श्रीरुद्रमङ्गलाशंसनम्

Click Settings to choose another script or language.
श्रीमहादेवाय सेवकामरद्रुमायसोमशेखराय दिव्यसुन्दराय ।भीमभुजवलाय दैत्यभीकरायद्रहिणशैलजामनोनलदिनेशाय मङ्गलम्( ? )॥ १ ॥
मङ्गलं कैलासमन्दिराय चारुसा-रङ्गधृतकराय भक्तरञ्जनाय ।भृङ्गिनाट्यप्रियाय त्रिपुरदानवान्तकायगङ्गानदीभुजङ्गाय मङ्गलम् ॥ २ ॥
साम्बशङ्कराय हेमशैलजा[चा]पधारणायशम्बरासुरारिगर्वसंहराय ।अम्बुजासनादिवन्द्यनित्यताण्डवाडम्बरायनीलकण्ठाय मङ्गलम् ॥ ३ ॥
पुण्यपूरुषाय सर्वभूतिदायकायकारुण्यमानसाय निटिललोचनाय ।गण्यगुणगणाय कलुषगहनकीलायलावण्यदेहाय शर्वाय मङ्गलम् ॥ ४ ॥
अन्तकान्तकाय प्रत्यहं नमः शिवायसुमहदन्तरङ्गवासिने दिगन्तशाटिने ।चिन्तितार्थदायिने भसितविलेपनाङ्गायशान्ताय श्रीगिरीशाय मङ्गलम् ॥ ५ ॥
मङ्गलं मङ्गलं मङ्गलं जयमङ्गलाय भवते ।अङ्गजारिभुजङ्गभूषण लिङ्गवृषभतुरङ्ग जय जय ॥ ६ ॥
॥ इति श्रीरुद्रमङ्गलाशंसनम् ॥