प्रथमः पादः

अथैनमगस्त्यः पप्रच्छ हयग्रीवं किं तारकं किं तरति । स होवाच हयग्रीवः । तारदीर्घानुलम्बिपूर्वकं प्रथमं खण्डं ततो द्वितीयं खण्डं ततस्तृतीयं खण्डं ततश्चतुर्थं खण्डं ब्रह्मात्मसच्चिदानन्दात्मकमन्त्रमित्युपासितव्यम् । अकारः प्रथमकूटाक्षरो भवति । उकारो द्वितीयकूटाक्षरो भवति । मकारस्तृतीयकूटाक्षरो भवति । अर्धमातृका चतुर्थकूटाक्षरो भवति । बिन्दुः पञ्चमकूटाक्षरो भवति । नादः षष्ठकूटाक्षरो भवति । तारकत्वात्तारको भवति । तदेव मन्त्रतारकं भवति । तदेव मन्त्रतारकब्रह्म त्वं विद्धि । तदेवोपासितव्यम् । गर्भजन्ममरणसंसारमहद्भयात्तं तारयति । तारकमित्येतत्तारकं ब्राह्मणो नित्यं महीयते । स पाप्मानं तरति । स मृत्युं तरति । स ब्रह्महत्यां तरति । स भ्रूणहत्यां तरति । स वीरहत्यां तरति । स सर्वं तरति । स संसारं तरति । सोऽविमुक्तमाश्रितो भवति ।
अकाराक्षरसंभूता वाग्भवा विश्वभाविता ।उकाराक्षरसंभूता तेजसः कामराजका ॥
प्राज्ञो मकारसंभूता तार्तीया च तृतीयका ।अर्धमात्रा षोडशी च ब्रह्मानन्दैकविग्रहा ॥
तस्याः सान्निध्यवशतो जगदानन्ददायिनी ।उत्पत्तिस्थितिसंहारकारिणी सर्वदेहिनाम् ॥
त्रिकूटा भवति ज्ञेया मूलप्रकृतिसङ्गता ।प्रकृतिः प्रणवत्वाच्च सा त्रिकूटत्रयात्मिका ॥
एवं यच्चान्यत् त्रिकालातीतम् । चतुष्कूटात्मिकैव सर्वकूटात्मिका ब्रह्ममयी । तुर्यात्मब्रह्मा सोऽयमात्मा चतुष्पाज्जगतः स्थानं न बहिःप्रज्ञं नोभयतःप्रज्ञं सप्ताङ्ग एकोनविंशतिमुखः । स्थूलभुग्वैश्वानरात्मिकां कामपीठालयां मित्रेशनाथात्मिकां जाग्रद्दशाधिष्ठायिनीमिच्छाशक्त्यात्मिकां कामेश्वरीं प्रथमकूटां मन्यन्ते ।
इति प्रथमः पादः

Settings