अनात्मश्रीविगर्हणप्रकरणम्

लब्धा विद्या राजमान्या ततः किंप्राप्ता संपत्प्राभवाढ्या ततः किम् ।भुक्ता नारी सुन्दराङ्गी तत: किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १ ॥
केयूराद्यैर्भूषितो वा ततः किंकौशेयाद्यैरावृतो वा ततः किम् ।तृप्तो मृष्टान्नादिना वा ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ २ ॥
दृष्टा नाना चारुदेशास्ततः किंपुष्टश्चेष्टा बन्धुवर्गास्ततः किम् ।नष्टं दारिद्र्यादिदुःखं ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ३ ॥
स्नातस्तीर्थे जह्रुजादौ ततः किंदानं दत्तं द्व्यष्टसंख्यं ततः किम् ।जप्ता मन्त्राः कोटिशो वा ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ४ ॥
गोत्रं सम्यग्भूषितं वा ततः किंगात्रं भस्माच्छादितं वा ततः किम् ।रुद्राक्षादिः सद्धृतो वा ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ५ ॥
अन्नैर्विप्रास्तर्पिता वा ततः किंयज्ञैर्देवास्तोषिता वा ततः किम् ।कीर्त्या व्याप्ताः सर्वलोकास्ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ६ ॥
कायः क्लिष्टश्चोपवासैस्ततः किंलब्धाः पुत्राः स्वीयपत्न्यास्ततः किम् ।प्राणायामः साधितो वा ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ७ ॥
युद्धे शत्रुर्निर्जितो वा ततः किंभूयो मित्रैः पूरितो वा ततः किम् ।योगः प्राप्ताः सिद्धयो वा ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ८ ॥
अब्धिः पद्भ्यां लङ्घितो वा ततः किंवायुः कुम्भे स्थापितो वा ततः किम् ।मेरुः पाणावुद्धृतो वा ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ९ ॥
क्ष्वेलः पीतो दुग्धवद्वा ततः किंवह्निर्जग्धो लाजवद्वा ततः किम् ।प्राप्तश्चारः पक्षिवत्खे ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १० ॥
बद्धाः सम्यक्पावकाद्यास्ततः किंसाक्षाद्विद्धा लोहवर्यास्ततः किम् ।लब्धो निक्षेपोऽञ्जनाद्यैस्ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ ११ ॥
भूपेन्द्रत्वं प्राप्तमुर्व्यां ततः किंदेवेन्द्रत्वं संभृतं वा ततः किम् ।मुण्डीन्द्रत्वं चोपलब्धं ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १२ ॥
मन्त्रैः सर्वः स्तम्भितो वा ततः किंबाणैर्लक्ष्यो भेदितो वा ततः किम् ।कालज्ञानं चापि लब्धं ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १३ ॥
कामातङ्कः खण्डितो वा ततः किंकोपावेशः कुण्ठितो वा ततः किम् ।लोभाश्लेषो वर्जितो वा ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १४ ॥
मोहध्वान्तः पेषितो वा ततः किंजातो भूमौ निर्मदो वा ततः किम् ।मात्सर्यार्तिर्मीलिता वा ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १५ ॥
धातुर्लोकः साधितो वा ततः किंविष्णोर्लोको वीक्षितो वा ततः किम् ।शंभोर्लोकः शासितो वा ततः किंयेन स्वात्मा नैव साक्षात्कृतोऽभूत् ॥ १६ ॥
यस्येदं हृदये सम्यगनात्मश्रीविगर्हणम् ।सदोदेति स एवात्मसाक्षात्कारस्य भाजनम् ॥ १७ ॥
अन्ये तु मायिकजगद्भ्रान्तिव्यामोहमोहिताः ।न तेषां जायते क्वापि स्वात्मसाक्षात्कृतिर्भुवि ॥ १८ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ अनात्मश्रीविगर्हणप्रकरणं संपूर्णम् ॥

Settings