श्रीशिवस्तुतिः

Click Settings to choose another script or language.
त्रैलोक्यं सकलं त्रिकालविषयं सालोकमालोकितंसाक्षाद्येन यथास्वयं करतले रेखात्रयं साङ्गुले ।रागद्वेषभयप्रियान्तकजरालोलत्वलोभादयोनालं यत्पदलङ्घनाय स महादेवो मया वन्द्यते ॥ १ ॥
दग्धं येन पुरत्रयं शरभुवा तीव्रार्चिषा वह्निनायोऽपानृत्यति मत्तवत् पितृवने यस्यात्मजो वा गुहः ।सोऽयं किं मम शङ्करो भयतृषारोषार्तिमोहक्षयंकृत्वा यः स तु सर्ववित्तनुभृतां क्षेमंकरः शंकरः ॥ २ ॥?
यत्नाद्येन विदारितं कररुहैर्दैत्येन्द्रवक्षस्स्थलंसारथ्येन धनञ्जयस्य समरे योऽमारयत्कौरवान् ।नासौ विष्णुरनेककालविषयं यज्ज्ञानमव्याहतंविश्व व्याप्य विजृम्भते स च महाविष्णुर्विशिष्टो मम ॥ ३ ॥
यो जग्ध्वा पिशितं समत्स्यकबलं जीवन्तिशून्यं पदं(?)कर्ता कर्मफलं न भुंक्त इति यो वक्ता स बुद्धः कथम् ।यज्ज्ञानं क्षणवर्तिवस्तु सकलं ज्ञातुं न शक्तं सदायो जानन् युगपज्जगत्त्रयमिदं साक्षात्स बुद्धो मम ॥ ४ ॥
पूर्वस्यामुदपादि रागबहुलं चेतो यदीयं पुनःपात्रं दण्डकमण्डलुप्रभृतयो यस्याकृतार्था स्थितिम् ।आविर्भावयुतं भवन्ति स कथं ब्रह्मा भवेन्मादृशंक्षुत्तृष्णाश्रमरागरोषरहितो ब्रह्मा कृतार्थोऽस्तु नः ॥ ५ ॥
ब्रह्मा चर्माक्षसूत्रीसुरयुवतिरसावेशविभ्रान्तचेताःशम्भुः खट्वाङ्गधारी गिरिपतितनयापाङ्गलीलानुबद्धः ।विष्णुश्चक्राधिपः सन् दुहितरमगमद्गोपनाथस्य मोहा-दस्मिन् विश्वस्तरागो जितभयमरणः कोऽयमेष्वाप्तनाथः ॥ ६ ॥
यो विश्वं वेद वेद्या जनभजलनिधेर्भङ्गिनः पारदृश्वा(?)पौर्वापर्याविरुद्धं वचनमनुपमं निष्कलङ्कं यदीयम् ।तं वन्दे साधु वन्द्यं सकलगुणनिधिं ध्वस्तदोषं द्विपन्तोबुद्धं वा वर्धमानं शतदलनिलयं केशवं वा शिवं वा ॥ ७ ॥
ईशः किं छिन्नलिङ्गो यदि विगतभयः शूलपाणिः कथं स्यात्नाथः किं भैक्षचारी यतिरिति स कथं सङ्गनः सात्मजश्च ।आद्राजः किं त्वजन्मा सकलविदिति किं वेत्ति नात्मान्तरायंसंक्षेपात्सम्यगुक्तं पशुपतिमपशुः कोऽत्र धीमानुपास्ते ॥ ८ ॥
नाहङ्कारवशीकृतेन मनसा न द्वेषिणा केवलंनैरात्म्यं प्रतिपद्य नश्यति जने कारुण्यबुद्ध्या मया ।राज्ञः श्रीहिमशीतलस्य सदसि प्रायो विदग्धात्मनोबौद्धौघान् सकलान् विजित्य सघटः पादेन विस्फाटितः ॥ ९ ॥
॥ इति श्रीशिवस्तुतिः सम्पूर्णा ॥