द्वादशलिङ्गस्तोत्रम्

सौराष्ट्रदेशे वसुधावकाशेज्योतिर्मयं चन्द्रकलावतंसम् ।भक्तिप्रदानाय कृतावतारंतं सोमनाथं शरणं प्रपद्ये ॥ १ ॥
श्रीशैलशृङ्गे विविधप्रसङ्गेशेषाद्रिशृङ्गेऽपि सदा वसन्तम् ।तमर्जुनं मल्लिकपूर्वमेनंनमामि संसारसमुद्रसेतुम् ॥ २ ॥
अवन्तिकायां विहितावतारंमुक्तिप्रदानाय च सज्जनानाम् ।अकालमृत्योः परिरक्षणार्थंवन्दे महाकालमहं सुरेशम् ॥ ३ ॥
कावेरिकानर्मदयोः पवित्रेसमागमे सज्जनतारणाय ।सदैव मान्धातृपुरे वसन्त-मोंकारमीशं शिवमेकमीडे॥ ४ ॥
पूर्वोत्तरे पारलिकाभिधानेसदाशिवं तं गिरिजासमेतम् ।सुरासुराराधितपादपद्मंश्रीवैद्यनाथं सततं नमामि ॥ ५ ॥
आमर्दसंज्ञे नगरे च रम्येविभूषिताङ्गं विविधैश्च भोगैः ।सद्भुक्तिमुक्तिप्रदमीशमेकंश्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥
सानन्दमानन्दवने वसन्त-मानन्दकन्दं हतपापवृन्दम् ।वाराणसीनाथमनाथनाथंश्रीविश्वनाथं शरणं प्रपद्ये ॥ ७ ॥
यो डाकिनीशाकिनिकासमाजेनिषेव्यमाणः पिशिताशनैश्च ।सदैव भीमादिपदप्रसिद्धंतं शंकरं भक्तहितं नमामि ॥ ८ ॥
श्रीताम्रपर्णीजलराशियोगेनिबद्ध्य सेतुं निशि बिल्वपत्रैः ।श्रीरामचन्द्रेण समर्चितं तंरामेश्वराख्यं सततं नमामि ॥ ९ ॥
सिंहाद्रिपार्श्वेऽपि तटे रमन्तंगोदावरीतीरपवित्रदेशे ।यद्दर्शनात्पातकजातनाशःप्रजायते त्र्यम्बकमीशमीडे ॥ १० ॥
हिमाद्रिपार्श्वेऽपि तटे रमन्तंसंपूज्यमानं सततं मुनीन्द्रैः ।सुरासुरैर्यक्षमहोरगाद्यैःकेदारसंज्ञं शिवमीशमीडे ॥ ११ ॥
एलापुरीरम्यशिवालयेऽस्मि -न्समुल्लसन्तं त्रिजगद्वरेण्यम् ।वन्दे महोदारतरस्वभावंसदाशिवं तं धिषणेश्वराख्यम् ॥ १२ ॥
एतानि लिङ्गानि सदैव मर्त्याःप्रातः पठन्तोऽमलमानसाश्च ।ते पुत्रपौत्रैश्च धनैरुदारैःसत्कीर्तिभाजः सुखिनो भवन्ति ॥ १३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ द्वादशलिङ्गस्तोत्रं संपूर्णम् ।

Settings