श्रीमातृस्तवः

Click Settings to choose another script or language.
चाञ्चल्यारुणलोचनाञ्चितकृपाचन्द्रार्कचूडामणिंचारुस्मेरमुखीं चराचरजगत्संरक्षणीं तत्पदाम् ।चञ्चच्चम्पकनासिकाग्रविलसन्मुक्तामणीरञ्जितांश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ १ ॥
कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासिफालस्थलींकर्पूरद्रवमिश्रचूर्णखदिरां मेदोलसद्द्वीपिकाम् ।लोलापाङ्गतरङ्गितैरधिकृपासारैर्नतानन्दिनींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ २ ॥
राजन्मत्तमरालमन्दगमनां राजीवपत्रेक्षणांराजीवप्रभवादिदेवमकुटीरराजत्पदाम्भोरुहाम् ।राजीवायतमन्दमण्डितरुचां राजाधिराजेश्वरींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ३ ॥
षट्ताराङ्गणदीपिकां शिवसतीं षड्वैरिवर्गापहांषट्चक्रान्तरसंस्थितां वरसुधां षड्योगिनीवेष्टिताम् ।षट्चक्राञ्चितपादुकाञ्चितपदां षड्भावगां षोडशींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ४ ॥
श्रीनाथात् कृतपालितत्रिभुवनां श्रीचक्रसंचारिणींज्ञानासक्तमनोजयौवनलसद्गन्धर्वकन्याकृता[ति]म् ।दीनानामतिवेगभाग्यजननीं दिव्याम्बरालङ्कृतांश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ५ ॥
लावण्याधिकभूषिताङ्गलतिकां लाक्षारसद्राविणींसेवायातसमस्तदेववनितां सीमन्तभूषान्विताम् ।भावोल्लासवशीकृतप्रियतमां भण्डासुरच्छेदिनींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ६ ॥
धन्य(स्सो)[स्तो]मविभावनीयचरितां धाराधरश्यामलांमुन्याराधनमेधिनीं शमवतां मुक्तिप्रदानव्रताम् ।कन्यापूजनसुप्रसन्नहृदयां काञ्चीलसन्मध्यमांश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ७ ॥
कर्पूरागरुकुङ्कुमाङ्कितकुचां कर्पूरवर्णस्थिता-मष्टोत्कृष्टसुकृष्टकर्मदहनां कामेश्वरीं कामिनीम् ।कामाक्षीं करुणारसार्द्रहृदयां कल्पान्तरस्थायिनींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ८ ॥
गायत्रीं गरुडध्वजां गगनगां गान्धर्वगानप्रियांगम्भीरां गजगामिनीं गिरिसुतां गन्धाक्षतालङ्कृताम् ।गङ्गागौतमगर्गसन्नुतपदां गां गौतमीं गोमतींश्रीशैलस्थलवासिनीं भगवतीं श्रीमातरं भावये ॥ ९ ॥
॥ इति श्रीमातृस्तवः सम्पूर्णः ॥