देवीचतुःषष्ट्युपचारपूजास्तोत्रम्

उषसि मागधमङ्गलगायनै-र्झटिति जागृहि जागृहि जागृहि ।अतिकृपार्द्रकटाक्षनिरीक्षणै-र्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥
कनकमयवितर्दिशोभमानंदिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।मणिमयमण्टपमध्यमेहि मात-र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ २ ॥
कनककलशशोभमानशीर्षंजलधरलम्बि समुल्लसत्पताकम् ।भगवति तव संनिवासहेतो-र्मणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥
तपनीयमयी सुतूलिकाकमनीया मृदुलोत्तरच्छदा ।नवरत्नविभूषिता मयाशिबिकेयं जगदम्ब तेऽर्पिता ॥ ४ ॥
कनकमयवितर्दिस्थापिते तूलिकाढ्येविविधकुसुमकीर्णे कोटिबालार्कवर्णे ।भगवति रमणीये रत्नसिंहासनेऽस्मि -न्नुपविश पदयुग्मं हेमपीठे निधाय ॥ ५ ॥
मणिमौक्तिकनिर्मितं महान्तंकनकस्तम्भचतुष्टयेन युक्तम् ।कमनीयतमं भवानि तुभ्यंनवमुल्लोचमहं समर्पयामि ॥ ६ ॥
दूर्वया सरसिजान्वितविष्णु-क्रान्तया च सहितं कुसुमाढ्यम् ।पद्मयुग्मसदृशे पदयुग्मेपाद्यमेतदुररीकुरु मातः ॥ ७ ॥
गन्धपुष्पयवसर्षपदूर्वा-संयुतं तिलकुशाक्षतमिश्रम् ।हेमपात्रनिहितं सह रत्नै-रर्घ्यमेतदुररीकुरु मातः ॥ ८ ॥
जलजद्युतिना करेण जाती-फलतक्कोललवङ्गगन्धयुक्तैः ।अमृतैरमृतैरिवातिशीतै-र्भगवत्याचमनं विधीयताम् ॥ ९ ॥
निहितं कनकस्य संपुटेपिहितं रत्नपिधानकेन यत् ।तदिदं जगदम्ब तेऽर्पितंमधुपर्कं जननि प्रगृह्यताम् ॥ १० ॥
एतच्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितंन्यस्तं रत्नमये सुवर्णचषकें भृङ्गैर्भ्रमद्भिर्वृतम् ।सानन्दं सुरसुन्दरीभिरभितो हस्तैर्धृतं ते मयाकेशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥
मातः कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनंभक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।केशानामलकैर्विशोध्य विशदान्कस्तूरिकादञ्चितैःस्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥ १२ ॥
दधिदुग्धघृतैः समाक्षिकैःसितया शर्करया समन्वितैः ।स्नपयामि तवाहमादरा-ज्जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥
एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-र्मणिक्यामलमौक्तिकामृतरसैः स्वच्छैः सुवर्णोदकैः ।मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमत्यादा-त्स्नानं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥
बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तमंमातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभंतप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥
नवरत्नमये मयार्पितेकमनीये तपनीयपादुके ।सविलासमिदं पदद्वयंकृपया देवि तयोर्निधीयताम् ॥ १६ ॥
बहुभिरगरुधूपैः सादरं धूपयित्वाभगवति तव केशान्कङ्कतैर्मार्जयित्वा ।सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वाझटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥
सौवीराञ्जनमिदमम्ब चक्षुषोस्तेविन्यस्तं कनकशलाकया मया यत् ।तन्न्यूनं मलिनमपि त्वदक्षिसङ्गात्ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥
मञ्जीरे पदयोर्निधाय रुचिरां विन्यस्य काञ्चीं कटौमुक्ताहारमुरोजयोरनुपमां नक्षत्रमालां गले ।केयूराणि भुजेषु रत्नवलयश्रेणीं करेषु क्रमा-त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ॥ १९ ॥
धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थलेमुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् ।मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाःकट्यां काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥ २० ॥
मातः फालतले तवातिविमले काश्मीरकस्तूरिका-कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवंपादौ चन्दनलेपनादिभिरहं संपूजयामि क्रमात् ॥ २१ ॥
रत्नाक्षतैस्त्वां परिपूजयामिमुक्ताफलैर्वा रुचिरैरविद्धैः ।अखण्डितैर्देव यवादिभिर्वाकाश्मीरपङ्काङ्किततण्डुलैर्वा ॥ २२ ॥
जननि चम्पकतैलमिदं पुरोमृगमदोपयुतं पटवासकम् ।सुरभिगन्धमिदं च चतुः समंसपदि सर्वमिदं परिगृह्यताम् ॥ २३ ॥
सीमन्ते ते भगवति मया सादरं न्यस्तमेत-त्सिन्दूरं मे हृदयकमले हर्षवर्षं तनोति ।बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-रन्तर्ध्वान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४ ॥
मन्दारकुन्दकरवीरलवङ्गपुष्पै-स्त्वां देवि संततमहं परिपूजयामि ।जातीजपावकुलचम्पककेतकादि-नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ॥
मालतीवकुलहेमपुष्पिका-काञ्चनारकरवीरकैतकैः ।कर्णिकारगिरिकर्णिकादिभिःपूजयामि जगदम्ब ते वपुः ॥ २६ ॥
पारिजातशतपत्रपाटलै-र्मल्लिकावकुलचम्पकादिभिः ।अम्बुजैः सुकुसुमैश्च सादरंपूजयामि जगदम्ब ते वपुः ॥ २७ ॥
लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैःकर्पूराकलितैः शिरैर्मधुयुतैर्गोसर्पिषा लोडितैः ।श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८ ॥
रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै-र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथामातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ॥
मातस्त्वां दधिदुग्धपायसमहाशाल्यन्नसंतानिकाःसूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैःशाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन् ॥
सापूपसूपदधिदुग्धसिताघृतानिसुस्वादुभक्तपरमान्नपुरःसराणि ।शाकोल्लसन्मरिचिजीरकबाहिकानिभक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१ ॥
श्रीरमेतदिदमुत्तमोत्तमंप्राज्यमाज्यमिदमुज्ज्वलं मधु ।मातरेतदमृतोपमं पयःसंभ्रमेण परिपीयतां मुहुः ॥ ३२ ॥
उष्णोदकैः पाणियुगं मुखं चप्रक्षाल्य मातः कलधौतपात्रे ।कर्पूरमिश्रेण सकुङ्कमेनहस्तौ समुद्वर्तय चन्दनेन ॥ ३३ ॥
अतिशीतमुशीरवासितंतपनीये कलशे निवेशितम् ।पटपूतमिदं जितामृतंशुचि गङ्गाजलमम्ब पीयताम् ॥ ३४ ॥
जम्ब्वाम्ररम्भाफलसंयुतानिद्राक्षाफलाक्षौद्रसमन्वितानि ।सनारिकेलानि सदाडिमानिफलानि ते देवि समर्पयामि ॥ ३५ ॥
कूश्माण्डकोशातकिसंयुतानिजम्बीरनारङ्गसमन्वितानि ।सबीजपूराणि सबादराणिफलानि ते देवि समर्पयामि ॥ ३६ ॥
कर्पूरेण युतैर्लवङ्गसहितैस्तक्कोलचूर्णान्वितैःसुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।मातः कैतकपत्त्रपाण्डुरुचिभिस्ताम्बूलवल्लीदलैःसानन्दं मुखमण्डनार्थमतुलं ताम्बूलमङ्गीकुरु ॥ ३७ ॥
एलालवङ्गादिसमन्वितानितक्कोलकर्पूरविमिश्रितानि ।ताम्बूलवल्लीदलसंयुतानिपूगानि ते देवि समर्पयामि ॥ ३८ ॥
ताम्बूलनिर्जितसुतप्तसुवर्णवर्णंस्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् ।सौवर्णपात्रनिहितं खदिरेण सार्धंताम्बूलमम्ब वदनाम्बुरुहे गृहाण ॥ ३९ ॥
महति कनकपात्रे स्थापयित्वा विशालान्डमरुसदृशरूपान्बद्धगोधूमदीपान् ।बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥
सविनयमथ दत्वा जानुयुग्मं धरण्यांसपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारंभ्रमयति मयि भूयात्ते कृपार्द्रः कटाक्षः ॥ ४१ ॥
अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्यत्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तांजननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥
मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभंनानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् ।भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतंछत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ॥
शरदिन्दुमरीचिगौरवर्णै-र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।जगदम्ब विचित्रचामरैस्त्वा-महमानन्दभरेण वीजयामि ॥ ४४ ॥
मार्ताण्डमण्डलनिभो जगदम्ब योऽयंभक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-मस्मिन्विलोकय विलोलविलोचने त्वम् ॥ ४५ ॥
इन्द्रादयो नतिनतैर्मकुटप्रदीपै-र्नीराजयन्ति सततं तव पादपीठम् ।तस्मादहं तव समस्तशरीरमेत-न्नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६ ॥
प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तःकनकमयविभूषः स्निग्धगम्भीरघोषः ।भगवति कलितोऽयं वाहनार्थं मया तेतुरगशतसमेतो वायुवेगस्तुरंगः ॥ ४७ ॥
मधुकरवृतकुम्भन्यस्तसिन्दूररेणुःकनककलितघण्टाकिङ्किणीशोभिकण्ठः ।श्रवणयुगलचञ्चच्चामरो मेघतुल्योजननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥ ४८ ॥
द्रुततरतुरगैर्विराजमानंमणिमयचक्रचतुष्टयेन युक्तम् ।कनकमयममुं वितानवन्तंभगवति ते हि रथं समर्पयामि ॥ ४९ ॥
हयगजरथपत्तिशोभमानंदिशि दिशि दुन्दुभिमेघनादयुक्तम् ।अतिबहु चतुरङ्गसैन्यमेत-द्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥
परिघीकृतसप्तसागरंबहुसंपत्सहितं मयाम्ब ते विपुलम् ।प्रबलं धरणीतलाभिधंदृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥
शतपत्रयुतैः स्वभावशीतै-रतिसौरभ्ययुतैः परागपीतैः ।भ्रमरीमुखरीकृतैरनन्तै-र्व्यजनैस्त्वां जगदम्ब वीजयामि ॥ ५२ ॥
भ्रमरलुलितलोलकुन्तलाली-विगलितमाल्यविकीर्णरङ्गभूमिः ।इयमतिरुचिरा नटी नटन्तीतव हृदये मुदमातनोतु मातः ॥ ५३ ॥
मुखनयनविलासलोलवेणी-विलसितनिर्जितलोलभृङ्गमालाः ।युवजनसुखकारिचारुलीलाभगवति ते पुरतो नटन्ति बालाः ॥ ५४ ॥
भ्रमदलिकुलतुल्यालोलधम्मिल्लभाराःस्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।अनुपमितसुवेषा वारयोषा नटन्तिपरभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥
डमरुडिण्डिमजर्झरझल्लरी-मृदुरवद्रगडद्द्रगडादयः ।झटिति झाङ्कृतझाङ्कृतझाङ्कृतै-र्बहुदयं हृदयं सुखयन्तु ते ॥ ५६ ॥
विपञ्चीषु सप्तस्वरान्वादयन्त्य-स्तव द्वारि गायन्ति गन्धर्वकन्याः ।क्षणं सावधानेन चित्तेन मातःसमाकर्णय त्वं मया प्रार्थितासि ॥ ५७ ॥
अभिनयकमनीयैर्नर्तनैर्नर्तकीनांक्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-र्भगवति भवदीयं मानसं रञ्जयामि ॥ ५८ ॥
तव देवि गुणानुवर्णनेचतुरा नो चतुराननादयः ।तदिहैकमुखेषु जन्तुषुस्तवनं कस्तव कर्तुमीश्वरः ॥ ५९ ॥
पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६० ॥
रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥
चरणनलिनयुग्मं पङ्कजैः पूजयित्वाकनककमलमालां कण्ठदेशेऽर्पयित्वा ।शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्तेहृदयकमलमध्ये देवि हर्षं तनोतु ॥ ६२ ॥
अथ मणिमयमञ्चकाभिरामेकनकमयवितानराजमाने ।प्रसरदगरुधूपधूपितेऽस्मि-न्भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥
एतस्मिन्मणिखचिते सुवर्णपीठेत्रैलोक्याभयवरदौ निधाय हस्तौ ।विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि -न्पर्यङ्के कनकमये निषीद मातः ॥ ६४ ।
तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः ।अतिरक्ततरैरलक्तकैः पुनरुक्तां रचयामि रक्तताम् ॥ ६५ ॥
अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् ।तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥
क्षणमथ जगदम्ब मञ्चकेऽस्मि-न्मृदुतलतूलिकया विराजमाने ।अतिरहसि मुदा शिवेन सार्धंसुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥
मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटङ्कयुक्ता-मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठांसानन्दां सुप्रसन्नां त्रिभुवनजननीं चेतसा चिन्तयामि ॥
एषा भक्त्या तव विरचिता या मया देवि पूजास्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व ।न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यःसानन्दं मे हृदयकमले तेऽस्तु नित्यं निवासः ॥ ६९ ॥
पूजामिमां यः पठति प्रभातेमध्याह्नकाले यदि वा प्रदोषे ।धर्मार्थकामान्पुरुषोऽभ्युपैतिदेहावसाने शिवभावमेति ॥ ७० ॥
पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः ।पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ॥ ७१ ॥
प्रत्यहं भक्तिसंयुक्तो यः पूजनमिदं पठेत् ।वाग्वादिन्याः प्रसादेन वत्सरात्स कविर्भवेत् ॥ ७२ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्री गोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ देवीचतुःषष्ट्युपचारपूजास्तोत्रं संपूर्णम् ॥

Settings