वासुदेवः —भो ! श्रूयतां,कैरातं वपुरास्थितः पशुपतिर्युद्धेन संतोषितोवह्नेः खाण्डवमश्नतः सुमहती वृष्टिः शरैश्छादिता ।देवेन्द्रार्तिकरा निवातकवचा नीताः क्षयं लीलयानन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः ॥ ३२ ॥अपिच, तवापि प्रत्यक्षमपरं कथयामि । ननु त्वं चित्रसेनेन नीयमानो नभस्तलम् ।विक्रोशन् घोषयात्रायां फल्गुनेनैव मोक्षितः ॥ ३३ ॥किं बहुना, दातुमर्हसि मद्वाक्याद् राज्यार्धं धृतराष्ट्रज !अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः ॥ ३४ ॥