भवतु विदितं छद्मालापैरलं प्रिय गम्यतांतनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशांप्रकृतिचपले का नः पीडा गते हतजीविते ॥२७॥
गते प्रेमाबन्धे प्रणयबहुमाने विगलितेनिवृत्ते सद्भावे जन इव जने गच्छति पुरः ।तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्न जाने को हेतुर्दलति शतधा यन् न हृदयम् ॥३८॥
चिरविरहिणोरुत्कण्ठार्तिश्लथीकृतगात्रयोर्नवमिव जगज् जातं भूयश्चिराद् अभिनन्दतोः ।कथमपि दिने दीर्घे याते निशामधिरूढयोःप्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥३९॥
लोलद्भ्रूलतया विपक्षदिगुपन्यासेऽवधूतं शिरस्तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः ।कोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयोर्उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥७९॥
जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितंवक्त्रं स्वेदकणान्वित न सहसा यावच्छठेनामुना ।दृष्टेनाव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मेतत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥८०॥