अखिलाण्डेश्वरीस्तोत्रम्

Click Settings to choose another script or language.
ओङ्कारार्णवमध्यगे त्रिपथगे ओङ्कारवीजात्मिकेओङ्कारेण सुखप्रदे शुभकरे ओङ्कारबिन्दुप्रिये ।ओङ्कारे जगदम्बिके शशिकले ओङ्कारपीठस्थितेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ १ ॥
ह्रीङ्कारार्णववर्णमध्यनिलये ह्रीङ्कारवर्णात्मकेह्रीङ्काराब्धिसुचारुचान्द्रकधरे ह्रीङ्कारनादप्रिये ।ह्रीङ्कारे त्रिपुरेश्वरी सुचरिते ह्रीङ्कारपीठस्थितेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ २ ॥
श्रीचक्राङ्कितभूषणोज्ज्वलमुखे श्रीराजराजेश्वरिश्रीकण्ठार्धशरीरभागनिलये श्रीजम्बुनाथप्रिये ।श्रीकान्तस्य सहोदरे सुमनसे श्रीबिन्दुपीठप्रियेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ३ ॥
कस्तूरीतिलकोज्ज्वले कलिहरे क्लीङ्कारबीजात्मिकेकल्याणी जगदीश्वरी भगवती कादम्बवासप्रिये ।कामाक्षी सकलेश्वरी शुभकरे कीङ्कारपीठस्थितेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ४ ॥
नादे नारदतुम्बुरादिविनुते नारायणी मङ्गलेनानालङ्कृतहारनूपुरधरे नासामणीभासुरे ।नानाभक्तसुपूज्यपादकमले नागारिमध्यस्थलेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ५ ॥
श्यामाङ्गी शरदिन्दुकोटिवदने सिद्धान्तमार्गप्रियेशान्ते शारदविग्रहे शुभकरे शास्त्रादिषड्दर्शने ।शर्वाणी परमात्मिके परशिवे प्रत्यक्षसिद्धिप्रदेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ६ ॥
माङ्गल्ये मधुरप्रिये मधुमती माङ्गल्यसूत्रोज्ज्वलेमाहात्म्यश्रवणे सुते सुतमयी माहेश्वरी चिन्मयि ।मान्धा(ता)[तृ]प्रमुखादिपूजितपदे मन्त्रा(र्ध)[र्थ]सिद्धिप्रदेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ७ ॥
तत्त्वे तत्त्वमयी परात्परमयि ज्योतिर्मयी चिन्मयिनादे नादमयी सदाशिवमयी तत्त्वार्थसारामयि[त्मिके]शब्दब्रह्ममयी चराचरमयी वेदान्तरूपात्मिकेदासोऽहं तव पादपद्मयुगलं वन्देऽखिलाण्डेश्वरि ॥ ८ ॥
कदम्बवृक्षमूले त्वं वासिनि शुभधारिणि ।धराधरसुते देवि मङ्गलं कुरु शङ्करि ॥ ९ ॥
ध्यात्वा त्वां देवि दशकं ये पठन्ति भृगोर्दिने ।तेषां च धनमायुष्यमारोग्यं पुत्रसंपदः ॥ १० ॥
॥ इति श्री अखिलाण्डेश्वरीस्तोत्रं सम्पूर्णम् ॥