श्रीशिवषडक्षरस्तोत्रम्

Click Settings to choose another script or language.
ओंकारसञ्जातसमस्तवेदपुराणपुण्यागमपूजिताय ।ओंकारवर्णप्रतिपादिताय ओंकाररूपाय नमः शिवाय ॥ १ ॥
नगाधिवासाय निरामयाय भस्माङ्गरागाय भयापहाय ।देवादिदेवाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥ २ ॥
मत्तेभचर्माम्बरभूषणाय मारान्तकाराय महेश्वराय ।चन्द्रार्कवैश्वानरलोचनाय तस्मै मकाराय नमः शिवाय ॥ ३ ॥
शिवाय गौरीवदनारविन्दसूर्याय दक्षाध्वरनाशनाय ।श्रीनीलकण्ठाय शिवाप्रियाय तस्मै शिकाराय नमः शिवाय ॥ ४ ॥
वागीशकुम्भोद्भवगौतमादिमुनीन्द्रवन्द्याय मुनीश्वराय ।त्रैलोक्यनाथाय पुरान्तकाय तस्मै वकाराय नमः शिवाय ॥ ५ ॥
यज्ञस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।नित्याय शुद्धाय निरञ्जनाय तस्मै यकाराय नमः शिवाय ॥ ६ ॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥
प्रातःकाले शिवं दृष्ट्वा निशापापं विनश्यति ।मध्याह्ने कृतमाजन्म सायाह्वे सप्तजन्मसु ॥ ८ ॥
मेरुकाञ्चनदत्तानां गवां कोटिशतैरपि ।पञ्चकोटीतुरङ्गानां तत्फलं(शिव)लिङ्गदर्शनम् ॥ ९ ॥
॥ इति श्रीशिवषडक्षरस्तोत्रम् ॥