दूतघटोत्कचम्

Click on words to see what they mean.

( नान्यन्ते ततः प्रविशति सूत्रधारः । )
सूत्रधारः —नारायणस्त्रिभुवनैकपरायणो वःपायादुपायशतयुक्तिकरः सुराणाम् ।लोकत्रयाविरतनाटकतन्त्रवस्तु-प्रस्तावनप्रतिसमापनसूत्रधारः ॥ १ ॥( परिक्रम्य ) एवमार्यमिश्रान्विज्ञापयामि । अये किं नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते । अङ्ग पश्यामि ।
( नेपथ्ये )
भो भो निवेद्यतां निवेद्यतां तावत् ।
सूत्रधारः —भवतु । विज्ञातम् । एष खलु संशप्तकानीकनिवाहिते जनार्दनसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निपातितः कुमारोऽभिमन्युः । तथाहियान्त्यर्जुनप्रत्यभियानभीतायतोऽर्जुनस्तां दिशमीक्षमाणाः ।नराधिपाः स्वानि निवेशनानिसौभद्रबाणाङ्कितनष्टसंज्ञाः ॥ २ ॥
( निष्क्रान्तः । )
स्थापना ।
( ततः प्रविशति भटः । )
भटः —भो भोः ! निवेद्यतां तावत्पुत्रशतश्लाघ्यबान्धवाय विज्ञानविस्तारितविनयाचारदीर्घचक्षुषे महाराजाय धृतराष्ट्राय । एष खलुयोधस्यन्दनवाजिवारणवधैर्विक्षोभ्य राज्ञां बलं बालेनार्जुनकर्म येन समरे लीलायता दर्शितम् । सौभद्रः स रणे नराधिपशतैर्वेगागतैः सर्वशः खे शक्रस्य पितामहस्य सहसैवोत्सङ्गमारोपितः ॥ ३ ॥
( तत: प्रविशति धृतराष्ट्रो गान्धारी दुःशला प्रतिहारी च । )
धृतराष्ट्रः —कथं नु भोः !केनैतच्छ्रतिपथदूषणं कृतं मे कोऽयं मे प्रियमिति विप्रियं ब्रवीति । कोऽस्माकं शिशुवधपातकाङ्कितानां वंशस्य क्षयमवघोषयत्यभीतः ॥ ४ ॥
गान्धारी —महाराअ ! अत्थि उण जाणीअदि केवळं पुत्तसंखअकाओ कुळविग्गहो भविस्सिदि त्ति ।महाराज ! अस्ति पुनर्ज्ञायते केवलं पुत्रसंक्षयकारकः कुलविग्रहो भविष्यतीति
धृतराष्ट्रः —गान्धारि ! ज्ञायते ।
गान्धारी —महाराअ कदा णु खु ।महाराज कदा नु खलु ।
धृतराष्ट्रः —गान्धारि ! शृणुअद्याभिमन्युनिधनाज्जनितप्रकोपः सामर्षकृष्णधृतरश्मिगुणप्रतोदः । पार्थः करिष्यति तदुग्रधनुःसहायः शान्तिं गमिष्यति विनाशमवाप्य लोकः ॥ ५ ॥
गान्धारी —हा वच्छ अभिमञ्ञो ! ईदिसे वि णाम पुरुसखअकारएकुळविग्गहे वत्तमाणे वाळभावणिमज्जहं अम्हाणं भग्गकमेण करअंतो कहिं दाणिं पोत्तअ ! गदोसि । हा वत्स अभिमन्यो ! ईदृशोऽपि नाम पुरुषक्षयकारके कुलविग्रहे वर्तमाने बालभावनिमज्जनमस्माकं भाग्यक्रमेण कुर्वन् कुत्रेदानीं पौत्रक ! गतोऽसि ।
दुःशलाः —जेण दाणि वहूए उत्तराए वेधव्वं दाइदं, तेण अत्तणो जुवदिजणस्स वेधव्वमादिट्ठं ।येनेदानीं वध्वै उत्तरायै वैधव्यं दत्तं, तेनात्मनो युवतिजनाय वैधव्यमादिष्टम् ।
धृतराष्ट्रः —अथ केनैष व्यसनार्णवस्य सेतुबन्धः कृतः ।
भट: —महाराज ! मया ।
धृतराष्ट्रः —को भवान् ।
भट: —महाराज ! ननु जयत्रातोऽस्मि ।
धृतराष्ट्रः —जयत्रात !केनाभिमन्युर्निहतः कस्य जीवितमप्रियम् ।पञ्चानां पाण्डवाग्नीनां आत्मा केनेन्धनीकृतः ॥ ६ ॥
भटः —महाराज ! बहुभिः किल पार्थिवैः समागतैर्निहतः कुमारोऽभिमन्युः । स्यात्तु जयद्रथो निमित्तभूतः ।
धृतराष्ट्रः —हन्त जयद्रथो निमित्तभूतः ।
भटः —महाराज ! अथ किम् ।धृतराष्ट्रः - हन्त जयद्रथो निहतः ।
( तच्छ्रुत्वा दुःशला रोदिति । )
धृतराष्ट्रः —कैषा रोदिति ।
प्रतीहारी —महाराअ ! भट्टिदारिआ दुश्शळा ।महाराज ! भर्तृदारिका दुःशला ।
धृतराष्ट्रः —वत्से अलमलं रुदितेन । पश्य,भर्तुस्ते नूनमत्यन्तमवैधव्यं न रोचते ।येन गाण्डीवबाणानामात्मा लक्षीकृतः स्वयम् ॥ ७ ॥
दुःशला —तेण हि अणुजागादु मं तादो, अहं वि गमिस्सं बहुए उत्तराए आसं । [ तेन ह्यनुजानातु मां तातः, अहमपि गमिष्यामि वध्वा उत्तरायाः सकाशम् । ]
धृतराष्ट्रः —वत्से किमभिधास्यसि ।
दुःशला —ताद ! एवं च भणिस्सं-अज्जकाळिअं च दे वेसग्गहणं अहं वि उवधारइस्सामिति ।तात ! एवं च भणिष्यामि - अद्यकालिकं च ते वेषग्रहणमहमप्युपधारयिष्यामीति
गान्धारी —पुत्तिए ! माखु मा खु अमंगळं भणाहि । जीवदि खु दे भत्ता ।पुत्रिके ! मा खलु मा खल्वमङ्गलं भण । जीवति खलु ते भर्ता ।
दुःशला —अम्ब ! कुदो मे एत्तिआणि भाअधेआणि । जो जणद्दणसहाअस्स धणंजअस्स विप्पिअं करिअ कोहि णाम जीविस्सिदि ।अम्ब ! कुतो मे एतावन्ति भागधेयानि । यो जनार्दनसहायस्य धनञ्जयस्य विप्रियं कृत्वा को हि नाम जीविष्यति ।
धृतराष्ट्रः —सत्यमाह तपस्विनी दुश्शला । कुतः,कृष्णस्याष्टभुजोपधानरचिते योऽङ्के विवृद्धश्चिरंयो मत्तस्य हलायुधस्य भवति प्रीत्या द्वितीयो मदः ।पार्थानां सुरतुल्यविक्रमवतां स्नेहस्य यो भाजनंतं हत्वा क इहोपलप्स्यति चिरं स्वैर्दुष्कृतैर्जीवितम् ॥ ८ ॥जयत्रात ! अथ तदवस्थं पुत्रं दृष्ट्वा किं प्रतिपन्नं तेन गाण्डीवधन्वना ।
भटः —महाराज ! किं वार्जुनसमीपे वृत्तमेतत् ।
धृतराष्ट्रः —कथमर्जुनोऽपि नात्रासीत् ।
भटः —महाराज ! अथ किम् ।
धृतराष्ट्रः —कथमिदानीं वृत्तमेतत् ।
भटः —श्रूयतां--संशप्तकानीकनिवाहिते जनार्दनसहाये धनंजये स बालभावाददृष्टदोषः संग्राममवतीर्णः कुमारोऽभिमन्युः ।
धृतराष्ट्रः —हन्त युक्तरूपोऽस्य वधः । कोहि संनिहितशार्दूलां गुहां धर्षयितुं शक्तः । अथ शेषाः पाण्डवाः किमनुतिष्ठन्ति ।
भट: —महाराज ! श्रूयताम् ।चितां न तावत्स्वयमस्य देहमारोपयन्त्यर्जुनदर्शनार्थम् ।तेषां च नामान्युपधारयन्ति यैस्तस्य गात्रे प्रहृतं नरेन्द्रैः ॥ ९ ॥
धृतराष्ट्रः —गान्धारि ! तदागम्यताम् । गङ्गाकूलमेव यास्यावः ।
गान्धारी —महाराअ ! णं तहिं गाहामो ।महाराज ! ननु तत्र ३ गाहावहे ।
धृतराष्ट्रः —गान्धारि ! शृणु ।अद्यैव दास्यामि जलं हतेभ्यः स्वेनापराधेन तवात्मजेभ्यः ।न त्वस्मि शक्तः सलिलप्रदानैः कर्तुं नृपाणां शिबिरोपरोधम् ॥ १० ॥
( ततः प्रविशति दुर्योधनो दुःशासनः शकुनिध । )
दुर्योधनः —वत्स दुश्शासन !यातोऽभिमन्युनिधनात् स्थिरतां विरोधःप्राप्तो जयः प्रचलिता रिपवो निरस्ताः ।उन्मूलितोऽस्य च मदो मधुसूदनस्यलब्धो मयाद्य सममभ्युदयेन शब्दः ॥ ११ ॥
दुश्शासन: —अहो तु खलु,रुद्धाः पाण्डुसुता जयद्रथबलेनाक्रम्य, शत्रोर्बलंसौभद्रे विनिपातिते शरशतक्षेपैर्द्वितीयेऽर्जुने ।प्राप्तैश्च व्यसनानि भीष्मपतनादस्माभिरद्याहवेतीव्राः शोकशराः कृताः खलु मनस्येषां सुतोत्सादनात् ॥ १२ ॥
शकुनिः —जयद्रथेनाद्य महत्कृतं रणे नृपैरसंभावितमात्मपौरुषम् ।प्रसह्य तेषां यदनेन संयुगे समं सुतेनाप्रतिमं हृतं यशः ॥ १३ ॥
दुर्योधन: —मातुल ! इतस्तावत् । दुश्शासन ! इतस्तावत् । तत्रभवन्तं तातमभिवादयिष्यामः ।
शकुनिः —वत्स दुर्योधन ! मामैवम् ।कामं न तस्य रुचितः कुलविग्रहोऽय-मस्मांश्च गर्हयति स प्रियपाण्डवत्वात् ।युद्धोत्थितैर्जयमवाप्य हि तुल्यरूपंएवं प्रहृष्टवदनैरभिगन्तुमेनम् ॥ १४ ॥
दुर्योधनः —मातुल ! मा मैवम् । यथा तथा भवतु । तत्रभवन्तं तातमभिवादयिष्यामः ।
उभौ —बाढम् ।( परिक्रामति । )
दुर्योधनः —तात ! दुर्योधनोऽहमभिवादये ।
दुश्शासन: —तात ! दुश्शासनोऽहमभिवादये ।
शकुनिः —शकुनिरहमभिवादये ।
सर्वे —कथमाशीर्वचनं न प्रयुज्यते ।सौभद्रे निहते बाले हृदये कृष्णपार्थयोः ।जीविते निरपेक्षाणां कथमाशीः प्रयुज्यते ॥ १५ ॥
दुर्योधनः —तात ! किंकृतोऽयं संभ्रमः ।
धृतराष्ट्रः —किंकृतोऽयं संभ्रम इति ।एका कुलेऽस्मिन्बहुपुत्रनाथे लब्ध्वा सुता पुत्रशताद्विशिष्टा । सा बान्धवानां भवतां प्रसादाद् वैधव्यमश्लाघ्यमवाप्स्यतीति ॥ १६ ॥
दुर्योधनः —तात ! किं चात्र जयद्रथस्य ।
धृतराष्ट्रः —तेन किल वरविदग्धेन रुद्धाः पाण्डवाः !
दुर्योधनः —आ तेन रुद्धा: । बहुभिः खल्वन्यैः ।
धृतराष्ट्रः —भोः ! कष्टम् ।बहूनां समवेतानामेकस्मिन्निर्घृणात्मनाम् ।बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥ १७ ॥
दुर्योधनः —तात !वृद्धं भीष्मं छलैर्हत्वा तेषांन पतिता भुजाः ।हत्वास्माकं पतिष्यन्ति तमबालपराक्रमम् ॥ १८ ॥
धृतराष्ट्रः —वत्स ! किं भीष्मस्य निपातनमभिमन्योश्च वधः समः ।
दुर्योधनः —तात ! कथं न समः ।
धतराष्ट्रः —पुत्र ! श्रूयताम्,स्वच्छन्दमृत्युर्निहतो हि भीष्मः स्वेनोपदेशेन कृतात्मतुष्टिः ।अयं तु बालः कुरुवंशनाथरिछन्नोऽर्जुनस्य प्रथमः प्रवालः ॥ १९ ॥
दुःशासन: —तात ! बालो न बाल इति । अभिमन्युना,
धृतराष्ट्रः —किं किं दुश्शासनो व्याहरति ।
दुश्शासन: —अथ किम् ।सर्वेषां नः पश्यतां युध्यतां चव्यायामोष्णं गृह्य चापं करेण ।सूर्येणैवाभ्यागतैरंशुजालैःसर्वे बाणैरङ्किता भूमिपालाः ॥ २० ॥
धृतराष्ट्रः —कष्टं भोः !बालेनैकेन तावद्भोः ! सौभद्रेणेदृशं कृतम् । पुत्रव्यसनसन्तप्तः पार्थो वः किं करिष्यति ॥ २१ ॥
दुर्योधनः —किं करिष्यति ।
धृतराष्ट्रः —तत्करिष्यति, यत्सावशेषायुषो द्रक्ष्यथ ।
दुर्योधनः —तात ! कस्तावदर्जुनो नाम ।
धृतराष्ट्रः —पुत्र ! अर्जुनपि न जानीषे ।
दुर्योधनः —तात ! न जाने ।
धृतराष्ट्रः —तेन हि अहमपि न जाने । किन्तु, अर्जुनस्य बलवीर्यज्ञाः बहवः सन्ति । तान् पृच्छ ।
दुर्योधनः —तात ! केऽर्जुनस्य बलवीर्यज्ञा मया प्रष्टव्याः ।
धृतराष्ट्रः —पुत्र ! श्रूयताम् ।शक्रं पृच्छ पुरा निवातकवचप्राणोपहारार्चितंपृच्छास्त्रैः परितोषितं बहुविधैः कैरातरूपं हरम् ।पृच्छाग्निं भुजगाहुतिप्रणयिनं यस्तर्पितः खाण्डवेविद्यारक्षितमद्य येन च जितस्त्वं पृच्छ चित्रांगदम् ॥ २२ ॥
दुर्योधनः —यद्येतद्वीर्यमर्जुनस्य किमस्माकं बले न सन्ति प्रतियोद्धारोऽर्जुनस्य ।
धृतराष्ट्रः —पुत्र ! के ते ।
दुर्योधनः —ननु कर्ण एव तावन् ।
धृतराष्ट्रः —अहो हास्यः खलु तपस्वी कर्णः ।
दुर्योधनः —केन कारणेन ।
धृतराष्ट्रः —श्रूयतां,शक्रापनीतकवचोऽर्धरथः प्रमादीव्याजोपलब्धविफलास्त्रवलो घृणावान ।कर्णोऽर्जुनस्य किल यास्यति तुल्यभावंयद्यस्त्रदानगुरवो दहनेन्द्ररुद्राः ॥ २३ ॥
शकुनिः —प्रभवति भवानस्मानवधीरयितुम् ।
धृतराष्ट्रः —शकुनिरेष व्याहरति । भोः शकुने !त्वया हि यत्कृतं कर्म सततं द्यूतशालिना । तत्कुलस्यास्य वैराग्निर्बालेष्वपि न शाम्यति ॥ २४ ॥
दुर्योधनः —अये,भूमिकम्पः सशब्दोऽयं कुतो नु सहसोत्थितः ।उल्काभिश्च पतन्तीभिः प्रज्वालितमिवाम्बरम् ॥ २५ ॥
धृतराष्ट्रः —पुत्र ! एवं मन्ये,सुव्यक्तं निहतं पौत्रमायस्तचेतसः ।उल्कारूपाः पतन्त्येते महेन्द्रस्याश्रुबिन्दवः ॥ २६ ॥
दुर्योधनः —जयत्रात ! गच्छ पाण्डवशिबिरे शङ्खपटहसिंहनादरवोन्मिश्रः किंकृतोऽयं शब्द इति ज्ञायताम् ।
भटः —यदाज्ञापयति ।( निष्क्रम्य प्रविश्य ) जयतु महाराजः । संशप्तकानीकनिवाहितप्रतिनिवृत्तेन धनंजयेन निहतं पुत्रमङ्कस्थमश्रुभिः परिषिच्य जनार्दनावभर्त्सितेन प्रतिज्ञातं किलानेन ।
दुर्योधनः —किमिति किमिति ।
भट: —तस्यैव व्यवसायतुष्टहृदयैस्तद्विक्रमोत्साहिभि-स्तुष्टास्यैर्जितमित्यवेक्ष्य सहसा नादः प्रहर्षात्कृतः ।आक्रान्ता गुरुभिर्धराधरवरैः संक्षोभितैः पार्थिवै-र्भूमिश्चागतसंभ्रमेव युवतिस्तस्मिन् क्षणे कम्पिता ॥ २७ ॥
धृतराष्ट्रः —प्रतिज्ञासारमात्रेण कम्पितेयं वसुन्धरा ।सुव्यक्तं धनुषि स्पृष्टे त्रैलोक्यं विचलिष्यति ॥ २८ ॥
दुर्योधनः —जयत्रात ! किमनेन प्रतिज्ञातम् ।
भटः —येन मे निहतः पुत्रस्तुष्टिं ये च हते गताः ।श्वः सूर्येऽस्तमसम्प्राप्ते निहनिष्यामि तानहम् ॥ २९ ॥इति ।
दुर्योधनः —प्रतिज्ञाव्याघाते किं प्रायश्चित्तम् ।
भटः —चितारोहणं किल गाण्डीवेन सह ।
दुर्योधनः —मातुल ! चितारोहणं चितारोहणम् । वत्स दुश्शासन ! चितारोहणं चितारोहणम् । वयमपि तावत्प्रतिज्ञाव्याघाते प्रयत्नमनुतिष्ठामः ।
धृतराष्ट्रः —पुत्र ! किं करिष्यसि ।
दुर्योधनः —ननु सर्वाक्षौहिणीसन्दोहेन च्छादयिष्ये जयद्रथं । अपि च,द्रोणोपदेशेन यथा तथाहं संयोजये व्यूहमभेद्यरूपम् ।खिन्नाशयास्ते सगजाः सयोधा अप्राप्तकामा ज्वलनं विशेयुः ॥ ३० ॥
धृतराष्ट्रः —अपि प्रविष्टं धरणीमप्यारूढं नभस्थलम् ।सर्वत्रानुगमिष्यन्ति शरास्ते कृष्णचक्षुषः ॥ ३१ ॥
भटः —क्रूरमेवं नरपतिं नित्यमुद्यतशासनम् ।यः कश्चिदपरो ब्रूयान्न तु जीवेत्स तत्क्षणम् ॥ ३२ ॥
( ततः प्रविशति घटोत्कचः । )
घटोत्कचः —एष भोः !प्रयामि सौभद्रविनाशचोदितेदिदृक्षुराद्यारिमनार्यचेतसम् ।विचिन्तयंश्चक्रधरम्य शासनं यथा गजेन्द्रोऽङ्कशशङ्कितो बलिम् ॥ ३३ ॥( अधां विलोक्य ) इदेमस्योपस्थानगृहद्वारम् । यावदवतरामि । ( अवतीर्य ) आत्मनैवात्मानं निवेदयिष्ये । भोः ! हैडिम्बोऽस्मि घटोत्कचो यदुपतेर्वाक्यं गृहीत्वागतोद्रष्टव्योऽत्र मया गुरुः स्वचरितैर्दोषैर्गतः शत्रुताम् ।
दुर्योधनः —एह्येहि प्रविशस्व शत्रुभवनं कौतूहलं मे महत्धृष्टं श्रावय मां जनार्दनवचो दुर्योधनोऽहं स्थितः ॥ ३४ ॥
घटोत्कचः —( प्रविश्य ) अये अयमत्रभवान् धृतराष्ट्रः । अनार्यशतस्योत्पादयिता । अयं ननु ललितगम्भीराकृतिविशेषः । आश्चर्यमाश्चर्यम् ।वृद्धोऽप्यनाततवलीगुरुसंहतांसःश्रद्धेयरूप इव पुत्रशतस्य धृत्या।मन्ये सुरैस्त्रिदिवरक्षणजातशङ्कै-स्त्रासान्निमीलितमुखोऽत्रभवान् हि सृष्टः ॥ ३५ ॥( उपसृत्य ) पितामह ! अभिवादये घटोत्क ( इत्यर्धोक्ते ) न न अयमक्रमः । युधिष्ठिरादयश्च मे गुरवो भवन्तमभिवादयन्ति । पश्चाद्घटोत्कचोऽहमभिवादये ।
धृतराष्ट्रः —एह्येहि पुत्र !न तेप्रियं दुःखमिदं ममापियद् भ्रातृनाशाद् व्यथितस्तवात्मा ।इत्थं च ते नानुगतोयमर्थोमत्पुत्रदोषात्कृपणीकृतोऽस्मि ॥ ३६ ॥
घटोत्कचः —अहो कल्याणः खल्वत्रभवान् । कल्याणानां प्रसूर्ति पितामहमाह भगवांश्चक्रायुधः ।
धृतराष्ट्र: —( आसनादुत्थाय । ) किमाज्ञापयति भगवांश्चक्रायुधः ।
घटोत्कचः —न न न । आसनस्थेनैव भवता श्रोतव्यो जनार्दनस्य सन्देशः ।
धृतराष्ट्रः —यदाज्ञापयति भगवांश्चक्रायुधः ।( उपविशति । )
घटोत्कचः —पितामह ! श्रूयताम् । हा वत्स अभिमन्यो ! हा वत्स कुरुकुलप्रदीप ! हा वत्स यदुकुलप्रवाल ! तव जननीं मातुलं च मामपि परित्यज्य पितामहं द्रष्टुमाशया स्वर्गमभिगतोऽसि । पितामह ! एक पुत्रविनाशादर्जुनस्य तावदीदृशी खल्ववस्था, का पुनर्भवतो भविष्यति । ततः क्षिप्रमिदानीमात्मबलाधानं कुरुष्व । यथा ते पुत्रशोकसमुत्थितोऽग्निर्न दहेत्प्राणमयं हविरिति ।
धृतराष्ट्रः —सक्रोधव्यवसायेन कृष्णेनैतदुदाहृतम् । पश्यामीव हि गाण्डीवी सर्वक्षत्रवधे धृतः ॥ ३७॥
सर्वे —अहो हास्यमभिधानम् ।
घटोत्कचः —किमेतद्धास्यते ।
दुर्योधन: —एतद्धास्यते ।देवैर्मन्त्रयते सार्धं स कृष्णो जातमत्सरः ।पार्थेनैकेन यो वेत्ति निहतं राजमण्डलम् ॥ ३८ ॥
घटोत्कच: —हससि त्वमहं वक्ता प्रेषितश्चक्रपाणिना ।श्रावितं पार्थकर्मेदमहो युक्तं तवैव तु ॥ ३९ ॥अपि च, भवतापि श्रोतव्यो जनार्दनसन्देशः ।
दुश्शासनः —मा तावत् भोः ! क्षत्रियावमानिन् !पृथिव्यां शासनं यस्य धार्यते सर्वपार्थिवैः । सन्देशः श्रोष्यतेऽप्यन्यो न राज्ञस्तस्य संनिधौ ॥ ४० ॥
घटोत्कचः —कथं दुश्शासनो व्याहरति । अरे दुश्शासन ! अराजा नाम भवतां चक्रायुधः । हं भोः !मुक्ता येन यदा पुरा नृपतयः प्रभ्रष्टमानोच्छ्रयाःयेनार्घ्यं नृपमण्डलस्य मिषतो भीष्माग्रहस्ताद्धृतम् ।श्रीर्यस्याभिरता नियोगसुमुखी श्रीवक्षशय्यागृहेश्लाघ्यः पार्थिवपार्थिवस्तव कथं राजा न चक्रायुधः ॥ ४१ ॥
दुर्योधनः —दुश्शासन ! अलं विवादेन ।राजा वा यदि वा राजा बली वा यदि वा बली ।बहुनात्र किमुक्तेन किमाह भवतां प्रभुः ॥ ४२ ॥
घटोत्कचः —अथ किमथ किम् । प्रभुरेव त्रैलोक्यनाथो भगवांश्चक्रायुधः । विशेषतोऽस्माकं प्रभुः । अपि च,अवसितमवगच्छ क्षत्रियाणां विनाशंनृपशतविनिचित्या लाघवं चास्तु भूमेः ।न हि तनयविनाशादुद्यतोग्रास्त्रमुक्तैःसमरशिरसि कश्चित्फल्गुनस्यातिभारः ॥ ४३ ॥
शकुनि: —यदि स्याद्वाक्यमात्रेण निर्जितेयं वसुन्धरा । वाक्ये वाक्ये यदि भवेत्सर्वक्षत्रवधः कृतः ॥ ४४ ॥
घटोत्कचः —शकुनिरेष व्याहरति । भोः शकुने !अक्षान्विमुञ्च शकुने ! कुरु बाणयोग्य-मष्टापदं समरकर्मणि युक्तरूपम् ।न ह्यत्र दारहरणं न च राज्यतन्त्रंप्राणाः पणोऽत्र रतिरुग्रबलैश्च बाणैः ॥ ४५ ॥
दुर्योधनः —भो भोः ! प्रकृतिं गतः ।क्षिपसि वदसि रूक्षं लंघयित्वा प्रमाणंन च गणयास किञ्चिद्व्याहरन्दीर्घहस्तः ।यदि खलु तव दर्पो मातृपक्शोग्ररूपोवयमपि खलु रौद्राः राक्षसोग्रस्वभावाः ॥ ४६ ॥
घटोत्कचः —शान्तं शान्तं पापम् । राक्षसेभ्योऽपि भवन्त एव क्रूरतराः । कुतः,न तु जतुगृहे सुप्तान् भ्रातृन् दहन्ति निशाचराःशिरास न तथा भ्रातुः पत्नीं स्पृशन्ति निशाचराः ।न च सुतवधं संख्ये कर्तुं स्मरन्ति निशाचरा:विकृतवपुषोऽप्युप्राचारा घृणा न तु वर्जिता ॥ ४७ ॥
दुर्योधनः —दूतः खलु भवान् प्राप्तो न त्वं युद्धार्थमागतः ।गृहीत्वा गच्छ सन्देशं न वयं दूतघातकाः ॥ ४८ ॥
घटोत्कचः —( सरोषम् ) किं दूत इति मां प्रधर्षयसि । मा तावद् भोः ! न दूतोऽहम् ।अलं वो व्यवसायेन प्रहरध्वं समाहताः१ ।ज्याच्छेदाद्दुर्बलो नाहमभिमन्युरिह स्थितः ॥ ४९ ॥महानेष कैशोरकोऽयं मे मनोरथः । अपि च, दष्टोष्ठो मुष्टिमुद्यम्य तिष्ठत्येष घटोत्कचः ।उत्तिष्ठतु पुमान् कश्चिद्गन्तुमिच्छेद्यमालयम् ॥ ५० ॥
( सर्वे उत्तिष्ठन्ति । )
धृतराष्ट्रः —पौत्र घटोत्कच ! मर्षयतु मर्षयतु भवान् । मद्वचनावगन्ता भव ।
घटोत्कचः —भवतु भवतु । पितामहस्य वचनाद् दूतोऽहमस्मि । तथापि हि न शक्नोमि रोषं धारयितुम् । कः प्रतिसंदेशः ।
दुर्योधनः —आ कस्य विज्ञाप्यम् । मद्वचनादेवं स वक्तव्यः,किं व्यर्थं बहु भाषसे न खलु ते पारुष्यसाध्या वयंकोपान्नार्हसि किंचिदेव वचनं युद्धं यदा दास्यसि ।निर्याम्येष निरन्तरं नृपशतच्छत्रावलीभिर्वृत-स्तिष्ठ त्वं सह पाण्डवैः प्रतिवचो दास्यामि ते सायकैः ॥ १५१ ॥
घटोत्कचः —पितामह ! एष गच्छामि ।
धृतराष्ट्रः —पौत्र ! गच्छ, गच्छ
घटोत्कचः —भो भो राजानः ! श्रूयतां जनार्दनस्य पश्चिमः सन्देशः ।धर्मं समाचर कुरु स्वजनव्यपेक्षांयत्कांक्षितं मनसि सर्वमिहानुतिष्ठ ।जात्योपदेश इव पाण्डवरूपधारीसूर्यांशुभिः सममुपैष्यति वः कृतान्तः ॥ ५२ ॥इति ।
( निष्क्रान्ताः सर्वे । )
दूतघटोत्कचं नामोत्सृष्टिकाङ्कं समाप्तम् ॥
« »