श्रीवेंकटेशमङ्गलाशासनम्

श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।श्री वेंकटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥
लक्ष्मीसविभ्रमालोकसुभ्रूविभ्रमचक्षुषे ।चक्षुषे सर्वलोकानां वेंकटेशाय मङ्गलम् ॥ २ ॥
श्रीवेंकटाद्रिशृङ्गाग्रमङ्गलाभरणांघ्रये ।मङ्गलानां निवासाय वेंकटेशाय मङ्गलम् ॥ ३ ॥
सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् ।सदा संमोहनायास्तु वेंकटेशाय मङ्गलम् ॥ ४ ॥
नित्याय निरवद्याय सत्यानन्दचिदात्मने ।सर्वान्तरात्मने श्रीमद्वेंकटेशाय मङ्गलम् ॥ ५ ॥
स्वतस्सर्वविदे सर्वशक्तये सर्वशेषिणे ।सुलभाय सुशीलाय वेंकटेशाय मङ्गलम् ॥ ६ ॥
परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।प्रयुजे परतत्त्वाय वेंकटेशाय मङ्गलम् ॥ ७ ॥
आकालतत्त्वमश्रान्तमात्मनामनुपश्यताम् ।अतृप्त्यमृतरूपाय वेंकटेशाय मङ्गलम् ॥ ८ ॥
प्रायस्स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।कृपयाऽऽदिशते श्रीमद्वेंकटेशाय मङ्गलम् ॥ ९ ॥
दयामृततरङ्गिण्यास्तरङ्गैरिव शीतलैः ।अपाङ्गैः सिञ्चते विश्वं वेंकटेशाय मङ्गलम् ॥ १० ॥
स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये ।सर्वार्तिशमदायास्तु वेंकटेशाय मङ्गलम् ॥ ११ ॥
श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे ।रमया रममाणाय वेंकटेशाय मङ्गलम् ॥ १३ ॥
श्रीमत्सुन्दरजामातृमुनिमानसवासिने ।सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ १३ ॥
मङ्गलाशासनपरैर्मदाचार्यपुरोगमैः ।सर्वैश्च पूर्वैराचार्यैस्सत्कृतायास्तु मङ्गलम् ॥ १४ ॥
इति श्रीवेंकटेशमङ्गलाशासनम्

Settings