदर माधवेति ॥ अक्रूरमासाद्य यदा मुकुन्द-श्चापोत्सवार्थं मथुरां प्रविष्टः ।तदा स पौरैर्जयतीत्यभाषिगोविन्द दामोदर माधवेति ॥ कंसस्य दूतेन यदैव नीतौवृन्दावनान्ताद् वसुदेवसूनू ।रुरोद गोपी भवनस्य मध्येगोविन्द दामोदर माधवेति ॥ सरोवरे कालियनागबद्धंशिशुं यशोदातनयं निशम्य ।चक्रुर्लुठन्त्यः पथि गोपबालागोविन्द दामोदर माधवेति ॥ अक्रूरयाने यदुवंशनाथंसंगच्छमानं मथुरां निरीक्ष्य ।ऊचुर्वियोगात् किल गोपबालागोविन्द दामोदर माधवेति ॥ चक्रन्द गोपी नलिनीवनान्तेकृष्णेन हीना कुसुमे शयाना ।प्रफुल्लनीलोत्पललोचनाभ्यांगोविन्द दामोदर माधवेति ॥ मातापितृभ्यां परिवार्यमाणागेहं प्रविष्टा विललाप गोपी।आगत्य मां पालय विश्वनाथगोविन्द दामोदर माधवेति ॥ वृन्दावनस्थं हरिमाशु बुद्ध्वागोपी गता कापि वनं निशायाम् ।तत्राप्यदृष्ट्वाऽतिभयादवोचद्गोविन्द दामोदर माधवेति ॥ सुखं शयाना निलये निजेऽपिनामानि विष्णोः प्रवदन्ति मर्त्याः ।ते निश्चितं तन्मयतां व्रजन्तिगोविन्द दामोदर माधवेति ॥ सा नीरजाक्षीमवलोक्य राधांरुरोद गोविन्दवियोगखिन्नाम् ।सखी प्रफुल्लोत्पललोचनाभ्यांगोविन्द दामोदर माधवेति ॥ जिह्वे रसज्ञे मधुरप्रिया त्वंसत्यं हितं त्वां परमं वदामि ।आवर्णयेथा मधुराक्षराणिगोविन्द दामोदर माधवेति ॥ आत्यन्तिकव्याधिहरं जनानांचिकित्सकं वेदविदो वदन्ति ।संसारतापत्रयनाशबीजंगोविन्द दामोदर माधवेति ॥ ताताज्ञया गच्छति रामचन्द्रेसलक्ष्मणेऽरण्यचये ससीते ।चक्रन्द रामस्य निजा जनित्रीगोविन्द दामोदर माधवेति ॥ [^*] एकाकिनी दण्डककाननान्तात्सा नीयमाना दशकन्धरेण ।सीता तदाक्रन्ददनन्यनाथागोविन्द दामोदर माधवेति ॥ [^*] रामाद्वियुक्ता जनकात्मजा साविचिन्तयन्ती हृदि रामरूपम् ।रुरोद सीता रघुनाथ पाहिगोविन्द दामोदर माधवेति ॥ [^*] प्रसीद विष्णो रघुवंशनाथसुरासुराणां सुखदुःखहेतो ।रुरोद सीता तु समुद्रमध्येगोविन्द दामोदर माधवेति ॥ [^*] अन्तर्जले ग्राहगृहीतपादोविसृष्टविक्लिष्टसमस्तबन्धुः ।तदा गजेन्द्रो नितरां जगादगोविन्द दामोदर माधवेति ॥ हंसध्वजः शङ्खयुतो ददर्शपुत्रं कटाहे प्रतपन्तमेनम् ।पुण्यानि नामानि हरेर्जपन्तंगोविन्द दामोदर माधवेति ॥ दुर्वाससो वाक्यमुपेत्य कृष्णासा चाब्रवीत् काननवासिनीशम् ।अन्तःप्रविष्टं मनसाजुहावगोविन्द दामोदर माधवेति ॥ ध्येयः सदा योगिभिरप्रमेयःचिन्ताहरश्चिन्तितपारिजातः ।कस्तूरिकाकल्पितनीलवर्णोगोविन्द दामोदर माधवेति ॥ संसारकूपे पतितोऽत्यगाधेमोहान्धपूर्ण विषयाभितप्ते ।करावलम्बं मम देहि विष्णोगोविन्द दामोदर माधवेति॥ त्वामेव याचे मम देहि जिह्वेसमागते दण्डधरे कृतान्ते ।वक्तव्यमेवं मधुरं सुभक्त्यागोविन्द दामोदर माधवेति ॥ भजस्व मन्त्रं भवबन्धमुक्त्यैजिह्वे रसज्ञे सुलभं मनोज्ञम् ।द्वैपायनाद्यैर्मुनिभिः प्रजप्तंगोविन्द दामोदर माधवेति ॥ गोपाल वंशीधर रूपसिन्धोलोकेश नारायण दीनबन्धो ।उच्चस्वरैस्त्वं वद सर्वदैवगोविन्द दामोदर माधवेति ॥ जिह्वे सदैवं भज सुन्दराणिनामानि कृष्णस्य मनोहराणि ।समस्तभक्तार्तिविनाशनानिगोविन्द दामोदर माधवेति ॥ गोविन्द गोविन्द हरे मुरारेगोविन्द गोविन्द मुकुन्द कृष्ण ।गोविन्द गोविन्द रथाङ्गपाणेगोविन्द दामोदर माधवेति ॥ सुखावसाने त्विदमेव सारंदुःखावसाने त्विदमेव गेयम् ।देहावसाने त्विदमेव जाप्यंगोविन्द दामोदर माधवेति ॥ दुर्वारवाक्यं परिगृह्य कृष्णामृगीव भीता तु कथं कथश्चित् ।सभां प्रविष्टा मनसाजुहावगोविन्द दामोदर माधवेति ॥ श्रीकृष्ण राधावर गोकुलेशगोपाल गोवर्धन नाथ विष्णो ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ श्रीनाथ विश्वेश्वर विश्वमूर्तेश्रीदेवकीनन्दन दैत्यशत्रो ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ गोपीपते कंसरिपो मुकुन्दलक्ष्मीपते केशव वासुदेव ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ गोपीजनाह्लादकर व्रजेशगोचारणारण्यकृतप्रवेश ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ प्राणेश विश्वम्भर कैटभारेवैकुण्ठ नारायण चक्रपाणे ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ हरे मुरारे मधुसूदनाद्यश्रीराम सीतावर रावणारे ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ श्रीयादवेन्द्राद्रिधराम्बुजाक्षगोगोपगोपीसुखदानदक्ष ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माघवेति ॥ घराभरोत्तारणगोपवेषविहारलीलाकृतबन्धुशेष ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ बकीबकाघासुरधेनुकारेकेशीतृणावर्तविघातदक्ष ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ श्रीजानकीजीवन रामचन्द्रनिशाचरारे भरताग्रजेश ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ नारायणानन्त हरे नृसिंहप्रह्लादबाधाहर हे कृपालो ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ लीलामनुष्याकृतिरामरूपप्रतापदासीकृतसर्वभूप ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ श्रीकृष्ण गोविन्द हरे मुरारेहे नाथ नारायण वासुदेव ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ वक्तुं समर्थोऽपि न वक्ति कश्चि-दहो जनानां व्यसनाभिमुख्यम् ।जिह्वे पिबस्वामृतमेतदेवगोविन्द दामोदर माधवेति ॥ × (choose dictionary) ▼ Sanskrit-English Apte (1890) Monier-Williams (1899) Shabdasagara (1900) Sanskrit-Sanskrit Vācaspatyam (1873) Śabdakalpadrumaḥ (1886) Koshas Amarakosha Sanskrit-Hindi Apte Sanskrit-Hindi Kosh (1966) Sanskrit-Kannada Shabdarthakaustubha