दूतवाक्यम्

Click on words to see what they mean.

( नान्द्यन्ते ततः प्रविशति सूत्रधारः । )
सूत्रधारः —पादः पायादुपेन्द्रस्य सर्वलोकोत्सवः स वः ।व्याविद्धो नमुचिर्येन तनुताम्रनखेन खे ॥ १ ॥एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
( नेपथ्य )
भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति ।
सूत्रधारः —भवतु, विज्ञातम् ।उत्पन्ने धार्तराष्ट्राणां विरोधे पाण्डवैः सह ।मन्त्रशालां रचयति भृत्यो दुर्योधनाज्ञया ॥ २ ॥
( निष्क्रान्तः । )
स्थापना ।
( ततः प्रविशति काञ्चुकीयः )
काञ्चुकीयः —भो भोः प्रतिहाराधिकृताः ! महाराजो दुर्योधनः समाज्ञापयति--अद्य सर्वपार्थिवैः सह मन्त्रयितुमिच्छामि । तदाहूयतां सर्वे राजान इति ।( परिक्रम्यावलोक्य ) अये अयं महाराजो दुर्योधन इत एवाभिवर्तते । य एषः,श्यामो युवा सितदुकूलकृतोत्तरीयःसच्च्छत्रचामरवरो रचिताङ्गरागः ।श्रीमान् विभूषणमणिद्युतिरञ्जिताङ्गोनक्षत्रमध्य इव पर्वगतः शशाङ्कः ॥ ३ ॥
( ततः प्रविशति यथानिर्दिष्टो दुर्योधनः । )
दुर्योधनः —उद्भूतरोषमिव मे हृदयं सहर्षंप्राप्तं रणोत्सवमिमं सहसा विचिन्त्य ।इच्छामि पाण्डवबले वरणारणाना-मुत्कृत्तदन्तमुसलानि मुखानि कर्तुम् ॥ ४ ॥
काञ्चुकीयः —जयतु महाराजः । महाराजशासनात् समानीतं सर्वराजमण्डलम् ।
दुर्योधनः —सम्यक् कृतम् । प्रविश त्वमवरोधनम् ।
कान्चुकीयः —यदाज्ञापयति महाराजः ।( निष्क्रान्तः । )
दुर्योधनः —आर्यौ वैकर्णवर्षदेवौ! उच्यताम्--अस्ति ममैकादशाक्षौहिणीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हति । किं किमाहतुर्भवन्ती -- महान खल्वयमर्थः । मन्त्रयित्वा वक्तव्यमिति । सदृशमेतत् । तदागम्यतां मन्त्रशालामेव प्रविशामः । आचार्य अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । पितामह ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । मातुल ! अभिवादये । प्रविशतु भवान् मन्त्रशालाम् । आर्यौ वैकर्णवर्षदेवौ! प्रविशतां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरं प्रविशन्तु भवन्तः । वयस्य ! कर्ण ! प्रविशामस्तावत् ।
( प्रविश्य )
आचार्य ! एतत् कूर्मासनम्, आस्यताम् । पितामह ! एतत् सिंहासनम्, आस्यताम् । मातुल ! एतच्चर्मासनम्, आस्यताम् । आर्यौवैकर्णवर्षदेवौ! आसातां भवन्तौ । भो भोः सर्वक्षत्रियाः ! स्वैरमासतां भवन्तः । किमिति किमिति महाराजो नास्त इति । अहो सेवाधर्मः । नन्वयमहमासे । वयस्य कर्ण ! त्वमप्यास्स्व । ( उपविश्य ) आर्यौ वैकर्णवर्षदेवौ! उच्यताम् अस्ति ममैकादशाक्षौहिणीबलसमुदयः । अस्य कः सेनापतिर्भवितुमर्हतीति कः सेनापतिर्भवितुमर्हतीति । किमाहतुर्भवन्तौ -- अत्रभवान् गान्धारराजो वक्ष्यतीति । भवतु, मातुलेनाभिधीयताम् । किमाह मातुलः - अत्रभवति गाङ्गेये स्थिते कोऽन्यः सेनापतिर्भवितुमर्हतीति । सम्यगाह मातुलः । भवतु भवतु, पितामह एव भवतु । वयमप्येतदभिलषामः ।
सेनानिनादपटहस्वनशङ्खनादै-श्चण्डानिलाहतमहोदधिनादकल्पैः ।गाङ्गेयमूर्ध्नि पतितैरभिषेकतोयैःसार्धं पतन्तु हृदयानि नराधिपानाम् ॥ ५ ॥
( प्रविश्य )
काञ्चुकीयः —जयतु महाराजः । एष खलु पाण्डवस्कन्धावाराद् दौत्येनागतः पुरुषोत्तमो नारायणः ।
दुर्योधनः —मा तावद् भो बादरायण ! । किं किं कंसभृत्यो दामोदरस्तव पुरुषोत्तमः । स गोपालकस्तव पुरुषोत्तमः । बार्हद्रथापहृतविषयकीर्तिभोगस्तव पुरुषोत्तमः । अहो पार्थिवासन्नमाश्रितस्य भृत्यजनस्य समुदाचारः । सगर्वं खल्वस्य वचनम् । आ अपध्वंस ।
काञ्चुकीयः —प्रसीदतु महाराजः । संभ्रमेण समुदाचारो विस्मृतः ।( पादयोः पतति । )
दुर्योधनः —संभ्रम इति । आ मनुष्याणामस्त्येव संभ्रमः । उत्तिष्ठोत्तिष्ठ ।
कान्न्चुकीयः —अनुगृहीतोऽस्मि ।
दुर्योधनः —इदानीं प्रसन्नोऽस्मि । क एष दूतः प्राप्तः ।
काञ्चुकीयः —दूतः प्राप्तः केशवः ।
दुर्योधनः —केशव इति । एवमेष्टव्यम् । अयमेव समुदाचारः । भो भो राजानः ! दौत्येनागतस्य केशवस्य किं युक्तम् । किमाहुर्भवन्तःअर्घ्यप्रदानेन पूजयितव्यः केशव इति । न मे रोचते । ग्रहणमस्यात्र हितं पश्यामि ।ग्रहणमुपगते तु वासुभद्रेहृतनयना इव पाण्डवा भवेयुः ।गतिमतिरहितेषु पाण्डवेषुक्षितिरखिलापि भवेन्ममासपत्ना ॥ ६ ॥अपिच योऽत्र केशवस्य प्रत्युत्थाम्यति, स मया द्वादशसुवर्णभारेण दण्ड्यः । तदप्रमत्ता भवन्तु भवन्तः । कोनुखलु ममाप्रत्युत्थानम्योपायः । हन्त दृष्ट उपायः । बादरायण ! आनीयतां स चित्रपटो ननु, यत्र द्रौपदीकेशाम्बरावकर्षणमालिखितम् । ( अपवार्य ) तस्मिन् दृष्टिविन्यासं कुर्वन् नोत्थास्यामि केशवस्य ।
काञ्चुकीयः —यदाज्ञापयति महाराजः ।
दुर्योधनः —ममाग्रतः प्रसारय ।
काञ्चुकीयः —यदाज्ञापयति महाराजः ।( प्रसारयति । )
दुर्योधनः —अहो दर्शनीयोऽयं चित्रपटः । एष दुःशासनो द्रौपदीं केशहस्ते गृहीतवान् । एषा खलु द्रौपदी,दुःशासनपरामृष्टा सम्भ्रमोत्फुल्ललोचना ।राहुवक्त्रान्तरगता चन्द्रलेखेव शोभते ॥ ७ ॥एष दुरात्मा भीमः सर्वराजसमक्षमवमानितां द्रौपदीं दृष्ट्वा प्रवृद्धामर्षः सभास्तम्भं तुलयति । एष युधिष्ठिरः, सत्यधर्मघृणायुक्तो द्यूतविभ्रष्टचेतनः ।करोत्यपाङ्गविक्षेपैः शान्तामर्षं वृकोदरम् ॥ ८ ॥एष इदानीमर्जुनः, रोषाकुलाक्षः स्फुरिताधरोष्ठ-स्तृणाय मत्वा रिपुमण्डलं तत् ।उत्सादयिष्यन्निव सर्वराज्ञःशनैः समाकर्षति गाण्डिवज्याम् ॥ ९ ॥एष युधिष्ठिरोऽर्जुनं निवारयति । एतौ नकुलसहदेवौ, कृतपरिकरबन्धी चर्मनिस्त्रिंशहस्तीपरुषितमुखरागी स्पष्टदष्टाधरोष्ठौ ।विगतमरणशङ्कौ सत्वरं भ्रातरं मेहरिमिव मृगपोती तेजसाभिप्रयातौ ॥ १० ॥एप युधिष्ठिरः कुमारावुपेत्य निवारयति - नीचोऽहमेव विपरीतमतिः कथं वारोषं परित्यजतमद्य नयानयज्ञौ ।द्यूताधिकारमवमानममृष्यमाणाःसत्वाधिकेषु वचनीयपराक्रमाः स्युः ॥ ११ ॥इति । एष गान्धारराजः, अक्षान् क्षिपन् सकितवं प्रहसन् सगर्वंसङ्कोचयन्निव मुदं द्विषतां स्वकीर्त्त्या ।स्वैरासनो द्रुपदराजसुतां रुदन्तींकाक्षेण पश्यति लिखत्यभिखां नयज्ञः ॥ १२ ॥एतावाचार्यपितामहौ तां दृष्ट्वा लज्जायमानौ पटान्तान्तर्हितमुखौस्थितौ । अहो अस्य वर्णाढ्यता । अहो भावोपपन्नता । अहो युक्तलेखता । सुव्यक्तमालिखितोऽयं चित्रपटः । प्रीतोऽस्मि । कोऽत्र ।
काञ्चुकीयः —जयतु महाराजः ।
दुर्योधनः —बादरायण ! आनीयतां स विहगवाहनमात्रविस्मितो दूतः ।
काञ्चुकीयः —यदाज्ञापयति महाराजः ।( निष्क्रान्त: )
दुर्योधनः —वयस्य कर्ण !प्राप्तः किलाद्य वचनादिह पाण्डवानांदौत्येन भृत्य इव कृष्णमतिः स कृष्णः ।श्रोतुं सखे ! त्वमपि सज्जय कर्ण ! कर्णौनारीमृदूनि वचनानि युधिष्ठिरस्य ॥ १३ ॥
( ततः प्रविशति वासुदेवः काञ्चुकीयश्च । )
वासुदेवः —अद्य खलु धर्मराजवचनाद् धनञ्जयाकृत्रिममित्रतया चाहवदर्पमनुक्तप्राहिणं सुयोधनं प्रति मयाप्यनुचितदौत्यसमयोऽ नुष्ठितः । अथच,कृष्णा पराभवभुवा रिपुवाहिनीभ-कुम्भस्थलीदलनतीक्ष्णगदाधरस्य ।भीमस्य कोपशिखिना युधि पार्थपत्त्रि-चण्डानिलैश्च कुरुवंशवनं विनष्टम् ॥ १४ ॥इदं सुयोधनशिबिरम् । इह हि, आवासाः पार्थिवानां सुरपुरसदृशाः स्वच्छन्दविहिताविस्तीर्णाः शस्त्रशाला बहुविधकरणैः शस्त्रैरुपचिताः ।हेषन्ते मन्दुरास्थास्तुरगवरघटा बृंहन्ति करिणऐश्वर्यं स्फीतमेतत् स्वजनपरिभवादासन्नविलयम् ॥ १५ ॥भोः! दुष्टवादी गुणद्वेषी शठः स्वजननिर्दयः ।सुयोधनो हि मां दृष्ट्वा नैव कार्यं करिष्यति ॥ १६ ॥भो बादरायण ! किं प्रवेष्टव्यम् ।
काञ्चुकीयः —अथकिमथकिम् । प्रवेष्टुमर्हति पद्मनाभः ।
वासुदेवः —( प्रविश्य ) कथं कथं मां दृष्ट्रा संभ्रान्ताः सर्वक्षत्रियाः । अलमलं संभ्रमेण । स्वैरमासतां भवन्तः ।
दुर्योधनः —कथं कथं केशवं दृष्ट्वा संभ्रान्ताः सर्वक्षत्रियाः । अलमलं संभ्रमेण । स्मरणीयः पूर्वमाश्रावितो दण्डः । नन्वहमाज्ञप्ता ।
वासुदेवः —भोः सुयोधन ! किमास्से ।
दुर्योधनः —( आसनात् पतित्वा आत्मगतम् ) सुव्यक्तं प्राप्त एव केशवः ।उत्साहेन मतिं कृत्वाप्यासीनोऽस्मि समाहितः ।केशवस्य प्रभावेन चलितोऽस्म्यासनादहम् ॥ १७ ॥
( प्रकाशम् ) —भो दूत ! एतदासनमास्यताम् ।
वासुदेवः —आचार्य ! आस्यताम् । गाङ्गेयप्रमुखा राजानः ! स्वैरमासतां भवन्तः । वयमप्युपविशामः ।( उपविश्य ) अहो दर्शनीयोऽयं चित्रपटः । मा तावत् । द्रौपदीकेशधर्षणमत्रालिखितम् । अहोतुखलु,सुयोधनोऽयं स्वजनावमानं पराक्रमं पश्यति बालिशत्वात् ।को नाम लोके स्वयमात्मदोषमुद्धाटयेन्नष्टघृणः सभासु ॥ १८ ॥आः अपनीयतामेष चित्रपटः ।
दुर्योधनः —बादरायण ! अपनीयतां किल चित्रपटः ।
काञ्चुकीयः —यदाज्ञापयति महाराजः ।( अपनयति । )
दुर्योधनः —भो दूत !धर्मात्मजो वायुसुतश्च भीमो भ्रातार्जुनो मे त्रिदशेन्द्रसूनुः ।यमौ च तावश्विसुतौ विनीतौ सर्वे सभृत्याः कुशलोपपन्नाः ॥ १९ ॥
वासुदेवः —सदृशमेतद् गान्धारीपुत्रस्य । अथकिमथकिम् । कुशलिन सर्वे । भवतो राज्ये शरीरे बाह्याभ्यन्तरे च कुशलमनामयं च पृष्ट्वा विज्ञापयन्ति युधिष्ठिरादयः पाण्डवाः--अनुभूतं महद् दुःखं संपूर्णः समयः स च ।अस्माकमपि धर्म्यं यद् दायाद्यं तद् विभज्यताम् ॥ २० ॥इति ।
दुर्योधनः —कथं कथं दायाद्यमिति ।वने पितृव्यो मृगयाप्रसङ्गतः कृतापराधो मुनिशापमाप्तवान् ।तदाप्रभृत्येव स दारनिस्स्पृहः परात्मजानां पितृतां कथं व्रजेत् ॥ २१ ॥
वासुदेवः —पुराविदं भवन्तं पृच्छामि ।विचित्रवीर्यो विषयी विपत्तिं क्षयेण यातः पुनरम्बिकायाम् ।व्यासेन जातो धृतराष्ट्र एष लभेत राज्यं जनकः कथं ते ॥ २२ ॥मा मा भवान् एवं परस्परविरोधविवर्धनेनशीघ्रं भवेत् कुरुकुलं नृप ! नामशेषम् ।तत् कर्तुमर्हति भवानपकृष्य रोषंयत् त्वां युधिष्ठिरमुखाः प्रणयाद् ब्रुवन्ति ॥ २३ ॥
दुर्योधनः —भो दूत ! न जानाति भवान् राज्यव्यवहारम् ।राज्यं नाम नृपात्मजैः सहृदयैर्जित्वा रिपून् भुज्यतेतल्लोके न तु याच्यते न तु पुनर्दीनाय वा दीयते ।काङक्षा चेन्नृपतित्वमाप्तुमचिरान् कुर्वन्तु ते साहसंस्वैरं वा प्रविशन्तु शान्तमतिभिर्जुष्टं शमायाश्रमम् ॥ २४ ॥
वासुदेवः —भो सुयोधन ! अलं बन्धुजने परुषमभिधातुम् ।पुण्यसञ्चयसम्प्राप्तामधिगम्य नृपश्रियम् ।वञ्चयेद् यः सुहृद्बन्धून् स भवेद् विफलश्रमः ॥ २५ ॥
दुर्योधनः —स्यालं तव गुरोर्भूपं कंसं प्रति न ते दया ।कथमस्माकमेवं स्यात् तेषु नित्यापकारिषु ॥ २६ ॥
वासुदेवः —अलं तन्मद्दोषतो ज्ञातुम् ।कृत्वा पुत्रवियोगार्तां बहुशो जननीं मम ।वृद्धं स्वपितरं बद्ध्वा हतोऽयं मृत्युना स्वयम् ॥ २७ ॥
दुर्योधनः —सर्वथा वञ्चितस्त्वया कंसः । अलमात्मस्तवेन । न शौर्यमेतत् । पश्य,जामातृनाशव्यसनाभितप्ते रोषाभिभूते मगधेश्वरेऽथ ।पलायमानस्य भयातुरस्य शौर्यं तदेतत् क्व गतं तवासीत् ॥ २८ ॥
वासुदेवः —भोः सुयोधन ! देशकालावस्थापेक्षितं खलु शौर्यं नयानुगामिनाम् । इह तिष्ठतु तावदस्मद्गतः परिहासः । स्वकार्यमनुष्ठीयताम् ।कर्तव्यो भ्रातृषु स्नेहो विस्मर्तव्या गुणेतराः ।संबन्धोबन्धुभिः श्रेयान् लोकयोरुभयोरपि ॥ २९॥
दुर्योधन: —देवात्मजैर्मनुष्याणां कथं वा बन्धुता भवेत् ।पिष्टपेषणमेतावत् पर्याप्तं छिद्यतां कथा ॥ ३० ॥
वासुदेव: —( आत्मगतम् )प्रसाद्यमानः साम्नायं न स्वभावं विमुञ्चति ।हन्त संक्षोभयाम्येनं वचोभिः परुषाक्षरैः ॥ ३१ ॥( प्रकाशम् ) भोः सुयोधन ! किं न जानीषेऽर्जुनस्य बलपराक्रमम् ।
दुर्योधनः —न जाने ।
वासुदेवः —भो ! श्रूयतां,कैरातं वपुरास्थितः पशुपतिर्युद्धेन संतोषितोवह्नेः खाण्डवमश्नतः सुमहती वृष्टिः शरैश्छादिता ।देवेन्द्रार्तिकरा निवातकवचा नीताः क्षयं लीलयानन्वेकेन तदा विराटनगरे भीष्मादयो निर्जिताः ॥ ३२ ॥अपिच, तवापि प्रत्यक्षमपरं कथयामि । ननु त्वं चित्रसेनेन नीयमानो नभस्तलम् ।विक्रोशन् घोषयात्रायां फल्गुनेनैव मोक्षितः ॥ ३३ ॥किं बहुना, दातुमर्हसि मद्वाक्याद् राज्यार्धं धृतराष्ट्रज !अन्यथा सागरान्तां गां हरिष्यन्ति हि पाण्डवाः ॥ ३४ ॥
दुर्योधनः —कथं कथम् । हरिष्यन्ति हि पाण्डवाः ।प्रहरति यदि युद्धे मारुतो भीमरूपी प्रहरति यदि साक्षात् पार्थरूपेण शक्रः । परुषवचनदक्ष ! त्वद्वचोभिर्न दास्ये तृणमपि पितृभुक्ते वीर्यगुप्ते स्वराज्ये ॥ ३५ ॥
वासुदेवः —भोः कुरुकुलकलङ्कभूत ! अयशोलुब्ध ! वयं किल तृणान्तराभिभापकाः ।
दुर्योधनः —भो गोपालक ! तृणान्तराभिभाष्यो भवान् ।अवध्यां प्रमदां हत्वा हयं गोवृषमेव च ।मल्लानपि सुनिर्लज्जो वक्तुमिच्छसि साधुभिः ॥ ३६ ॥
वासुदेवः —भोः सुयोधन ! ननु क्षिपसि माम् ।
दुर्योधनः —आः, अभाष्यस्त्वम् ।अहमवधृतपाण्डरातपत्रो द्विजवरहस्तधृताम्बुसिक्तमूर्धा । अवनतनृपमण्डलानुयात्रैः सह कथयामि भवद्विधैर्न भाषे ॥३७॥
वासुदेवः —न व्याहरति किल मां सुयोधनः । भोः !शठ ! बान्धवनिःस्नेह ! काक ! केकर ! पिङ्गल ! ।त्वदर्थान् कुरुवंशोऽयमचिरान्नाशमेष्यति ॥ ३८ ॥भो भो राजानः ! गच्छामस्तावत् ।
दुर्योधनः —कथं यास्यति किल केशवः । दुःशासन ! दुर्भर्षण ! दुर्मुख ! दुर्बुद्धे ! दुष्टेश्वर ! दूतसमुदाचारमतिक्रान्तः केशवो बध्यताम् । कथमशक्ताः । दुःशासन ! न समर्थः खल्वसि ।करितुरगनिहन्ता कंसहन्ता स कृष्णःपशुपकुलनिवासादानुजीव्यानभिज्ञः ।हृतभुजबलवीर्यः पार्थिवानां समक्षंस्ववचनकृतदोषो बध्यतामेष शीघ्रम् ॥ ३९ ॥अयमशक्तः । मातुल ! बध्यतामयं केशवः । कथं पराङ्मुखः पतति । भवतु, अहमेव पाशैर्बध्नामि । ( उपसर्पति । )
वासुदेवः —कथं बद्धुकामो मां किल सुयोधनः । भवतु, सुयोधनस्य सामर्थ्यं पश्यामि ।( विश्वरूपमास्थितः । )
दुर्योधनः —भो दूत !सृजसि यदि समन्ताद् देवमायाः स्वमायाःप्रहरसि यदि वा त्वं दुर्निवारैः सुराः ।हयगजवृषभाणां पातनाज्जातदर्पोनरपतिगणमध्ये बध्यसे त्वं मयाद्य ॥ ४० ॥आः तिष्ठेदानीम् । कथं न दृष्टः केशवः । अयं केशवः । अहो ह्रस्वत्वं केशवस्य । आः तिष्ठेदानीम् । कथं न दृष्टः केशवः । अयं केशवः । अहो दीर्घत्वं केशवस्य । कथं न दृष्टः केशवः । अयं केशवः । सर्वत्र मन्त्रशालायां केशवा भवन्ति । किमिदानीं करिष्ये । भवतु, दृष्टम् । भो भो राजानः ! एकेनैकः केशवो बध्यताम् । कथं स्वयमेव पाशैर्बद्धाः पतन्ति राजानः । साधु भो जम्भक ! साधु । मत्कार्मुकोदरविनिःसृतबाणजालै-र्विद्वक्षरत्क्षतजरञ्जितसर्वगात्रम् ।पश्यन्तु पाण्डुतनयाः शिबिरोपनीतं त्वां बाष्परुद्धनयनाः परिनिःश्रमन्तः ॥ ४१ ॥
( निष्क्रान्तः । )
वासुदेवः —भवतु, पाण्डवानां कार्यमहमेव साधयामि । भोः सुदर्शन ! इतस्तावत् ।
( ततः प्रविशति सुदर्शनः । )
सुदर्शनः —एप भोः !श्रुत्वा गिरं भगवतो विपुलप्रसादान्निर्धावितोऽस्मि परिवारिततोयदौघः ! कस्मिन् खलु प्रकुपितः कमलायताक्षः कस्याद्य मूर्धनि मया प्रविजृम्भितव्यम् ॥ ४२ ॥ क्वनुखलु भगवान् नारायणः । अव्यक्तादिरचिन्त्यात्मा लोकसंरक्षणोद्यतः ।एकोऽनेकवपुः श्रीमान् द्विषद्बलनिषूदनः ॥ ४३ ॥( विलोक्य ) अये अयं भगवान् हस्तिनपुरद्वारे दूतसमुदाचारेणोपस्थितः । कुतः खल्वापः कुतः खल्वापः । भगवति आकाशगङ्गे ! आपस्तावन् । हन्त स्रवति । ( आचम्योपसृत्य ) जयतु भगवान् नारायण: । ( प्रणमति । )
वासुदेवः —सुदर्शन ! अप्रतिहतपराक्रमो भव ।
सुदर्शनः —अनुगृहीतोऽस्मि ।
वासुदेव: —दिष्ट्या भवान् कर्मकाले प्राप्तः ।
सुदर्शनः —कथं कथं कर्मकाल इति । आज्ञापयतु भगवानाज्ञापयतु ।किं मेरुमन्दरकुलं परिवर्तयामि संक्षोभयामि सकलं मकरालयं वा । नक्षत्रवंशमखिलं भुवि पातयामि नाशक्यमस्ति मम देव ! तव प्रसादात् ॥ ४४ ॥
वासुदेवः —भोः सुदर्शन ! इतस्तावत् । भोः सुयोधन !यदि लवणजलं वा कन्दरं वा गिरीणांग्रहगणचरितं वा वायुमार्गं प्रयासि ।मम भुजबलयोगप्राप्तसंजातवेगंभवतु चपल ! चक्रं कालचक्रं तवाद्य ॥ ४५ ॥
सुदर्शनः —भोः सुयोधनहतक !( इति पुनर्विचार्य ) प्रसीदतु प्रसीदतु भगवान् नारायणः ।महीभारापनयनं कर्तुं जातस्य भूतले ।अस्मिन्नेव गते देव ! ननु स्याद् विफलः श्रमः ॥ ४६ ॥
वासुदेवः —सुदर्शन ! रोषात् समुदाचारो नावेक्षितः । गम्यतां स्वनिलयमेव ।
सुदर्शनः —यदाज्ञापयति भगवान् नारायणः । कथं कथं गोपालक इति । त्रिचरणातिक्रान्तत्रिलोको नारायणः खल्वत्रभवान् । शरणंव्रजन्तु भवन्तः । यावद् गच्छामि । अये एतद् भगवदायुधवरं शार्ङ्गं प्राप्तम् ।तनुमृदुललिताङ्गं स्त्रीस्वभावोपपन्नंहरिकरधृतमध्यं शत्रुसङ्गैककालः ।कनकवचितपृष्ठं भाति कृष्णस्य पार्श्वेनवसलिलदपार्श्वे चारुविद्युल्लतेव ॥ ४७ ॥भो भोः ! प्रशान्तरोषो भगवान् नारायणः । गम्यतां स्वनिलयमेव । हन्त निवृत्तः । यावद् गच्छामि । अये इयं कौमोदकी प्राप्ता । मणिकनकविचित्रा चित्रमालोत्तरीयासुररिपुगणगान्रध्वंसने जाततृष्णा ।गिरिवरतटरूपा दुर्निवारातिवीर्याव्रजति नभसि शीघ्रं मेघवृन्दानुयात्रा ॥ ४८ ॥हे कौमोदकि ! प्रशान्तरोषो भगवान् नारायणः । हन्त निवृत्ता । यावद् गच्छामि । अये अयं पाञ्चजन्यः प्राप्तः । पूर्णेन्दुकुन्दकुमुदोदरहारगौरोनारायणाननसरोजकृतप्रसादः ।यस्य स्वनं प्रलयसागरघोषतुल्यंगर्भा निशम्य निपतन्त्यसुराङ्गनानाम् ॥ ४९ ॥हे पाञ्चजन्य ! प्रशान्तरोषो भगवान् । गम्यताम् । हन्त निवृत्तः । अये नन्दकासिः प्राप्तः । वनिताविग्रहो युद्धे महासुरभयङ्करः ।प्रयाति गगने शीघ्रं महोल्केव विभात्ययम् ॥ ५० ॥हे नन्दक ! प्रशान्तरोषो भगवान् । गम्यताम् । हन्त निवृत्तः । यावद् गच्छामि । अये एतानि भगवदायुधवराणि । सोऽयं खड्गः खरांशोरपहसिततनुः स्वैः करैर्नन्दकाख्यःसेयं कौमोदकी या सुररिपुकठिनोरःस्थलक्षोददक्षा ।सैषा शार्ङ्गभिधाना प्रलयघनरवज्यारखा चापरेखासोऽयं गम्भीरघोषः शशिकरविशदः शङ्खराट् पाञ्चजन्यः ॥ ५१ ॥हे शार्ङ्ग ! कौमोदकि ! पाञ्चजन्य ! दैत्यान्तकृन्नन्दक ! शत्रुवह्ने ! । प्रशान्तरोषो भगवान् मुरारिः स्वस्थानमेवात्र हि गच्छ तावत् ॥ ५२ ॥ हन्त निवृत्ताः । यावद् गच्छामि । अये अत्युद्भूतो वायुः । अतितपत्यादित्यः । चलिताः पर्वताः । क्षुब्धाः सागराः । पतिताः वृक्षाः । भ्रान्ता मेघाः । प्रलीना वासुकिप्रभृतयो भुजङ्गेश्वराः । किन्नुखल्विदम् । अये अयं भगवतो वाहनो गरुडः प्राप्तः । सुरासुराणां परिखेदलब्धं येनामृतं मातृविमोक्षणार्थम् ।आच्छिन्नमासीद् द्विषतो मुरारेस्त्वामुद्वहामीति वरोऽपि दत्तः ॥ ५३ ॥हे काश्यपप्रियसुत ! गरुड ! प्रशान्तरोषो भगवान् देवदेवेशः । गम्यतां स्वनिलयमेव । हन्त निवृत्तः । यावद् गच्छामि । एते + + + + + + + + + ++ + + संभ्रमचलन्मकुटोत्तमाङ्गाः ।रुष्टेऽच्युते विगतकान्तिगुणाः प्रशान्तंश्रुत्वा श्रयन्ति सदनानि निवृत्ततापाः ॥ ५४ ॥
वासुदेवः —यावदहमपि पाण्डवशिबिरमेव यास्यामि ।( निष्क्रान्तः । )
( नेपथ्ये )
नखलु नखलु गन्तव्यम् ।
वासुदेव: —अये वृद्धराजस्वर इव । भो राजन् ! एप स्थितोऽस्मि
( तत: प्रविशति धृतराष्ट्रः । )
धृतराष्ट्रः —क्वनुखलु भगवान् नारायणः । क्वनुखलु भगवान् पाण्डवश्रेयस्करः । क्वनुखलु भगवान् विप्रप्रियः । क्वनुखलु भगवान् देवकीनन्दनः ।मम पुत्रापराधात् तु शार्ङ्गपाणे ! तवाधुना ।एतन्मे त्रिदशाध्यक्ष ! पादयोः पतितं शिरः ॥ ५५ ॥
वासुदेवः —हा धिक् । पतितोऽत्रभवान् । उतिष्ठोत्तिष्ठ ।
धृतराष्ट्रः —अनुगृहीतोऽस्मि । भगवन! इदमर्घ्यं पाद्यं च प्रतिगृह्यताम् ।
वासुदेवः —सर्वं गृह्णामि । किं ते भूयः प्रियमुपहरामि ।
धृतराष्ट्रः —यदि मे भगवान् प्रसन्नः, किमतःपरमिच्छामि ।
वासुदेवः —गच्छतु भवान् पुनर्दर्शनाय ।
धृतराष्ट्रः —यदाज्ञापयति भगवान् नारायणः ।( निष्क्रान्तः । )
( भरतवाक्यम् )
इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् ।महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ ५६ ॥
( निष्कान्ताः सर्वे )
दूतवाक्यं समाप्तम् ।
« »