आर्याष्टकम्

Click Settings to choose another script or language.
करस्थकदलीचूतपनसेष्टकमोदकम् ।बालसूर्यप्रतीकाशं वन्दे बालगणाधिपम् ॥ १ ॥
आर्यां कात्यायनीं देवीमभीष्टफलदायिनीम् ।देहि विद्यां महादेवि नमामि त्वां महेश्वरीम् ॥ २ ॥
महादेवप्रियां कालीं महायोगेश्वरेश्वरीम् ।महालक्ष्मीं शिवां गौरीं देहि विद्यां महेश्वरि ॥ ३ ॥
उमां हैमवतीं शुभ्रां कोमलाङ्गीं शुभप्रियाम् ।नमामि शुभ्रवक्त्रां त्वां देहि विद्यां शिवप्रिये ॥ ४ ॥
पद्महस्तां सहस्राक्षीं सहस्रानललोचनाम् ।नौमि दुर्गां भगवतीं देहि विद्यां सुरेश्वरि ॥ ५ ॥
पद्ममन्दिरमध्यस्थां योगिबृन्दैर्निषेविताम् ।नौमि विश्वमयीं वाणीं देहि विद्यां सुलोचने ॥ ६ ॥
लक्ष्मीं क्षमां शिवां धात्रीं कल्याणगुणवर्धनीम् ।वन्दे त्वां प्रणतार्तिघ्नीं देहि विद्यां सुरेश्वरि ॥ ७ ॥
विधिरूपां हंसवाहां ब्रह्मध्यानपरायणाम् ।वरदाभयकरां विद्यां देहि[त्वं]परमेश्वरि ॥ ८ ॥
चारुप्रसन्नमदनां चन्द्रशेखरवल्लभाम् ।विद्यां देहि महामाये वन्दे त्वां वृषवाहिनीम् ॥ ९ ॥
आर्याष्टकमिदं पुण्यं यः पठेत् सततं नरः ।महादेवीप्रसादेन षण्मासात् स कविर्भवेत् ॥ १० ॥
॥ इति श्री आर्याष्टकं सम्पूर्णम् ॥