गोपीचन्दनोपनिषत्

This text does not support clickable word meanings.

ॐ नमस्कृत्य भगवन्तं नारदः सर्वेश्वरं वासुदेवं पप्रच्छ । श्रीभगवन् ऊर्ध्वपुण्ड्रविधिं द्रव्यमन्त्रस्थलादिसहितं मे ब्रूहीति । तं होवाच भगवान् वासुदेवो वैकुण्ठस्थानोद्भवं मम प्रीतिकरं मद्भक्तैर्ब्रह्मादिभिर्धारितं विष्णुचन्दनं वैकुण्ठस्थानादाहृत्य द्वारकायां मया प्रतिष्ठितं चन्दनं कुङ्कुमादिसहितंविष्णुचन्दनं ममाङ्गे प्रतिदिनमालिप्तं गोपीभिः प्रक्षालनात् गोपीचन्दनमाख्यातं मदङ्गलेपनं पुण्यं चक्रतीर्थान्तःस्थितं चक्रसमायुक्तं पीतवर्णM मुक्तिसाधनं भवति ॥ अथ गोपीचन्दनं नमस्कृत्योद्धृत्य,
गोपीचन्दन पापघ्न विष्णुदेहसमुद्भव ।चक्राङ्कित नमस्तुभ्यं धारणान्मुक्तिदो भव ॥
इति प्रार्थनम् । "इमम्मे गङ्गे" इति जलमादाय, "विष्णोर्नुकं" इति मर्दयेत् । "अतो देवा अवन्तु नः" इत्येताभिर्ऋग्भिर्विष्णुगायत्र्या त्रिवारमभिमन्त्रय,
शंखचक्रगदापाणे द्वारकानिलयाच्युत ।गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागतम् ॥
इति मां ध्यात्वा, गृहस्थो ललाटादिस्थलेष्वनामिकाङ्गुल्या विष्णुगायत्र्या केशवादिद्वादशनामभिर्वा धारयेत् । ब्रह्मचारी वानप्रस्थो ललाटकण्ठहृदयबाहुमूलेषु वैष्णवगायत्र्या कृष्णादिपञ्चनाभिर्वा धारयेत् । यतिस्तर्जन्या शिरोललाटहृदयेषु प्रणवेन धारयेत् । ब्रह्मादयस्त्रयो मूर्तयस्तिस्रो व्याहृतयस्त्रीणि छन्दांसि त्रयो लोकाः त्रयो वेदास्त्रयः स्वराः त्रयोऽग्नयो ज्योतिष्मन्तस्त्रयः कालास्तिस्रोऽवस्थास्त्रय आत्मानः पुण्ड्रास्त्रयः ऊर्ध्वाः अकारोकारमकाराः एते सर्वे प्रणवमयोर्ध्वपुण्ड्रलयात्मकास्तदेतदोमित्येकधा समभवन् । परमहंसो ललाटे प्रणवेनैकमूर्ध्वपुण्ड्रं वा धारयेत् । तत्र दीपप्रकाशं स्वमात्मानं परं ब्रह्मैवाहमस्मीति भावयन् योगी मत्सायुज्यमवाप्नोति ॥
अथान्यो हृदयस्योर्ध्वं पुण्ड्रं मध्ये बहुहृदयकमलमध्ये वा स्वमात्मानं भावयेत् ॥
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिता ।
गोपी का । का नाम संरक्षणी । कुतः संरक्षणी । लोकस्य नरकात् मृत्योर्महाभयाच्च संरक्षणी । चन्दनं तुष्टिकरणम् । किं तुष्टिकरणम् । ब्रह्मानन्दकारणम् । य एवं विद्वानेतदाख्यापयेत् । य एतच्च धारयेद्गोपीचन्दनमृत्तिकानिरुक्त्यानि (?) धारणमात्रेण च ब्रह्मलोके महीयते ब्रह्मलोके महीयत इति ॥
गोप्यो नाम विष्णुपत्न्यस्तासां चन्दनं आह्लादनम् । कश्चाह्लाद एष ब्रह्मानन्दरूपः । काश्च विष्णुपत्न्यो गोप्यो नाम जगत्सृष्टिस्थित्यन्तकारिण्यः प्रकृतिमहदहमाद्या महामायाः । कश्च विष्णुः परं ब्रह्मैव विष्णुः । कचाह्लादो गोपीचन्दनसंसक्तमानुषाणां पापसंहरणाच्छुद्धान्तःकरणानां ब्रह्मज्ञानप्राप्तिश्च य एवं वेद । इत्युपनिषत् ॥
गोपीत्यग्र उच्यताम् । चन्दनं तु ततः पश्चात् । गोपीत्यक्षरद्वयम् । चन्दनं त्र्यक्षरम् । तस्मादक्षरपञ्चकम् । य एवं विद्वान् गोपीचन्दनं धारयेदक्षयं पदमाप्नोति । पंचत्वं न स पश्यति । ततोऽमृतत्वमश्नुत इति । अथ मायाशबलितब्रह्मासीत्ततश्च महदाद्या ब्रह्मणो महामायासंमीलनात् पंचभूतेषु गन्धवती पृथिव्यासीत् । पृथिव्याश्च वैभवाणवभेदाः पीतवर्णा मृदो जायन्ते । लोकानुग्रहार्थं मायासहितं ब्रह्म संभोगवशादस्य चन्दनस्य वैभवं य एवं विद्वान् यतिहस्ते दद्यादनुग्रहार्थं मायापल्लवः सर्वमायुरेति ॥ ततः प्राजापत्यं रायस्पोषं गौपत्यं यच्च एतद्रहस्यं सायंप्रातर्ध्यायेदहोरात्रकृतं पापं नाशयति मृतो मोक्षमश्नुते मृतो मोक्षमश्नुत इति ॥
गोपीचन्दनपङ्केन ललाटं यस्तु लेपयेत् ।एकदण्डी त्रिदण्डी वा स वै मोक्षं समश्नुते ॥ १ ॥
गोपीचन्दनलिप्ताङ्गो यं यं पश्यति चक्षुषा ।तं तं पूतं विजानीयाद्राजभिः सत्कृतो भवेत् ॥ २ ॥
ब्रह्मघ्नश्च कृतघ्नश्च गोघ्नश्च गुरुतल्पगः ।तेषां पापानि नश्यन्ति गोपीचन्दनधारणात् ॥ ३ ॥
गोपीचन्दनलिप्ताङ्गो म्रियते यत्र कुत्रचित् ।अभिव्याप्यायतो भूत्वा देवेन्द्रदमनुते ॥ ४ ॥
गोपीचन्दनलिप्ताङ्गं पुरुषं य उपासते ।एवं ब्रह्मादयो देवाः सन्मुखास्तमुपासते ॥ ५ ॥
गोपीचन्दनलिप्ताङ्गः पुरुषो येन पूज्यते ।विष्णुपूजितभूतित्वाद्विष्णुलोके महीयते ॥ ६ ॥
सदाचारः शुभाकल्पो मिताहारो जितेन्द्रियः ।गोपीचन्दनलिप्ताङ्गः साक्षाद्विष्णुमयो भवेत् ॥ ७ ॥
गोपीचन्दनलिप्ताङ्गो व्रतं यस्तु समाचरेत् ।ततः कोटिगुणं पुण्यमित्येवं मनुरब्रवीत् ॥ ८ ॥
गीपीचन्दनलिप्ताङ्गैर्जपदानादिकं कृतम् ।न्यूनं संपूर्णतां याति विधानेन विशेषतः ॥ ९ ॥
गोपीचन्दनमायुष्यं बलारोग्यविवर्धनम् ।कामदं मोक्षदं चैव इत्येवं मुनयोऽब्रुवन् ॥ १० ॥
अग्निष्टोमसहस्राणि वाजपेयशतानि च ।तेषां पुण्यमवाप्नोति गोपीचन्दनधारणात् ॥ ११ ॥
गोपीचन्दनदानस्य चाश्वमेधसमं फलम् ।न गङ्गया समं तीर्थं न शुद्धिर्गोपिचन्दनात् ॥ १२ ॥
बहुनात्र किमुक्तेन गोपीचन्दनमण्डनम् ।न तत्तुल्यं भवेल्लोके नात्र कार्या विचारणा ॥ १३ ॥
चन्दनं वापि गोपीनां केलिकुङ्कुमसम्भवम् ।मण्डनात् पावनं नॄणां भुक्तिमुक्तिफलप्रदम् ॥ १४ ॥
कृष्णगोपीरतोद्भूतं पापघ्नं गोपिचन्दनम् ।तत्प्रदानात्सर्ववेदचतुर्वर्गफलप्रदम् ॥ १५ ॥
तिलमात्रप्रदानेन काञ्चनाद्रिसमं फलम् ।कुङ्कुमं कृष्णगोपीनां जलक्रीडासु संभृतम् ॥ १६ ॥
गोपीचन्दनमित्युक्तं द्वारवत्यां सुरेश्वरैः ।कृष्णगोपीजलक्रीडाकुङ्कुमं चन्दनैर्युतम् ॥ १७ ॥
तिलमात्रं प्रदायेदं पुनात्यादशमं कुलम् ।गोपीचन्दनखण्डं तु चक्राकारं सुलक्षणम् ।विष्णुरूपमिदं पुण्यं पावनं पीतवर्णकम् ॥ १८ ॥
आपो ह वाग्रे आसन् । तत्र प्रजापतिर्वायुर्भूत्वाश्राम्यतेदं सृजेयमिति । स तपोऽतप्यत । तत ओङ्कारमपश्यत्ततो व्याहृतीस्ततो गायत्री गायत्र्या वेदास्तैरिदमसृजत् । धूममार्गविसृतं हि वेदार्थमभिसन्धाय चतुर्दश लोकानसृजत् । तत उपनिषदः श्रुतय: आविर्बभूवुः । अर्चिर्मार्गविसृतं वेदार्थमभिसन्धाय सर्वान् वेदान् सरहस्योपनिषदङ्गान् ब्रह्मलोके स्थापयामास । स एताश्चोपनिषद्वैवस्वतेन्तरे सगुणं ब्रह्म विधिनानन्दैकरूपं पुरुषोत्तमरूपेण मथुरायां वसुदेवसद्मन्याविर्भविष्यति । तत्रभवत्यः सर्वलोकैः कृष्णसौन्दर्यं क्रीडाभोगागोपिकास्वरूपैः परब्रह्मानन्दैकरूपं कृष्णं भजिष्यथ । तत्र श्लोकौ ---
इति ब्रह्मवरं लब्ध्वा श्रुतयो ब्रह्मलोकगाः ।कृष्णमाराधयामासुर्गोकुले धर्मसंकुले ॥
श्रीकृष्णाख्यपरं ब्रह्म गोपिकाः श्रुतयोऽभवन् ।एतत्संभोगसंभूतं चन्दनं गोपिचन्दनम् । इति ॥
इत्यथर्ववेदोक्तगोपीचन्दनोपनिषत् समाप्ता