श्रीनमश्शिवाष्टकम् (२)

Click Settings to choose another script or language.
आद्याय सर्वजगतामखिलेष्टदायनित्याय निर्जितसुरासुरवैभवाय ।कुन्देन्दुगौरवपुषे कुसुमास्त्रहन्त्रेदेवाय भक्तवरदाय नमः शिवाय ॥ १ ॥
गङ्गाधराय गरुडध्वजवन्दितायगौरीसखाय करूणामृतसागराय ।उद्गातने(?)कुसुमकर्बुरकन्धरायपूर्णाय पुष्करकचाय नमः शिवाय ॥ २ ॥
संसारसागरसमुत्तरणप्लवायसोमानलार्कनयनाय सुरार्चिताय ।दुष्कर्मधर्मजलदाय दुरासदायदुष्टात्मनां पुरहराय नमः शिवाय ॥ ३ ॥
वेदाय वेदनिलयाय विदां वरायविज्ञानमात्रवपुषे विविधात्मकाय ।यज्ञान्तकाय यजतामभयप्रदाययज्ञार्चिताय गिरिशाय नमः शिवाय ॥ ४ ॥
यन्नाम जन्तुरवशोऽपि गृणन् कदाचित्यामीं न याति भयदामिह यातनालिम् ।तस्मै जरामरणजन्मभयातिगायगन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ५ ॥
नान्तं च मध्यमथवादिमजः स चाहंविष्णुस्तथैव यमितेन्द्रियचेतसोऽपि ।जानन्ति सन्मुनिवराश्च तथामरेशाःगन्धर्वगीतयशसेऽस्तु नमः शिवाय ॥ ६ ॥
भूतेश्वराय भुजगेन्द्रविभूषणायभूतित्रयाय भुवनाधिपवन्दिताय ।पीताम्बरप्रियसखाय पिनाकदोष्णेनानाविचित्रगतयेऽस्तु नमः शिवाय ॥ ७ ॥
रुद्राय भद्रचरिताय महोक्षगायशूलाभयानि मृगचर्मपराङ्कुशाय(?)पादानतार्तिदलनाय पलाशिहन्त्रेमृयुंजयाय विजयाय नमः शिवाय ॥ ८ ॥
॥ इति श्रीनमश्शिवाष्टकं सम्पूर्णम् ॥