भ्रमराम्बाष्टकम्

चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिंचारुस्मेरमुखां चराचरजगत्संरक्षणीं तत्पदाम् ।चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितांश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलींकर्पूरद्रवमिश्रचूर्णखदिरामोदोल्लसद्वीटिकाम् ।लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥
राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणांराजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहाम् ।राजीवायतमन्दमण्डितकुचां राजाधिराजेश्वरींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥
षट्तारां गणदीपिकां शिवसतीं षड्वैरिवर्गापहांषट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् ।षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥
श्रीनाथादृतपालितत्रिभुवनां श्रीचक्रसंचारिणींज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्यादृताम् ।दीनानामतिवेलभाग्यजननीं दिव्याम्बरालंकृतांश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥
लावण्याधिकभूषिताङ्गलतिकां लाक्षालसद्रागिणींसेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् ।भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥
धन्यां सोमविभावनीयचरितां धाराधरश्यामलांमुन्याराधनमेधिनीं सुमवतां मुक्तिप्रदानव्रताम् ।कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमांश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥
कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थितांकृष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८ ॥
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियांगम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालंकृताम् ।गङ्गागौतमगर्गसंनुतपदां गां गौतमीं गोमतींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ भ्रमराम्बाष्टकं संपूर्णम् ॥

Settings