सुब्रह्मण्यभुजंगम्

सदा बालरूपापि विघ्नाद्रिहन्त्रीमहादन्तिवक्त्रापि पञ्चास्यमान्या ।विधीन्द्रादिमृग्या गणेशाभिधा मेविधत्तां श्रियं कापि कल्याणमूर्तिः ॥ १ ॥
न जानामि शब्दं न जानामि चार्थंन जानामि पद्यं न जानामि गद्यम् ।चिदेका षडास्या हृदि द्योतते मेमुखान्निःसरन्ते गिरश्चापि चित्रम् ॥ २ ॥
मयूराधिरूढं महावाक्यगूढंमनोहारिदेहं महच्चित्तगेहम् ।महीदेवदेवं महावेदभावंमहादेवबालं भजे लोकपालम् ॥ ३ ॥
यदा संनिधानं गता मानवा मेभवाम्भोधिपारं गतास्ते तदैव ।इति व्यञ्जयन्सिन्धुतीरे य आस्तेतमीडे पवित्रं पराशक्तिपुत्रम् ॥ ४ ॥
यथाब्धेस्तरङ्गा लयं यान्ति तुङ्गा-स्तथैवापदः संनिधौ सेवतां मे ।इतीवोर्मिपङ्क्तीर्नृणां दर्शयन्तंसदा भावये हृत्सरोजे गुहं तम् ॥ ५ ॥
गिरौ मन्निवासे नरा येऽधिरूढा-स्तदा पर्वते राजते तेऽधिरूढाः ।इतीव ब्रुवन्गन्धशैलाधिरूढःस देवो मुदे मे सदा षण्मुखोऽस्तु ॥ ६ ॥
महाम्भोधितीरे महापापचोरेमुनीन्द्रानुकूले सुगन्धाख्यशैले ।गुहायां वसन्तं स्वभासा लसन्तंजनार्तिं हरन्तं श्रयामो गुहं तम् ॥ ७ ॥
लसत्स्वर्णगेहे नृणां कामदोहेसुमस्तोमसंछन्नमाणिक्यमञ्चे ।समुद्यत्सहस्रार्कतुल्यप्रकाशंसदा भावये कार्तिकेयं सुरेशम् ॥ ८ ॥
रणद्धंसके मञ्जुलेऽत्यन्तशोणेमनोहारिलावण्यपीयूषपूर्णे ।मनः षट्पदो मे भवक्लेशतप्तःसदा मोदतां स्कन्द ते पादपद्मे ॥ ९ ॥
सुवर्णाभदिव्याम्बरैर्भासमानांक्वणत्किङ्किणीमेखलाशोभमानाम् ।लसद्धेमपट्टेन विद्योतमानांकटिं भावये स्कन्द ते दीप्यमानाम् ॥ १० ॥
पुलिन्देशकन्याघनाभोगतुङ्ग-स्तनालिङ्गनासक्तकाश्मीररागम् ।नमस्याम्यहं तारकारे तवोरःस्वभक्तावने सर्वदा सानुरागम् ॥ ११ ॥
विधौ कॢप्तदण्डान्स्वलीलाधृताण्डा-न्निरस्तेभशुण्डाद्विषत्कालदण्डान् ।हतेन्द्रारिषण्डाञ्जगत्त्राणशौण्डा-न्सदा ते प्रचण्डाश्रये बाहुदण्डान् ॥ १२ ॥
सदा शारदाः षण्मृगाङ्का यदि स्युःसमुद्यन्त एव स्थिताश्चेत्समन्तात् ।सदा पूर्णबिम्बाः कलङ्कैश्च हीना-स्तदा त्वन्मुखानां ब्रुवे स्कन्द साम्यम् ॥ १३ ॥
स्फुरन्मन्दहासैः सहंसानि चञ्च-त्कटाक्षावलीभृङ्गसंघोज्ज्वलानि ।सुधास्यन्दिबिम्बाधराणीशसूनोतवालोकये षण्मुखाम्भोरुहाणि ॥ १४ ॥
विशालेषु कर्णान्तदीर्घेष्वजस्रंदयास्यन्दिषु द्वादशस्वीक्षणेषु ।मयीषत्कटाक्षः सकृत्पातितश्चे-द्भवेत्ते दयाशील का नाम हानिः ॥ १५ ॥
सुताङ्गोद्भवो मेऽसि जीवेति षड्धाजपन्मन्त्रमीशो मुदा जिघ्रते यान् ।जगद्भारभृद्भ्यो जगन्नाथ तेभ्यःकिरीटोज्ज्वलेभ्यो नमो मस्तकेभ्यः ॥ १६ ॥
स्फुरद्रत्नकेयूरहाराभिराम-श्चलत्कुण्डलश्रीलसद्गण्डभागः ।कटौ पीतवासाः करे चारुशक्तिःपुरस्तान्ममास्तां पुरारेस्तनूजः ॥ १७ ॥
इहायाहि वत्सेति हस्तान्प्रसार्या-ह्वयत्यादराच्छंकरे मातुरङ्कात् ।समुत्पत्य तातं श्रयन्तं कुमारंहराश्लिष्टगात्रं भजे बालमूर्तिम् ॥ १८ ॥
कुमारेशसूनो गुह स्कन्द सेना-पते शक्तिपाणे मयूराधिरूढ ।पुलिन्दात्मजाकान्त भक्तार्तिहारिन्प्रभो तारकारे सदा रक्ष मां त्वम् ॥ १९ ॥
प्रशान्तेन्द्रिये नष्टसंज्ञे विचेष्टेकफोद्गारिवक्त्रे भयोत्कम्पिगात्रे।प्रयाणोन्मुखे मय्यनाथे तदानींद्रुतं मे दयालो भवाग्रे गुह त्वम् ॥ २० ॥
कृतान्तस्य दूतेषु चण्डेषु कोपा-द्दह च्छिन्द्धि भिन्द्धीति मां तर्जयत्सु ।मयूरं समारुह्य मा भैरिति त्वंपुरः शक्तिपाणिर्ममायाहि शीघ्रम् ॥ २१ ॥
प्रणम्यासकृत्पादयोस्ते पतित्वाप्रसाद्य प्रभो प्रार्थयेऽनेकवारम् ।न वक्तुं क्षमोऽहं तदानीं कृपाब्धेन कार्यान्तकाले मनागप्युपेक्षा ॥ २२ ॥
सहस्राण्डभोक्ता त्वया शूरनामाहतस्तारकः सिंहवक्त्रश्च दैत्यः ।ममान्तर्हृदिस्थं मनःक्लेशमेकंन हंसि प्रभो किं करोमि क्व यामि ॥ २३ ॥
अहं सर्वदा दुःखभारावसन्नोभवान्दीनबन्धुस्त्वदन्यं न याचे ।भवद्भक्तिरोधं सदा कॢप्तबाधंममाधिं द्रुतं नाशयोमासुत त्वम् ॥ २४ ॥
अपस्मारकुष्ठक्षयार्शः प्रमेह-ज्वरोन्मादगुल्मादिरोगा महान्तः ।पिशाचाश्च सर्वे भवत्पत्रभूतिंविलोक्य क्षणात्तारकारे द्रवन्ते ॥ २५ ॥
दृशि स्कन्दमूर्तिः श्रुतौ स्कन्दकीर्ति-र्मुखे मे पवित्रं सदा तच्चरित्रम् ।करे तस्य कृत्यं वपुस्तस्य भृत्यंगुहे सन्तु लीना ममाशेषभावाः ॥ २६ ॥
मुनीनामुताहो नृणां भक्तिभाजा-मभीष्टप्रदाः सन्ति सर्वत्र देवाः ।नृणामन्त्यजानामपि स्वार्थदानेगुहाद्देवमन्यं न जाने न जाने ॥ २७ ॥
कलत्रं सुता बन्धुवर्गः पशुर्वानरो वाथ नारी गृहे ये मदीयाः ।यजन्तो नमन्तः स्तुवन्तो भवन्तंस्मरन्तश्च ते सन्तु सर्वे कुमार ॥ २८ ॥
मृगाः पक्षिणो दंशका ये च दुष्टा-स्तथा व्याधयो बाधका ये मदङ्गे ।भवच्छक्तितीक्ष्णाग्रभिन्नाः सुदूरेविनश्यन्तु ते चूर्णितक्रौञ्चशैल ॥ २९ ॥
जनित्री पिता च स्वपुत्रापराधंसहेते न किं देवसेनाधिनाथ ।अहं चातिबालो भवान् लोकतातःक्षमस्वापराधं समस्तं महेश ॥ ३० ॥
नमः केकिने शक्तये चापि तुभ्यंनमश्छाग तुभ्यं नमः कुक्कुटाय ।नमः सिन्धवे सिन्धुदेशाय तुभ्यंपुनः स्कन्दमूर्ते नमस्ते नमोऽस्तु ॥ ३१ ॥
जयानन्दभूमञ्जयापारधाम-ञ्जयामोघकीर्ते जयानन्दमूर्ते ।जयानन्दसिन्धो जयाशेषबन्धोजय त्वं सदा मुक्तिदानेशसूनो ॥ ३२ ॥
भुजङ्गाख्यवृत्तेन कॢप्तं स्तवं यःपठेद्भक्तियुक्तो गुहं संप्रणम्य ।स पुत्रान्कलत्रं धनं दीर्घमायु-र्लभेत्स्कन्दसायुज्यमन्ते नरः सः३३ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री सुब्रह्मण्यभुजंगं संपूर्णम् ॥

Settings