चौरपञ्चाशिका

Click on words to see what they mean.

अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दवदनां तनुरोमराजीम् सुप्तोत्थितां मदनविह्वललालसाङ्गीं विद्यां प्रमादगुणिताम् इव चिन्तयामि ॥ १ ॥
अद्यापि तां शशिमुखीं नवयौवनाढ्यां पीनस्तनीं पुनर् अहं यदि गौरकान्तिम् पश्यामि मन्मथशरानलपीडिताङ्गीं गात्राणि संप्रति करोमि सुशीतलानि ॥ २ ॥
अद्यापि तां यदि पुनः कमलायताक्षीं पश्यामि पीवरपयोधरभारखिन्नाम् संपीड्य बाःउयुगलेन पिबामि वक्त्रम् उन्मत्तवन् मधुकरः कमलं यथेष्टम् ॥ ३ ॥
अद्यापि तां निधुवनक्लमनिःसहाङ्गीम् आपाण्डुगण्डपतितालककुन्तलालिम् प्रच्छन्नपापकृतमन्थरम् आवहन्तीं कण्ठावसक्तबाहुलतां स्मरामि ॥ ४ ॥
अद्यापि तां सुरतजागरघूर्णमान तिर्यग्वलत्तरलतारकम् आयताक्षीम् शृङ्गारसारकमलाकरराजहंसीं व्रीडाविनम्रवदनाम् उषसि स्मरामि ॥ ५ ॥
अद्यापि तां यदि पुनः श्रवणायताक्षीं पश्यामि दीर्घविरहज्वरिताङ्गयष्टिम् अङ्गैर् अहं समुपगुह्य ततो ऽतिगाढं नोन्मीलयामि नयने न च तां त्यजामि ॥ ६ ॥
अद्यापि तां सुरतताण्डवसूत्रधारीं पूर्णेन्दुसुन्दरमुखीं मदविह्वलाङ्गीम् तन्वीं विशालजघनस्तनभारनम्रां व्यालोलकुन्तलकलापवतीं स्मरामि ॥ ७ ॥
अद्यापि तां मसृणचन्दनपङ्कमिश्रकस्तूरिकापरिमलोत्थविसर्पिगन्धाम् अन्योन्यचञ्चुपुटचुम्बनलग्नपक्ष्म युग्माभिरामनयनां शयने स्मरामि ॥ ८ ॥
अद्यापि तां निधुवने मधुपानरक्ताम् लीलाधरां कृशतनुं चपलायताक्षीम् काश्मीरपङ्कमृगनाभिकृताङ्गरागां कर्पूरपूगपरिपूर्णमुखीं स्मरामि ॥ ९ ॥
अद्यापि तत्+कनकगौरकृताङ्गरागं प्रस्वेदबिन्दुविततं वदनं प्रियायाः अन्ते स्मरामि रतिखेदविलोलनेत्रं राहूपरागपरिमुक्तम् इवेन्दुबिम्बम् ॥ १० ॥
अद्यापि तन्मनसि संपरिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या जीवेति मङ्गलवचः परिहृत्य कोपात् कर्णे कृतं कनकपत्रम् अनालपन्त्या ॥ ११ ॥
अद्यापि तत्+कनककुण्डलघृष्टगण्डम् आस्यं स्मरामि विपरीतरताभियोगे आन्दोलनश्रमजलस्फुटसान्द्रबिन्दु मुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ १२ ॥
अद्यापि तत्प्रणयभङ्गगुरुदृष्टिपातं तस्याः स्मरामि रतिविभ्रमगात्रभङ्गम् वस्त्राञ्चलस्खलतचारुपयोधरान्तं दन्तच्छदं दशनखण्डनमण्डनं च ॥ १३ ॥
अद्याप्य् अशोकनवपल्लवरक्तहस्तां मुक्ताफलप्रचयचुम्बितचूचुकाग्राम् अन्तः स्मितोच्छ्वसितपाण्डुरगण्डभित्तिं तां वल्लभामलसहंसगतिं स्मरामि ॥ १४ ॥
अद्यापि तत्+कनकरेणुघनोरुदेशे न्यस्तं स्मरामि नखरक्षतलक्ष्म तस्याः आकृष्टहेमरुचिराम्बरम् उत्थिताया लज्जावशात् करघृतं च ततो व्रजन्त्याः ॥ १५ ॥
अद्यापि तां विधृतकज्जललोलनेत्रां पृथ्वीं प्रभूतकुसुमाकुलकेशपाशाम् सिन्दूरसंलुलितमौक्तिकदन्तकान्तिम् आबद्धहेमकटकां रहसि स्मरामि ॥ १६ ॥
अद्यापि तां गलितबन्धनकेशपाशां स्रस्तस्रजं स्मितसुधामधुराधरौष्ठीम् पीनोन्नतस्तनयुगोपरिचारुचुम्बन्+ मुक्तावलीं रहसि लोलदृशम् स्मरामि ॥ १७ ॥
अद्यापि तां धवलवेश्मनि रत्नदीप मालामयूखपटलैर् दलितान्धकारे प्राप्तोद्यमे रहसि संमुखदर्शनार्थं लज्जाभयार्थनयनाम् अनुचिन्तयामि ॥ १८ ॥
अद्यापि तां विरहवह्निनिपीडिताङ्गीं तन्वीं कुरङ्गनयनां सुरतैकपात्रीम् नानाविचित्रकृतमण्डनम् आवहन्तीं तां राजहंसगमनां सुदतीं स्मरामि ॥ १९ ॥
अद्यापि तां विहसितां कुचभारनम्रां मुक्ताकलापधवलीकृतकण्ठदेशाम् तत्+केलिमन्दरगिरौ कुसुमायुधस्य कान्तां स्मरामि रुचिरोज्ज्वलपुष्पकेतुम् ॥ २० ॥
अद्यापि तां चाटुशतदुर्ललितोचितार्थं तस्याः स्मरामि सुरतक्लमविह्वलायाः अव्यक्तनिःस्वनितकातरकथ्यमान संकीर्णवर्णरुचिरं वचनं प्रियायाः ॥ २१ ॥
अद्यापि तां सुरतघूर्णनिमीलिताक्षीं स्रस्ताङ्गयष्टिगलितांशुककेशपाशाम् शृङ्गारवारिरुहकाननराजहंसीं जन्मान्तरे ऽपि निधने ऽप्य् अनुचिन्तयामि ॥ २२ ॥
अद्यापि तां प्रणयिनीं मृगशावकाक्षीं पीयूषपुर्णकुचकुम्भयुगं वहन्तीम् पश्याम्य् अहं यदि पुनर् दिवसावसाने स्वर्गापवर्गनरराजसुखं त्यजामि ॥ २३ ॥
अद्यापि तां क्षितितले वरकामिनीनां सर्वाङ्गसुन्दरतया प्रथमैकरेखाम् शृङ्गारनाटकरसोत्तमपानपात्रीं कान्तां स्मरामि कुसुमायुधबाणखिन्नाम् ॥ २४ ॥
अद्यापि तां स्तिमितवस्त्रम् इवाङ्गलग्नां प्रौढप्रतापमदनानलतप्तदेहम् बालाम् अनाथशरणाम् अनुकम्पनीयां प्राणाधिकां क्षणम् अहं न हि विस्मरामि ॥ २५ ॥
अद्यापि तां प्रथमतो वरसुन्दरीणां स्नेहैकपात्रघटिताम् अवनीशपुत्रीम् हंहोजना मम वियोगहुताशनो ऽयं सोढुं न शक्यतेति प्रतिचिन्तयामि ॥ २६ ॥
अद्यापि विस्मयकरीं त्रिदशान् विहाय बुद्धिर् बलाच् चलति मे किम् अहं करोमि जानन्न् अपि प्रतिमुहूर्तम् इहान्तकाले कान्तेति वल्लभतरेति ममेति धीरा ॥ २७ ॥
अद्यापि तां गमनम् इत्य् उदितं मदीयं श्रुत्वैव भीरुहरिणीम् इव चञ्चलाक्षीम् वाचः स्खलद्विगलदाश्रुजलाकुलाक्षीं संचिन्तयामि गुरुशोकविनम्रवक्त्राम् ॥ २८ ॥
अद्यापि तां सुनिपुणं यतता मयापि दृष्टं न यत् सदृशतोवदनं कदाचित् सौन्दर्यनिर्जितरति द्विजराजकान्ति कान्ताम् इहातिविमलत्वमहागुणेन ॥ २९ ॥
अद्यापि तां क्षणवियोगविषोपमेयां सङ्गे पुनर् बहुतराम् अमृताभिषेकाम् तां जीवधारणकरीं मदनातपत्राम् उद्वत्तकेशनिवहां सुदतीं स्मरामि ॥ ३० ॥
अद्यापि वासगृहतो मयि नीयमने दुर्वारभीषणकरैर् यमदूतकल्पैर् किं किं तया बहुविधं न कृतं मदर्थे वक्तुं न पार्यतेति व्यथते मनो मे ॥ ३१ ॥
अद्यापि मे निशि दिवा हृदयं दुनोति पूर्णेन्दुसुन्दरमुखं मम वल्लभायाः लावण्यनिर्जितरतिक्षतिकामदर्पं भूयः पुरः प्रतिपदं न विलोक्यते यत् ॥ ३२ ॥
अद्यापि ताम् अवहितां मनसाचलेन संचिन्तयामि युवतीं मम जीविताशाम् नान्योपभुक्तनवयौवनभारसारां जन्मान्तरे ऽपि मम सैव गतिर् यथा स्यात् ॥ ३३ ॥
अद्यापि तद्वदनपङ्कजगन्धलुब्ध भ्राम्यद्द्विरेफचयचुम्बितगण्डदेशाम् लीलावधूतकरपल्लवकङ्कणानां क्वाणो विमूर्च्छति मनः सुतरां मदीयम् ॥ ३४ ॥
अद्यापि तां नखपदं स्तनमण्डले यद् दत्तं मयास्यमधुपानविमोहितेन उद्भिन्नरोमपुलकैर् बहुभिः समन्ताज् जागर्ति रक्षति विलोकयति स्मरामि ॥ ३५ ॥
अद्यापि कोपविमुखीकृतगन्तुकामा नोक्तं वचः प्रतिददाति यदैव वक्त्रम् चुम्बामि रोदिति भृशं पतितो ऽस्मि पादे दासस् तव प्रियतमे भज मं स्मरामि ॥ ३६ ॥
अद्यापि धवति मनः किम् अहं करोमि सार्धं सखीभिर् अपि वासगृहं सुकान्ते कान्ताङ्गसंगपरिहासविचित्रनृत्ये क्रीडाभिरामेति यातु मदीयकालः ॥ ३७ ॥
अद्यापि तां जगति वर्णयितुं न कश् चिच् छक्नोत्य् अदृष्टसदृशीं च परिग्रहं मे दृष्टं तयोर् सदृशयोर् खलु येन रूपं शक्तो भवेद् यदि सैव नरो न चान्यः ॥ ३८ ॥
अद्यापि तां न खलु वेद्मि किम् ईशपत्नी शापं गता सुरपतेर् अथ कृष्णलक्ष्मी धात्रैव किं नु जगतः परिमोहनाय सा निर्मिता युवतिरत्नदिदृक्षया वा ॥ ३९ ॥
अद्यापि तन्नयनकज्जलम् उज्ज्वलास्यं विश्रान्तकर्णयुगलं परिहासहेतोर् पश्ये तवात्मनि नवीनपयोधराभ्यां क्षीणां वपुर् यदि विनश्यति नो न दोषः ॥ ४० ॥
अद्यापि निर्मलशरच्छशिगौरकान्ति चेतो मुनेर् अपि हरेत् किम् उतास्मदीयम् वक्त्रं सुधामयम् अहं यदि तत् प्रपद्ये चुम्बन् पिबाम्य् अविरतं व्यधते मनो मे ॥ ४१ ॥
अद्यापि तत्+कमलरेणुसुगन्धगन्धि तत्प्रेमवारि मकरध्वजपातकारि प्राप्नोम्य् अहं यदि पुनः सुरतैकतीर्थं प्राणांस् त्यजामी नियतं तदवाप्तिहेतोर् ॥ ४२ ॥
अद्याप्य् अहो जगति सुन्दरलक्षपूर्णे ऽन्यान्यम् उत्तमगुणाधिकसंप्रपन्ने अन्याभिर् अप्य् उपमितुं न मया च शक्यं रूपं तदीयम् इति मे हृदये वितर्कः ॥ ४३ ॥
अद्यापि सा मम मनस्तटिनी सदास्ते रोमाञ्चवीचिविलसद्विपुलस्वभावा । कादम्बकेशररुचिः क्षतवीक्षणं मां गात्रक्लमं कथयती प्रियराजहंसी ॥ ४४ ॥
अद्यापि तां नृपती शेखरराजपुत्रीं संपूर्णयौवनमदालसघूर्णनेत्रीम् गन्धर्वयक्षसुरकिंनरनागकन्यां स्वर्गाद् अहो निपतिताम् इव चिन्तयामि ॥ ४५ ॥
अद्यापि तां निजवपुःकृशवेदिमध्याम् उत्तुंगसंभृतसुधास्तनकुम्भयुग्माम् नानाविचित्रकृतमण्डमण्डिताङ्गी सुप्तोत्थितां निशि दिवा न हि विस्मरामि ॥ ४६ ॥
अद्यापि तां कनककान्तिमदालसाङ्गीं व्रीडोत्सुकां निपतिताम् इव चेष्टमानाम् अगांगसंगपरिचुम्बनजातमोहां तां जीवनौषधिम् इव प्रमदां स्मरामि ॥ ४७ ॥
अद्यापि तत्सुरतकेलिनिरस्त्रयुद्धं बन्धोपबन्धपतनोत्थितशून्यहस्तम् दन्तौष्ठपीडननखक्षतरक्तसिक्तं तस्या स्मरामि रतिबन्धुरनिष्ठुरत्वम् ॥ ४८ ॥
अद्याप्य् अहं वरवधूसुरतोपभोगं जीवामि नान्यविधिना क्षणम् अन्तरेण तद् भ्रातरो मरणम् एव हि दुःखशान्त्यै विज्ञापयामि भवतस् त्वरितं लुनीध्वम् ॥ ४९ ॥
अद्यापि नोज्झति हरः किल कालकूटं कूर्मो बिभर्ति धरणीं खलु पृष्टभागे अम्भोनिधिर् वहति दुःसहवडवाग्निम् अङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ ५० ॥
« »